७. द्रोणपर्व
७.९७.१धृतराष्ट्र उवाच

७.९७.२संप्रमृद्य महत्सैन्यं यान्तं शैनेयमर्जुनम्
निर्ह्रीका मम ते पुत्राः किमकुर्वत संजय

७.९७.३कथं चैषां तथा युद्धे धृतिरासीन्मुमूर्षताम्
शैनेयचरितं दृष्ट्वा सदृशं सव्यसाचिनः

७.९७.४किं नु वक्ष्यन्ति ते क्षात्रं सैन्यमध्ये पराजिताः
कथं च सात्यकिर्युद्धे व्यतिक्रान्तो महायशाः

७.९७.५कथं च मम पुत्राणां जीवतां तत्र संजय
शैनेयोऽभिययौ युद्धे तन्ममाचक्ष्व तत्त्वतः

७.९७.६अत्यद्भुतमिदं तात त्वत्सकाशाच्छृणोम्यहम्
एकस्य बहुभिर्युद्धं शत्रुभिर्वै महारथैः

७.९७.७विपरीतमहं मन्ये मन्दभाग्यान्सुतान्प्रति
यत्रावध्यन्त समरे सात्वतेन महात्मना

७.९७.८एकस्य हि न पर्याप्तं मत्सैन्यं तस्य संजय
क्रुद्धस्य युयुधानस्य सर्वे तिष्ठन्तु पाण्डवाः

७.९७.९निर्जित्य समरे द्रोणं कृतिनं युद्धदुर्मदम्
यथा पशुगणान्सिंहस्तद्वद्धन्ता सुतान्मम

७.९७.१०कृतवर्मादिभिः शूरैर्यत्तैर्बहुभिराहवे
युयुधानो न शकितो हन्तुं यः पुरुषर्षभः

७.९७.११नैतदीदृशकं युद्धं कृतवांस्तत्र फल्गुनः
यादृशं कृतवान्युद्धं शिनेर्नप्ता महायशाः

७.९७.१२संजय उवाच

७.९७.१३तव दुर्मन्त्रिते राजन्दुर्योधनकृतेन च
शृणुष्वावहितो भूत्वा यत्ते वक्ष्यामि भारत

७.९७.१४ते पुनः संन्यवर्तन्त कृत्वा संशप्तकान्मिथः
परां युद्धे मतिं कृत्वा पुत्रस्य तव शासनात्

७.९७.१५त्रीणि सादिसहस्राणि दुर्योधनपुरोगमाः
शकाः काम्बोजबाह्लीका यवनाः पारदास्तथा

७.९७.१६कुणिन्दास्तङ्गणाम्बष्ठाः पैशाचाश्च समन्दराः
अभ्यद्रवन्त शैनेयं शलभाः पावकं यथा

७.९७.१७युक्ताश्च पार्वतीयानां रथाः पाषाणयोधिनाम्
शूराः पञ्चशता राजञ्शैनेयं समुपाद्रवन्

७.९७.१८ततो रथसहस्रेण महारथशतेन च
द्विरदानां सहस्रेण द्विसाहस्रैश्च वाजिभिः

७.९७.१९शरवर्षाणि मुञ्चन्तो विविधानि महारथाः
अभ्यद्रवन्त शैनेयमसंख्येयाश्च पत्तयः

७.९७.२०तांश्च संचोदयन्सर्वान्घ्नतैनमिति भारत
दुःशासनो महाराज सात्यकिं पर्यवारयत्

७.९७.२१तत्राद्भुतमपश्याम शैनेयचरितं महत्
यदेको बहुभिः सार्धमसंभ्रान्तमयुध्यत

७.९७.२२अवधीच्च रथानीकं द्विरदानां च तद्बलम्
सादिनश्चैव तान्सर्वान्दस्यूनपि च सर्वशः

७.९७.२३तत्र चक्रैर्विमथितैर्भग्नैश्च परमायुधैः
अक्षैश्च बहुधा भग्नैरीषादण्डकबन्धुरैः

७.९७.२४कूबरैर्मथितैश्चापि ध्वजैश्चापि निपातितैः
वर्मभिश्चामरैश्चैव व्यवकीर्णा वसुंधरा

७.९७.२५स्रग्भिराभरणैर्वस्त्रैरनुकर्षैश्च मारिष
संछन्ना वसुधा तत्र द्यौर्ग्रहैरिव भारत

७.९७.२६गिरिरूपधराश्चापि पतिताः कुञ्जरोत्तमाः
अञ्जनस्य कुले जाता वामनस्य च भारत
सुप्रतीककुले जाता महापद्मकुले तथा

७.९७.२७ऐरावणकुले चैव तथान्येषु कुलेषु च
जाता दन्तिवरा राजञ्शेरते बहवो हताः

७.९७.२८वनायुजान्पार्वतीयान्काम्बोजारट्टबाह्लिकान्
तथा हयवरान्राजन्निजघ्ने तत्र सात्यकिः

७.९७.२९नानादेशसमुत्थांश्च नानाजात्यांश्च पत्तिनः
निजघ्ने तत्र शैनेयः शतशोऽथ सहस्रशः

