८. कर्णपर्व
८.३४.१संजय उवाच

८.३४.२तानभिद्रवतो दृष्ट्वा पाण्डवांस्तावकं बलम्
क्रोशतस्तव पुत्रस्य न स्म राजन्न्यवर्तत

८.३४.३ततः पक्षात्प्रपक्षाच्च प्रपक्षैश्चापि दक्षिणात्
उदस्तशस्त्राः कुरवो भीममभ्यद्रवन्रणे

८.३४.४कर्णोऽपि दृष्ट्वा द्रवतो धार्तराष्ट्रान्पराङ्मुखान्
हंसवर्णान्हयाग्र्यांस्तान्प्रैषीद्यत्र वृकोदरम्

८.३४.५ते प्रेषिता महाराज शल्येनाहवशोभिना
भीमसेनरथं प्राप्य समसज्जन्त वाजिनः

८.३४.६दृष्ट्वा कर्णं समायान्तं भीमः क्रोधसमन्वितः
मतिं दध्रे विनाशाय कर्णस्य भरतर्षभ

८.३४.७सोऽब्रवीत्सात्यकिं वीरं धृष्टद्युम्नं च पार्षतम्
एनं रक्षत राजानं धर्मात्मानं युधिष्ठिरम्
संशयान्महतो मुक्तं कथंचित्प्रेक्षतो मम

८.३४.८अग्रतो मे कृतो राजा छिन्नसर्वपरिच्छदः
दुर्योधनस्य प्रीत्यर्थं राधेयेन दुरात्मना

८.३४.९अन्तमद्य करिष्यामि तस्य दुःखस्य पार्षत
हन्ता वास्मि रणे कर्णं स वा मां निहनिष्यति
संग्रामेण सुघोरेण सत्यमेतद्ब्रवीमि वः

८.३४.१०राजानमद्य भवतां न्यासभूतं ददामि वै
अस्य संरक्षणे सर्वे यतध्वं विगतज्वराः

८.३४.११एवमुक्त्वा महाबाहुः प्रायादाधिरथिं प्रति
सिंहनादेन महता सर्वाः संनादयन्दिशः

८.३४.१२दृष्ट्वा त्वरितमायान्तं भीमं युद्धाभिनन्दिनम्
सूतपुत्रमथोवाच मद्राणामीश्वरो विभुः

८.३४.१३पश्य कर्ण महाबाहुं क्रुद्धं पाण्डवनन्दनम्
दीर्घकालार्जितं क्रोधं मोक्तुकामं त्वयि ध्रुवम्

८.३४.१४ईदृशं नास्य रूपं मे दृष्टपूर्वं कदाचन
अभिमन्यौ हते कर्ण राक्षसे वा घटोत्कचे

८.३४.१५त्रैलोक्यस्य समस्तस्य शक्तः क्रुद्धो निवारणे
बिभर्ति यादृशं रूपं कालाग्निसदृशं शुभम्

८.३४.१६इति ब्रुवति राधेयं मद्राणामीश्वरे नृप
अभ्यवर्तत वै कर्णं क्रोधदीप्तो वृकोदरः

८.३४.१७तथागतं तु संप्रेक्ष्य भीमं युद्धाभिनन्दिनम्
अब्रवीद्वचनं शल्यं राधेयः प्रहसन्निव

८.३४.१८यदुक्तं वचनं मेऽद्य त्वया मद्रजनेश्वर
भीमसेनं प्रति विभो तत्सत्यं नात्र संशयः

८.३४.१९एष शूरश्च वीरश्च क्रोधनश्च वृकोदरः
निरपेक्षः शरीरे च प्राणतश्च बलाधिकः

८.३४.२०अज्ञातवासं वसता विराटनगरे तदा
द्रौपद्याः प्रियकामेन केवलं बाहुसंश्रयात्
गूढभावं समाश्रित्य कीचकः सगणो हतः

८.३४.२१सोऽद्य संग्रामशिरसि संनद्धः क्रोधमूर्च्छितः
किंकरोद्यतदण्डेन मृत्युनापि व्रजेद्रणम्

