८. कर्णपर्व
८.२७.१संजय उवाच

८.२७.२प्रयानेव तदा कर्णो हर्षयन्वाहिनीं तव
एकैकं समरे दृष्ट्वा पाण्डवं पर्यपृच्छत

८.२७.३यो ममाद्य महात्मानं दर्शयेच्छ्वेतवाहनम्
तस्मै दद्यामभिप्रेतं वरं यं मनसेच्छति

८.२७.४स चेत्तदभिमन्येत तस्मै दद्यामहं पुनः
शकटं रत्नसंपूर्णं यो मे ब्रूयाद्धनंजयम्

८.२७.५स चेत्तदभिमन्येत पुरुषोऽर्जुनदर्शिवान्
अन्यं तस्मै पुनर्दद्यां सौवर्णं हस्तिषड्गवम्

८.२७.६तथा तस्मै पुनर्दद्यां स्त्रीणां शतमलंकृतम्
श्यामानां निष्ककण्ठीनां गीतवाद्यविपश्चिताम्

८.२७.७स चेत्तदभिमन्येत पुरुषोऽर्जुनदर्शिवान्
अन्यं तस्मै वरं दद्यां श्वेतान्पञ्चशतान्हयान्

८.२७.८हेमभाण्डपरिच्छन्नान्सुमृष्टमणिकुण्डलान्
सुदान्तानपि चैवाहं दद्यामष्टशतान्परान्

८.२७.९रथं च शुभ्रं सौवर्णं दद्यां तस्मै स्वलंकृतम्
युक्तं परमकाम्बोजैर्यो मे ब्रूयाद्धनंजयम्

८.२७.१०अन्यं तस्मै वरं दद्यां कुञ्जराणां शतानि षट्
काञ्चनैर्विविधैर्भाण्डैराच्छन्नान्हेममालिनः
उत्पन्नानपरान्तेषु विनीतान्हस्तिशिक्षकैः

८.२७.११स चेत्तदभिमन्येत पुरुषोऽर्जुनदर्शिवान्
अन्यं तस्मै वरं दद्यां यमसौ कामयेत्स्वयम्

८.२७.१२पुत्रदारान्विहारांश्च यदन्यद्वित्तमस्ति मे
तच्च तस्मै पुनर्दद्यां यद्यत्स मनसेच्छति

८.२७.१३हत्वा च सहितौ कृष्णौ तयोर्वित्तानि सर्वशः
तस्मै दद्यामहं यो मे प्रब्रूयात्केशवार्जुनौ

८.२७.१४एता वाचः सुबहुशः कर्ण उच्चारयन्युधि
दध्मौ सागरसंभूतं सुस्वनं शङ्खमुत्तमम्

८.२७.१५ता वाचः सूतपुत्रस्य तथा युक्ता निशम्य तु
दुर्योधनो महाराज प्रहृष्टः सानुगोऽभवत्

८.२७.१६ततो दुन्दुभिनिर्घोषो मृदङ्गानां च सर्वशः
सिंहनादः सवादित्रः कुञ्जराणां च निस्वनः

८.२७.१७प्रादुरासीत्तदा राजंस्त्वत्सैन्ये भरतर्षभ
योधानां संप्रहृष्टानां तथा समभवत्स्वनः

८.२७.१८तथा प्रहृष्टे सैन्ये तु प्लवमानं महारथम्
विकत्थमानं समरे राधेयमरिकर्शनम्
मद्रराजः प्रहस्येदं वचनं प्रत्यभाषत

८.२७.१९मा सूतपुत्र मानेन सौवर्णं हस्तिषड्गवम्
प्रयच्छ पुरुषायाद्य द्रक्ष्यसि त्वं धनंजयम्

८.२७.२०बाल्यादिव त्वं त्यजसि वसु वैश्रवणो यथा
अयत्नेनैव राधेय द्रष्टास्यद्य धनंजयम्

८.२७.२१परासृजसि मिथ्या किं किं च त्वं बहु मूढवत्
अपात्रदाने ये दोषास्तान्मोहान्नावबुध्यसे

८.२७.२२यत्प्रवेदयसे वित्तं बहुत्वेन खलु त्वया
शक्यं बहुविधैर्यज्ञैर्यष्टुं सूत यजस्व तैः

