७. द्रोणपर्व
७.९५.१संजय उवाच

७.९५.२ततः स सात्यकिर्धीमान्महात्मा वृष्णिपुंगवः
सुदर्शनं निहत्याजौ यन्तारमिदमब्रवीत्

७.९५.३रथाश्वनागकलिलं शरशक्त्यूर्मिमालिनम्
खड्गमत्स्यं गदाग्राहं शूरायुधमहास्वनम्

७.९५.४प्राणापहारिणं रौद्रं वादित्रोत्क्रुष्टनादितम्
योधानामसुखस्पर्शं दुर्धर्षमजयैषिणाम्

७.९५.५तीर्णाः स्म दुस्तरं तात द्रोणानीकमहार्णवम्
जलसंधबलेनाजौ पुरुषादैरिवावृतम्

७.९५.६अतोऽन्यं पृतनाशेषं मन्ये कुनदिकामिव
तर्तव्यामल्पसलिलां चोदयाश्वानसंभ्रमम्

७.९५.७हस्तप्राप्तमहं मन्ये सांप्रतं सव्यसाचिनम्
निर्जित्य दुर्धरं द्रोणं सपदानुगमाहवे

७.९५.८हार्दिक्यं योधवर्यं च प्राप्तं मन्ये धनंजयम्
न हि मे जायते त्रासो दृष्ट्वा सैन्यान्यनेकशः
वह्नेरिव प्रदीप्तस्य ग्रीष्मे शुष्कं तृणोलपम्

७.९५.९पश्य पाण्डवमुख्येन यातां भूमिं किरीटिना
पत्त्यश्वरथनागौघैः पतितैर्विषमीकृताम्

७.९५.१०अभ्याशस्थमहं मन्ये श्वेताश्वं कृष्णसारथिम्
स एष श्रूयते शब्दो गाण्डीवस्यामितौजसः

७.९५.११यादृशानि निमित्तानि मम प्रादुर्भवन्ति वै
अनस्तंगत आदित्ये हन्ता सैन्धवमर्जुनः

७.९५.१२शनैर्विश्रम्भयन्नश्वान्याहि यत्तोऽरिवाहिनीम्
यत्रैते सतनुत्राणाः सुयोधनपुरोगमाः

७.९५.१३दंशिताः क्रूरकर्माणः काम्बोजा युद्धदुर्मदाः
शरबाणासनधरा यवनाश्च प्रहारिणः

७.९५.१४शकाः किराता दरदा बर्बरास्ताम्रलिप्तकाः
अन्ये च बहवो म्लेच्छा विविधायुधपाणयः
मामेवाभिमुखाः सर्वे तिष्ठन्ति समरार्थिनः

७.९५.१५एतान्सरथनागाश्वान्निहत्याजौ सपत्तिनः
इदं दुर्गं महाघोरं तीर्णमेवोपधारय

७.९५.१६सूत उवाच

७.९५.१७न संभ्रमो मे वार्ष्णेय विद्यते सत्यविक्रम
यद्यपि स्यात्सुसंक्रुद्धो जामदग्न्योऽग्रतः स्थितः

७.९५.१८द्रोणो वा रथिनां श्रेष्ठः कृपो मद्रेश्वरोऽपि वा
तथापि संभ्रमो न स्यात्त्वामाश्रित्य महाभुज

७.९५.१९त्वया सुबहवो युद्धे निर्जिताः शत्रुसूदन
न च मे संभ्रमः कश्चिद्भूतपूर्वः कदाचन
किमु चैतत्समासाद्य वीर संयुगगोष्पदम्

७.९५.२०आयुष्मन्कतरेण त्वा प्रापयामि धनंजयम्
केषां क्रुद्धोऽसि वार्ष्णेय केषां मृत्युरुपस्थितः
केषां संयमनीमद्य गन्तुमुत्सहते मनः

७.९५.२१के त्वां युधि पराक्रान्तं कालान्तकयमोपमम्
दृष्ट्वा विक्रमसंपन्नं विद्रविष्यन्ति संयुगे
केषां वैवस्वतो राजा स्मरतेऽद्य महाभुज

७.९५.२२सात्यकिरुवाच

७.९५.२३मुण्डानेतान्हनिष्यामि दानवानिव वासवः
प्रतिज्ञां पारयिष्यामि काम्बोजानेव मा वह
अद्यैषां कदनं कृत्वा क्षिप्रं यास्यामि पाण्डवम्

७.९५.२४अद्य द्रक्ष्यन्ति मे वीर्यं कौरवाः ससुयोधनाः
मुण्डानीके हते सूत सर्वसैन्येषु चासकृत्

७.९५.२५अद्य कौरवसैन्यस्य दीर्यमाणस्य संयुगे
श्रुत्वा विरावं बहुधा संतप्स्यति सुयोधनः

