७.९८.१संजय उवाच
७.९८.२दुःशासनरथं दृष्ट्वा समीपे पर्यवस्थितम्
भारद्वाजस्ततो वाक्यं दुःशासनमथाब्रवीत्
७.९८.३दुःशासन रथाः सर्वे कस्मादेते प्रविद्रुताः
कच्चित्क्षेमं तु नृपतेः कच्चिज्जीवति सैन्धवः
७.९८.४राजपुत्रो भवानत्र राजभ्राता महारथः
किमर्थं द्रवसे युद्धे यौवराज्यमवाप्य हि
७.९८.५स्वयं वैरं महत्कृत्वा पाञ्चालैः पाण्डवैः सह
एकं सात्यकिमासाद्य कथं भीतोऽसि संयुगे
७.९८.६न जानीषे पुरा त्वं तु गृह्णन्नक्षान्दुरोदरे
शरा ह्येते भविष्यन्ति दारुणाशीविषोपमाः
७.९८.७अप्रियाणां च वचनं पाण्डवेषु विशेषतः
द्रौपद्याश्च परिक्लेशस्त्वन्मूलो ह्यभवत्पुरा
७.९८.८क्व ते मानश्च दर्पश्च क्व च तद्वीर गर्जितम्
आशीविषसमान्पार्थान्कोपयित्वा क्व यास्यसि
७.९८.९शोच्येयं भारती सेना राजा चैव सुयोधनः
यस्य त्वं कर्कशो भ्राता पलायनपरायणः
७.९८.१०ननु नाम त्वया वीर दीर्यमाणा भयार्दिता
स्वबाहुबलमास्थाय रक्षितव्या ह्यनीकिनी
स त्वमद्य रणं त्यक्त्वा भीतो हर्षयसे परान्
७.९८.११विद्रुते त्वयि सैन्यस्य नायके शत्रुसूदन
कोऽन्यः स्थास्यति संग्रामे भीतो भीते व्यपाश्रये
७.९८.१२एकेन सात्वतेनाद्य युध्यमानस्य चानघ
पलायने तव मतिः संग्रामाद्धि प्रवर्तते
७.९८.१३यदा गाण्डीवधन्वानं भीमसेनं च कौरव
यमौ च युधि द्रष्टासि तदा त्वं किं करिष्यसि
७.९८.१४युधि फल्गुनबाणानां सूर्याग्निसमतेजसाम्
न तुल्याः सात्यकिशरा येषां भीतः पलायसे
७.९८.१५यदि तावत्कृता बुद्धिः पलायनपरायणा
पृथिवी धर्मराजस्य शमेनैव प्रदीयताम्
७.९८.१६यावत्फल्गुननाराचा निर्मुक्तोरगसंनिभाः
नाविशन्ति शरीरं ते तावत्संशाम्य पाण्डवैः
७.९८.१७यावत्ते पृथिवीं पार्था हत्वा भ्रातृशतं रणे
नाक्षिपन्ति महात्मानस्तावत्संशाम्य पाण्डवैः
७.९८.१८यावन्न क्रुध्यते राजा धर्मपुत्रो युधिष्ठिरः
कृष्णश्च समरश्लाघी तावत्संशाम्य पाण्डवैः
७.९८.१९यावद्भीमो महाबाहुर्विगाह्य महतीं चमूम्
सोदरांस्ते न मृद्नाति तावत्संशाम्य पाण्डवैः
७.९८.२०पूर्वमुक्तश्च ते भ्राता भीष्मेण स सुयोधनः
अजेयाः पाण्डवाः संख्ये सौम्य संशाम्य पाण्डवैः
न च तत्कृतवान्मन्दस्तव भ्राता सुयोधनः
७.९८.२१स युद्धे धृतिमास्थाय यत्तो युध्यस्व पाण्डवैः
गच्छ तूर्णं रथेनैव तत्र तिष्ठति सात्यकिः
७.९८.२२त्वया हीनं बलं ह्येतद्विद्रविष्यति भारत
आत्मार्थं योधय रणे सात्यकिं सत्यविक्रमम्
७.९८.२३एवमुक्तस्तव सुतो नाब्रवीत्किंचिदप्यसौ
श्रुतं चाश्रुतवत्कृत्वा प्रायाद्येन स सात्यकिः
७.९८.२४सैन्येन महता युक्तो म्लेच्छानामनिवर्तिनाम्
आसाद्य च रणे यत्तो युयुधानमयोधयत्
७.९८.२५द्रोणोऽपि रथिनां श्रेष्ठः पाञ्चालान्पाण्डवांस्तथा
अभ्यद्रवत संक्रुद्धो जवमास्थाय मध्यमम्
७.९८.२६प्रविश्य च रणे द्रोणः पाञ्चालानां वरूथिनीम्
द्रावयामास योधान्वै शतशोऽथ सहस्रशः
७.९८.२७ततो द्रोणो महाराज नाम विश्राव्य संयुगे
पाण्डुपाञ्चालमत्स्यानां प्रचक्रे कदनं महत्
७.९८.२८तं जयन्तमनीकानि भारद्वाजं ततस्ततः
पाञ्चालपुत्रो द्युतिमान्वीरकेतुः समभ्ययात्
७.९८.२९स द्रोणं पञ्चभिर्विद्ध्वा शरैः संनतपर्वभिः
ध्वजमेकेन विव्याध सारथिं चास्य सप्तभिः
७.९८.३०तत्राद्भुतं महाराज दृष्टवानस्मि संयुगे
यद्द्रोणो रभसं युद्धे पाञ्चाल्यं नाभ्यवर्तत
७.९८.३१संनिरुद्धं रणे द्रोणं पाञ्चाला वीक्ष्य मारिष