८.२७.२३यच्च प्रार्थयसे हन्तुं कृष्णौ मोहान्मृषैव तत्
न हि शुश्रुम संमर्दे क्रोष्ट्रा सिंहौ निपातितौ

८.२७.२४अप्रार्थितं प्रार्थयसे सुहृदो न हि सन्ति ते
ये त्वां न वारयन्त्याशु प्रपतन्तं हुताशने

८.२७.२५कालकार्यं न जानीषे कालपक्वोऽस्यसंशयम्
बह्वबद्धमकर्णीयं को हि ब्रूयाज्जिजीविषुः

८.२७.२६समुद्रतरणं दोर्भ्यां कण्ठे बद्ध्वा यथा शिलाम्
गिर्यग्राद्वा निपतनं तादृक्तव चिकीर्षितम्

८.२७.२७सहितः सर्वयोधैस्त्वं व्यूढानीकैः सुरक्षितः
धनंजयेन युध्यस्व श्रेयश्चेत्प्राप्तुमिच्छसि

८.२७.२८हितार्थं धार्तराष्ट्रस्य ब्रवीमि त्वा न हिंसया
श्रद्धत्स्वैतन्मया प्रोक्तं यदि तेऽस्ति जिजीविषा

८.२७.२९कर्ण उवाच

८.२७.३०स्ववीर्येऽहं पराश्वस्य प्रार्थयाम्यर्जुनं रणे
त्वं तु मित्रमुखः शत्रुर्मां भीषयितुमिच्छसि

८.२७.३१न मामस्मादभिप्रायात्कश्चिदद्य निवर्तयेत्
अपीन्द्रो वज्रमुद्यम्य किं नु मर्त्यः करिष्यति

८.२७.३२संजय उवाच

८.२७.३३इति कर्णस्य वाक्यान्ते शल्यः प्राहोत्तरं वचः
चुकोपयिषुरत्यर्थं कर्णं मद्रेश्वरः पुनः

८.२७.३४यदा वै त्वां फल्गुनवेगनुन्ना; ज्याचोदिता हस्तवता विसृष्टाः
अन्वेतारः कङ्कपत्राः शिताग्रा;स्तदा तप्स्यस्यर्जुनस्याभियोगात्

८.२७.३५यदा दिव्यं धनुरादाय पार्थः; प्रभासयन्पृतनां सव्यसाची
त्वामर्दयेत निशितैः पृषत्कै;स्तदा पश्चात्तप्स्यसे सूतपुत्र

८.२७.३६बालश्चन्द्रं मातुरङ्के शयानो; यथा कश्चित्प्रार्थयतेऽपहर्तुम्
तद्वन्मोहाद्यतमानो रथस्थ;स्त्वं प्रार्थयस्यर्जुनमद्य जेतुम्

८.२७.३७त्रिशूलमाश्लिष्य सुतीक्ष्णधारं; सर्वाणि गात्राणि निघर्षसि त्वम्
सुतीक्ष्णधारोपमकर्मणा त्वं; युयुत्ससे योऽर्जुनेनाद्य कर्ण

८.२७.३८सिद्धं सिंहं केसरिणं बृहन्तं; बालो मूढः क्षुद्रमृगस्तरस्वी
समाह्वयेत्तद्वदेतत्तवाद्य; समाह्वानं सूतपुत्रार्जुनस्य

८.२७.३९मा सूतपुत्राह्वय राजपुत्रं; महावीर्यं केसरिणं यथैव
वने सृगालः पिशितस्य तृप्तो; मा पार्थमासाद्य विनङ्क्ष्यसि त्वम्

८.२७.४०ईषादन्तं महानागं प्रभिन्नकरटामुखम्
शशकाह्वयसे युद्धे कर्ण पार्थं धनंजयम्

८.२७.४१बिलस्थं कृष्णसर्पं त्वं बाल्यात्काष्ठेन विध्यसि
महाविषं पूर्णकोशं यत्पार्थं योद्धुमिच्छसि

८.२७.४२सिंहं केसरिणं क्रुद्धमतिक्रम्याभिनर्दसि
सृगाल इव मूढत्वान्नृसिंहं कर्ण पाण्डवम्

८.२७.४३सुपर्णं पतगश्रेष्ठं वैनतेयं तरस्विनम्
लट्वेवाह्वयसे पाते कर्ण पार्थं धनंजयम्