७.९५.२६अद्य पाण्डवमुख्यस्य श्वेताश्वस्य महात्मनः
आचार्यककृतं मार्गं दर्शयिष्यामि संयुगे

७.९५.२७अद्य मद्बाणनिहतान्योधमुख्यान्सहस्रशः
दृष्ट्वा दुर्योधनो राजा पश्चात्तापं गमिष्यति

७.९५.२८अद्य मे क्षिप्रहस्तस्य क्षिपतः सायकोत्तमान्
अलातचक्रप्रतिमं धनुर्द्रक्ष्यन्ति कौरवाः

७.९५.२९मत्सायकचिताङ्गानां रुधिरं स्रवतां बहु
सैनिकानां वधं दृष्ट्वा संतप्स्यति सुयोधनः

७.९५.३०अद्य मे क्रुद्धरूपस्य निघ्नतश्च वरान्वरान्
द्विरर्जुनमिमं लोकं मंस्यते स सुयोधनः

७.९५.३१अद्य राजसहस्राणि निहतानि मया रणे
दृष्ट्वा दुर्योधनो राजा संतप्स्यति महामृधे

७.९५.३२अद्य स्नेहं च भक्तिं च पाण्डवेषु महात्मसु
हत्वा राजसहस्राणि दर्शयिष्यामि राजसु

७.९५.३३संजय उवाच

७.९५.३४एवमुक्तस्तदा सूतः शिक्षितान्साधुवाहिनः
शशाङ्कसंनिकाशान्वै वाजिनोऽचूचुदद्भृशम्

७.९५.३५ते पिबन्त इवाकाशं युयुधानं हयोत्तमाः
प्रापयन्यवनाञ्शीघ्रं मनःपवनरंहसः

७.९५.३६सात्यकिं ते समासाद्य पृतनास्वनिवर्तिनम्
बहवो लघुहस्ताश्च शरवर्षैरवाकिरन्

७.९५.३७तेषामिषूनथास्त्राणि वेगवन्नतपर्वभिः
अच्छिनत्सात्यकी राजन्नैनं ते प्राप्नुवञ्शराः

७.९५.३८रुक्मपुङ्खैः सुनिशितैर्गार्ध्रपत्रैरजिह्मगैः
उच्चकर्त शिरांस्युग्रो यवनानां भुजानपि

७.९५.३९शैक्यायसानि वर्माणि कांस्यानि च समन्ततः
भित्त्वा देहांस्तथा तेषां शरा जग्मुर्महीतलम्

७.९५.४०ते हन्यमाना वीरेण म्लेच्छाः सात्यकिना रणे
शतशो न्यपतंस्तत्र व्यसवो वसुधातले

७.९५.४१सुपूर्णायतमुक्तैस्तानव्यवच्छिन्नपिण्डितैः
पञ्च षट्सप्त चाष्टौ च बिभेद यवनाञ्शरैः

७.९५.४२काम्बोजानां सहस्रैस्तु शकानां च विशां पते
शबराणां किरातानां बर्बराणां तथैव च

७.९५.४३अगम्यरूपां पृथिवीं मांसशोणितकर्दमाम्
कृतवांस्तत्र शैनेयः क्षपयंस्तावकं बलम्

७.९५.४४दस्यूनां सशिरस्त्राणैः शिरोभिर्लूनमूर्धजैः
तत्र तत्र मही कीर्णा विबर्हैरण्डजैरिव

७.९५.४५रुधिरोक्षितसर्वाङ्गैस्तैस्तदायोधनं बभौ
कबन्धैः संवृतं सर्वं ताम्राभ्रैः खमिवावृतम्

७.९५.४६वज्राशनिसमस्पर्शैः सुपर्वभिरजिह्मगैः
ते साश्वयाना निहताः समावव्रुर्वसुंधराम्

७.९५.४७अल्पावशिष्टाः संभग्नाः कृच्छ्रप्राणा विचेतसः
जिताः संख्ये महाराज युयुधानेन दंशिताः

७.९५.४८पार्ष्णिभिश्च कशाभिश्च ताडयन्तस्तुरंगमान्
जवमुत्तममास्थाय सर्वतः प्राद्रवन्भयात्

७.९५.४९काम्बोजसैन्यं विद्राव्य दुर्जयं युधि भारत
यवनानां च तत्सैन्यं शकानां च महद्बलम्

७.९५.५०स ततः पुरुषव्याघ्रः सात्यकिः सत्यविक्रमः
प्रहृष्टस्तावकाञ्जित्वा सूतं याहीत्यचोदयत्

७.९५.५१तं यान्तं पृष्ठगोप्तारमर्जुनस्य विशां पते
चारणाः प्रेक्ष्य संहृष्टास्त्वदीयाश्चाप्यपूजयन्