आवव्रुः सर्वतो राजन्धर्मपुत्रजयैषिणः
७.९८.३२ते शरैरग्निसंकाशैस्तोमरैश्च महाधनैः
शस्त्रैश्च विविधै राजन्द्रोणमेकमवाकिरन्
७.९८.३३निहत्य तान्बाणगणान्द्रोणो राजन्समन्ततः
महाजलधरान्व्योम्नि मातरिश्वा विवानिव
७.९८.३४ततः शरं महाघोरं सूर्यपावकसंनिभम्
संदधे परवीरघ्नो वीरकेतुरथं प्रति
७.९८.३५स भित्त्वा तु शरो राजन्पाञ्चाल्यं कुलनन्दनम्
अभ्यगाद्धरणीं तूर्णं लोहितार्द्रो ज्वलन्निव
७.९८.३६ततोऽपतद्रथात्तूर्णं पाञ्चाल्यः कुलनन्दनः
पर्वताग्रादिव महांश्चम्पको वायुपीडितः
७.९८.३७तस्मिन्हते महेष्वासे राजपुत्रे महाबले
पाञ्चालास्त्वरिता द्रोणं समन्तात्पर्यवारयन्
७.९८.३८चित्रकेतुः सुधन्वा च चित्रवर्मा च भारत
तथा चित्ररथश्चैव भ्रातृव्यसनकर्षिताः
७.९८.३९अभ्यद्रवन्त सहिता भारद्वाजं युयुत्सवः
मुञ्चन्तः शरवर्षाणि तपान्ते जलदा इव
७.९८.४०स वध्यमानो बहुधा राजपुत्रैर्महारथैः
व्यश्वसूतरथांश्चक्रे कुमारान्कुपितो रणे
७.९८.४१तथापरैः सुनिशितैर्भल्लैस्तेषां महायशाः
पुष्पाणीव विचिन्वन्हि सोत्तमाङ्गान्यपातयत्
७.९८.४२ते रथेभ्यो हताः पेतुः क्षितौ राजन्सुवर्चसः
देवासुरे पुरा युद्धे यथा दैतेयदानवाः
७.९८.४३तान्निहत्य रणे राजन्भारद्वाजः प्रतापवान्
कार्मुकं भ्रामयामास हेमपृष्ठं दुरासदम्
७.९८.४४पाञ्चालान्निहतान्दृष्ट्वा देवकल्पान्महारथान्
धृष्टद्युम्नो भृशं क्रुद्धो नेत्राभ्यां पातयञ्जलम्
अभ्यवर्तत संग्रामे क्रुद्धो द्रोणरथं प्रति
७.९८.४५ततो हा हेति सहसा नादः समभवन्नृप
पाञ्चाल्येन रणे दृष्ट्वा द्रोणमावारितं शरैः
७.९८.४६संछाद्यमानो बहुधा पार्षतेन महात्मना
न विव्यथे ततो द्रोणः स्मयन्नेवान्वयुध्यत
७.९८.४७ततो द्रोणं महाराज पाञ्चाल्यः क्रोधमूर्छितः
आजघानोरसि क्रुद्धो नवत्या नतपर्वणाम्
७.९८.४८स गाढविद्धो बलिना भारद्वाजो महायशाः
निषसाद रथोपस्थे कश्मलं च जगाम ह
७.९८.४९तं वै तथागतं दृष्ट्वा धृष्टद्युम्नः पराक्रमी
समुत्सृज्य धनुस्तूर्णमसिं जग्राह वीर्यवान्
७.९८.५०अवप्लुत्य रथाच्चापि त्वरितः स महारथः
आरुरोह रथं तूर्णं भारद्वाजस्य मारिष
हर्तुमैच्छच्छिरः कायात्क्रोधसंरक्तलोचनः
७.९८.५१प्रत्याश्वस्तस्ततो द्रोणो धनुर्गृह्य महाबलः
शरैर्वैतस्तिकै राजन्नित्यमासन्नयोधिभिः
योधयामास समरे धृष्टद्युम्नं महारथम्
७.९८.५२ते हि वैतस्तिका नाम शरा आसन्नयोधिनः
द्रोणस्य विदिता राजन्धृष्टद्युम्नमवाक्षिपन्
७.९८.५३स वध्यमानो बहुभिः सायकैस्तैर्महाबलः
अवप्लुत्य रथात्तूर्णं भग्नवेगः पराक्रमी
७.९८.५४आरुह्य स्वरथं वीरः प्रगृह्य च महद्धनुः
विव्याध समरे द्रोणं धृष्टद्युम्नो महारथः
७.९८.५५तदद्भुतं तयोर्युद्धं भूतसंघा ह्यपूजयन्
क्षत्रियाश्च महाराज ये चान्ये तत्र सैनिकाः
७.९८.५६अवश्यं समरे द्रोणो धृष्टद्युम्नेन संगतः
वशमेष्यति नो राज्ञः पाञ्चाला इति चुक्रुशुः
७.९८.५७द्रोणस्तु त्वरितो युद्धे धृष्टद्युम्नस्य सारथेः
शिरः प्रच्यावयामास फलं पक्वं तरोरिव
ततस्ते प्रद्रुता वाहा राजंस्तस्य महात्मनः
७.९८.५८तेषु प्रद्रवमाणेषु पाञ्चालान्सृञ्जयांस्तथा
व्यद्रावयद्रणे द्रोणस्तत्र तत्र पराक्रमी
७.९८.५९विजित्य पाण्डुपाञ्चालान्भारद्वाजः प्रतापवान्
स्वं व्यूहं पुनरास्थाय स्थिरोऽभवदरिंदमः
न चैनं पाण्डवा युद्धे जेतुमुत्सहिरे प्रभो