८.२७.४४सर्वाम्भोनिलयं भीममूर्मिमन्तं झषायुतम्
चन्द्रोदये विवर्तन्तमप्लवः संतितीर्षसि

८.२७.४५ऋषभं दुन्दुभिग्रीवं तीक्ष्णशृङ्गं प्रहारिणम्
वत्स आह्वयसे युद्धे कर्ण पार्थं धनंजयम्

८.२७.४६महाघोषं महामेघं दर्दुरः प्रतिनर्दसि
कामतोयप्रदं लोके नरपर्जन्यमर्जुनम्

८.२७.४७यथा च स्वगृहस्थः श्वा व्याघ्रं वनगतं भषेत्
तथा त्वं भषसे कर्ण नरव्याघ्रं धनंजयम्

८.२७.४८सृगालोऽपि वने कर्ण शशैः परिवृतो वसन्
मन्यते सिंहमात्मानं यावत्सिंहं न पश्यति

८.२७.४९तथा त्वमपि राधेय सिंहमात्मानमिच्छसि
अपश्यञ्शत्रुदमनं नरव्याघ्रं धनंजयम्

८.२७.५०व्याघ्रं त्वं मन्यसेऽऽत्मानं यावत्कृष्णौ न पश्यसि
समास्थितावेकरथे सूर्याचन्द्रमसाविव

८.२७.५१यावद्गाण्डीवनिर्घोषं न शृणोषि महाहवे
तावदेव त्वया कर्ण शक्यं वक्तुं यथेच्छसि

८.२७.५२रथशब्दधनुःशब्दैर्नादयन्तं दिशो दश
नर्दन्तमिव शार्दूलं दृष्ट्वा क्रोष्टा भविष्यसि

८.२७.५३नित्यमेव सृगालस्त्वं नित्यं सिंहो धनंजयः
वीरप्रद्वेषणान्मूढ नित्यं क्रोष्टेव लक्ष्यसे

८.२७.५४यथाखुः स्याद्बिडालश्च श्वा व्याघ्रश्च बलाबले
यथा सृगालः सिंहश्च यथा च शशकुञ्जरौ

८.२७.५५यथानृतं च सत्यं च यथा चापि विषामृते
तथा त्वमपि पार्थश्च प्रख्यातावात्मकर्मभिः

८.२७.५६संजय उवाच

८.२७.५७अधिक्षिप्तस्तु राधेयः शल्येनामिततेजसा
शल्यमाह सुसंक्रुद्धो वाक्शल्यमवधारयन्

८.२७.५८गुणान्गुणवतः शल्य गुणवान्वेत्ति नागुणः
त्वं तु नित्यं गुणैर्हीनः किं ज्ञास्यस्यगुणो गुणान्

८.२७.५९अर्जुनस्य महास्त्राणि क्रोधं वीर्यं धनुः शरान्
अहं शल्याभिजानामि न त्वं जानासि तत्तथा

८.२७.६०एवमेवात्मनो वीर्यमहं वीर्यं च पाण्डवे
जानन्नेवाह्वये युद्धे शल्य नाग्निं पतंगवत्

८.२७.६१अस्ति चायमिषुः शल्य सुपुङ्खो रक्तभोजनः
एकतूणीशयः पत्री सुधौतः समलंकृतः

८.२७.६२शेते चन्दनपूर्णेन पूजितो बहुलाः समाः
आहेयो विषवानुग्रो नराश्वद्विपसंघहा

८.२७.६३एकवीरो महारौद्रस्तनुत्रास्थिविदारणः
निर्भिन्द्यां येन रुष्टोऽहमपि मेरुं महागिरिम्

८.२७.६४तमहं जातु नास्येयमन्यस्मिन्फल्गुनादृते
कृष्णाद्वा देवकीपुत्रात्सत्यं चात्र शृणुष्व मे

८.२७.६५तेनाहमिषुणा शल्य वासुदेवधनंजयौ
योत्स्ये परमसंक्रुद्धस्तत्कर्म सदृशं मम

८.२७.६६सर्वेषां वासुदेवानां कृष्णे लक्ष्मीः प्रतिष्ठिता
सर्वेषां पाण्डुपुत्राणां जयः पार्थे प्रतिष्ठितः
उभयं तत्समासाद्य कोऽतिवर्तितुमर्हति