७.९७.३०तेषु प्रकाल्यमानेषु दस्यून्दुःशासनोऽब्रवीत्
निवर्तध्वमधर्मज्ञा युध्यध्वं किं सृतेन वः

७.९७.३१तांश्चापि सर्वान्संप्रेक्ष्य पुत्रो दुःशासनस्तव
पाषाणयोधिनः शूरान्पार्वतीयानचोदयत्

७.९७.३२अश्मयुद्धेषु कुशला नैतज्जानाति सात्यकिः
अश्मयुद्धमजानन्तं घ्नतैनं युद्धकामुकम्

७.९७.३३तथैव कुरवः सर्वे नाश्मयुद्धविशारदाः
अभिद्रवत मा भैष्ट न वः प्राप्स्यति सात्यकिः

७.९७.३४ततो गजशिशुप्रख्यैरुपलैः शैलवासिनः
उद्यतैर्युयुधानस्य स्थिता मरणकाङ्क्षिणः

७.९७.३५क्षेपणीयैस्तथाप्यन्ये सात्वतस्य वधैषिणः
चोदितास्तव पुत्रेण रुरुधुः सर्वतोदिशम्

७.९७.३६तेषामापततामेव शिलायुद्धं चिकीर्षताम्
सात्यकिः प्रतिसंधाय त्रिंशतं प्राहिणोच्छरान्

७.९७.३७तामश्मवृष्टिं तुमुलां पार्वतीयैः समीरिताम्
बिभेदोरगसंकाशैर्नाराचैः शिनिपुंगवः

७.९७.३८तैरश्मचूर्णैर्दीप्यद्भिः खद्योतानामिव व्रजैः
प्रायः सैन्यान्यवध्यन्त हाहाभूतानि मारिष

७.९७.३९ततः पञ्चशताः शूराः समुद्यतमहाशिलाः
निकृत्तबाहवो राजन्निपेतुर्धरणीतले

७.९७.४०पाषाणयोधिनः शूरान्यतमानानवस्थितान्
अवधीद्बहुसाहस्रांस्तदद्भुतमिवाभवत्

७.९७.४१ततः पुनर्बस्तमुखैरश्मवृष्टिं समन्ततः
अयोहस्तैः शूलहस्तैर्दरदैः खशतङ्गणैः

७.९७.४२अम्बष्ठैश्च कुणिन्दैश्च क्षिप्तां क्षिप्तां स सात्यकिः
नाराचैः प्रतिविव्याध प्रेक्षमाणो महाबलः

७.९७.४३अद्रीणां भिद्यमानानामन्तरिक्षे शितैः शरैः
शब्देन प्राद्रवन्राजन्गजाश्वरथपत्तयः

७.९७.४४अश्मचूर्णैः समाकीर्णा मनुष्याश्च वयांसि च
नाशक्नुवन्नवस्थातुं भ्रमरैरिव दंशिताः

७.९७.४५हतशिष्टा विरुधिरा भिन्नमस्तकपिण्डिकाः
कुञ्जराः संन्यवर्तन्त युयुधानरथं प्रथि

७.९७.४६ततः शब्दः समभवत्तव सैन्यस्य मारिष
माधवेनार्द्यमानस्य सागरस्येव दारुणः

७.९७.४७तं शब्दं तुमुलं श्रुत्वा द्रोणो यन्तारमब्रवीत्
एष सूत रणे क्रुद्धः सात्वतानां महारथः

७.९७.४८दारयन्बहुधा सैन्यं रणे चरति कालवत्
यत्रैष शब्दस्तुमुलस्तत्र सूत रथं नय

७.९७.४९पाषाणयोधिभिर्नूनं युयुधानः समागतः
तथा हि रथिनः सर्वे ह्रियन्ते विद्रुतैर्हयैः

७.९७.५०विशस्त्रकवचा रुग्णास्तत्र तत्र पतन्ति च
न शक्नुवन्ति यन्तारः संयन्तुं तुमुले हयान्

७.९७.५१इत्येवं ब्रुवतो राजन्भारद्वाजस्य धीमतः
प्रत्युवाच ततो यन्ता द्रोणं शस्त्रभृतां वरम्

७.९७.५२आयुष्मन्द्रवते सैन्यं कौरवेयं समन्ततः
पश्य योधान्रणे भिन्नान्धावमानांस्ततस्ततः

७.९७.५३एते च सहिताः शूराः पाञ्चालाः पाण्डवैः सह
त्वामेव हि जिघांसन्तः प्राद्रवन्ति समन्ततः

७.९७.५४अत्र कार्यं समाधत्स्व प्राप्तकालमरिंदम
स्थाने वा गमने वापि दूरं यातश्च सात्यकिः

७.९७.५५तथैवं वदतस्तस्य भारद्वाजस्य मारिष
प्रत्यदृश्यत शैनेयो निघ्नन्बहुविधान्रथान्

७.९७.५६ते वध्यमानाः समरे युयुधानेन तावकाः
युयुधानरथं त्यक्त्वा द्रोणानीकाय दुद्रुवुः

७.९७.५७यैस्तु दुःशासनः सार्धं रथैः पूर्वं न्यवर्तत
ते भीतास्त्वभ्यधावन्त सर्वे द्रोणरथं प्रति