८.२७.६७तावेतौ पुरुषव्याघ्रौ समेतौ स्यन्दने स्थितौ
मामेकमभिसंयातौ सुजातं शल्य पश्य मे

८.२७.६८पितृष्वसामातुलजौ भ्रातरावपराजितौ
मणी सूत्र इव प्रोतौ द्रष्टासि निहतौ मया

८.२७.६९अर्जुने गाण्डिवं कृष्णे चक्रं तार्क्ष्यकपिध्वजौ
भीरूणां त्रासजननौ शल्य हर्षकरौ मम

८.२७.७०त्वं तु दुष्प्रकृतिर्मूढो महायुद्धेष्वकोविदः
भयावतीर्णः संत्रासादबद्धं बहु भाषसे

८.२७.७१संस्तौषि त्वं तु केनापि हेतुना तौ कुदेशज
तौ हत्वा समरे हन्ता त्वामद्धा सहबान्धवम्

८.२७.७२पापदेशज दुर्बुद्धे क्षुद्र क्षत्रियपांसन
सुहृद्भूत्वा रिपुः किं मां कृष्णाभ्यां भीषयन्नसि

८.२७.७३तौ वा ममाद्य हन्तारौ हन्तास्मि समरे स्थितौ
नाहं बिभेमि कृष्णाभ्यां विजानन्नात्मनो बलम्

८.२७.७४वासुदेवसहस्रं वा फल्गुनानां शतानि च
अहमेको हनिष्यामि जोषमास्स्व कुदेशज

८.२७.७५स्त्रियो बालाश्च वृद्धाश्च प्रायः क्रीडागता जनाः
या गाथाः संप्रगायन्ति कुर्वन्तोऽध्ययनं यथा
ता गाथाः शृणु मे शल्य मद्रकेषु दुरात्मसु

८.२७.७६ब्राह्मणैः कथिताः पूर्वं यथावद्राजसंनिधौ
श्रुत्वा चैकमना मूढ क्षम वा ब्रूहि वोत्तरम्

८.२७.७७मित्रध्रुङ्मद्रको नित्यं यो नो द्वेष्टि स मद्रकः
मद्रके संगतं नास्ति क्षुद्रवाक्ये नराधमे

८.२७.७८दुरात्मा मद्रको नित्यं नित्यं चानृतिकोऽनृजुः
यावदन्तं हि दौरात्म्यं मद्रकेष्विति नः श्रुतम्

८.२७.७९पिता माता च पुत्रश्च श्वश्रूश्वशुरमातुलाः
जामाता दुहिता भ्राता नप्ता ते ते च बान्धवाः

८.२७.८०वयस्याभ्यागताश्चान्ये दासीदासं च संगतम्
पुंभिर्विमिश्रा नार्यश्च ज्ञाताज्ञाताः स्वयेच्छया

८.२७.८१येषां गृहेषु शिष्टानां सक्तुमन्थाशिनां सदा
पीत्वा सीधुं सगोमांसं नर्दन्ति च हसन्ति च

८.२७.८२यानि चैवाप्यबद्धानि प्रवर्तन्ते च कामतः
कामप्रलापिनोऽन्योन्यं तेषु धर्मः कथं भवेत्

८.२७.८३मद्रकेषु विलुप्तेषु प्रख्याताशुभकर्मसु
नापि वैरं न सौहार्दं मद्रकेषु समाचरेत्

८.२७.८४मद्रके संगतं नास्ति मद्रको हि सचापलः
मद्रकेषु च दुःस्पर्शं शौचं गान्धारकेषु च

८.२७.८५राजयाजकयाज्येन नष्टं दत्तं हविर्भवेत्

८.२७.८६शूद्रसंस्कारको विप्रो यथा याति पराभवम्
तथा ब्रह्मद्विषो नित्यं गच्छन्तीह पराभवम्

८.२७.८७मद्रके संगतं नास्ति हतं वृश्चिकतो विषम्
आथर्वणेन मन्त्रेण सर्वा शान्तिः कृता भवेत्

८.२७.८८इति वृश्चिकदष्टस्य नानाविषहतस्य च
कुर्वन्ति भेषजं प्राज्ञाः सत्यं तच्चापि दृश्यते
एवं विद्वञ्जोषमास्स्व शृणु चात्रोत्तरं वचः

८.२७.८९वासांस्युत्सृज्य नृत्यन्ति स्त्रियो या मद्यमोहिताः
मिथुनेऽसंयताश्चापि यथाकामचराश्च ताः
तासां पुत्रः कथं धर्मं मद्रको वक्तुमर्हति

८.२७.९०यास्तिष्ठन्त्यः प्रमेहन्ति यथैवोष्ट्रीदशेरके
तासां विभ्रष्टलज्जानां निर्लज्जानां ततस्ततः
त्वं पुत्रस्तादृशीनां हि धर्मं वक्तुमिहेच्छसि

८.२७.९१सुवीरकं याच्यमाना मद्रका कषति स्फिजौ
अदातुकामा वचनमिदं वदति दारुणम्

८.२७.९२मा मा सुवीरकं कश्चिद्याचतां दयितो मम
पुत्रं दद्यां प्रतिपदं न तु दद्यां सुवीरकम्

८.२७.९३नार्यो बृहत्यो निर्ह्रीका मद्रकाः कम्बलावृताः
घस्मरा नष्टशौचाश्च प्राय इत्यनुशुश्रुम

८.२७.९४एवमादि मयान्यैर्वा शक्यं वक्तुं भवेद्बहु
आ केशाग्रान्नखाग्राच्च वक्तव्येषु कुवर्त्मसु

८.२७.९५मद्रकाः सिन्धुसौवीरा धर्मं विद्युः कथं त्विह
पापदेशोद्भवा म्लेच्छा धर्माणामविचक्षणाः

८.२७.९६एष मुख्यतमो धर्मः क्षत्रियस्येति नः श्रुतम्
यदाजौ निहतः शेते सद्भिः समभिपूजितः

८.२७.९७आयुधानां संपराये यन्मुच्येयमहं ततः
न मे स प्रथमः कल्पो निधने स्वर्गमिच्छतः

८.२७.९८सोऽहं प्रियः सखा चास्मि धार्तराष्ट्रस्य धीमतः
तदर्थे हि मम प्राणा यच्च मे विद्यते वसु

८.२७.९९व्यक्तं त्वमप्युपहितः पाण्डवैः पापदेशज
यथा ह्यमित्रवत्सर्वं त्वमस्मासु प्रवर्तसे

८.२७.१००कामं न खलु शक्योऽहं त्वद्विधानां शतैरपि
संग्रामाद्विमुखः कर्तुं धर्मज्ञ इव नास्तिकैः

८.२७.१०१सारङ्ग इव घर्मार्तः कामं विलप शुष्य च
नाहं भीषयितुं शक्यः क्षत्रवृत्ते व्यवस्थितः

८.२७.१०२तनुत्यजां नृसिंहानामाहवेष्वनिवर्तिनाम्
या गतिर्गुरुणा प्राङ्मे प्रोक्ता रामेण तां स्मर

८.२७.१०३स्वेषां त्राणार्थमुद्युक्तं वधाय द्विषतामपि
विद्धि मामास्थितं वृत्तं पौरूरवसमुत्तमम्

८.२७.१०४न तद्भूतं प्रपश्यामि त्रिषु लोकेषु मद्रक
यो मामस्मादभिप्रायाद्वारयेदिति मे मतिः

८.२७.१०५एवं विद्वञ्जोषमास्स्व त्रासात्किं बहु भाषसे
मा त्वा हत्वा प्रदास्यामि क्रव्याद्भ्यो मद्रकाधम

८.२७.१०६मित्रप्रतीक्षया शल्य धार्तराष्ट्रस्य चोभयोः
अपवादतितिक्षाभिस्त्रिभिरेतैर्हि जीवसि

८.२७.१०७पुनश्चेदीदृशं वाक्यं मद्रराज वदिष्यसि
शिरस्ते पातयिष्यामि गदया वज्रकल्पया

८.२७.१०८श्रोतारस्त्विदमद्येह द्रष्टारो वा कुदेशज
कर्णं वा जघ्नतुः कृष्णौ कर्णो वापि जघान तौ

८.२७.१०९एवमुक्त्वा तु राधेयः पुनरेव विशां पते
अब्रवीन्मद्रराजानं याहि याहीत्यसंभ्रमम्