८.३४.२२चिरकालाभिलषितो ममायं तु मनोरथः
अर्जुनं समरे हन्यां मां वा हन्याद्धनंजयः
स मे कदाचिदद्यैव भवेद्भीमसमागमात्

८.३४.२३निहते भीमसेने तु यदि वा विरथीकृते
अभियास्यति मां पार्थस्तन्मे साधु भविष्यति
अत्र यन्मन्यसे प्राप्तं तच्छीघ्रं संप्रधारय

८.३४.२४एतच्छ्रुत्वा तु वचनं राधेयस्य महात्मनः
उवाच वचनं शल्यः सूतपुत्रं तथागतम्

८.३४.२५अभियासि महाबाहो भीमसेनं महाबलम्
निरस्य भीमसेनं तु ततः प्राप्स्यसि फल्गुनम्

८.३४.२६यस्ते कामोऽभिलषितश्चिरात्प्रभृति हृद्गतः
स वै संपत्स्यते कर्ण सत्यमेतद्ब्रवीमि ते

८.३४.२७एवमुक्ते ततः कर्णः शल्यं पुनरभाषत
हन्ताहमर्जुनं संख्ये मां वा हन्ता धनंजयः
युद्धे मनः समाधाय याहि याहीत्यचोदयत्

८.३४.२८ततः प्रायाद्रथेनाशु शल्यस्तत्र विशां पते
यत्र भीमो महेष्वासो व्यद्रावयत वाहिनीम्

८.३४.२९ततस्तूर्यनिनादश्च भेरीणां च महास्वनः
उदतिष्ठत राजेन्द्र कर्णभीमसमागमे

८.३४.३०भीमसेनोऽथ संक्रुद्धस्तव सैन्यं दुरासदम्
नाराचैर्विमलैस्तीक्ष्णैर्दिशः प्राद्रावयद्बली

८.३४.३१स संनिपातस्तुमुलो भीमरूपो विशां पते
आसीद्रौद्रो महाराज कर्णपाण्डवयोर्मृधे
ततो मुहूर्ताद्राजेन्द्र पाण्डवः कर्णमाद्रवत्

८.३४.३२तमापतन्तं संप्रेक्ष्य कर्णो वैकर्तनो वृषः
आजघानोरसि क्रुद्धो नाराचेन स्तनान्तरे
पुनश्चैनममेयात्मा शरवर्षैरवाकिरत्

८.३४.३३स विद्धः सूतपुत्रेण छादयामास पत्रिभिः
विव्याध निशितैः कर्ण नवभिर्नतपर्वभिः

८.३४.३४तस्य कर्णो धनुर्मध्ये द्विधा चिच्छेद पत्रिणा
अथ तं छिन्नधन्वानमभ्यविध्यत्स्तनान्तरे
नाराचेन सुतीक्ष्णेन सर्वावरणभेदिना

८.३४.३५सोऽन्यत्कार्मुकमादाय सूतपुत्रं वृकोदरः
राजन्मर्मसु मर्मज्ञो विद्ध्वा सुनिशितैः शरैः
ननाद बलवन्नादं कम्पयन्निव रोदसी

८.३४.३६तं कर्णः पञ्चविंशत्या नाराचानां समार्दयत्
मदोत्कटं वने दृप्तमुल्काभिरिव कुञ्जरम्

८.३४.३७ततः सायकभिन्नाङ्गः पाण्डवः क्रोधमूर्च्छितः
संरम्भामर्षताम्राक्षः सूतपुत्रवधेच्छया

८.३४.३८स कार्मुके महावेगं भारसाधनमुत्तमम्
गिरीणामपि भेत्तारं सायकं समयोजयत्

८.३४.३९विकृष्य बलवच्चापमा कर्णादतिमारुतिः
तं मुमोच महेष्वासः क्रुद्धः कर्णजिघांसया

८.३४.४०स विसृष्टो बलवता बाणो वज्राशनिस्वनः
अदारयद्रणे कर्णं वज्रवेग इवाचलम्

८.३४.४१स भीमसेनाभिहतो सूतपुत्रः कुरूद्वह
निषसाद रथोपस्थे विसंज्ञः पृतनापतिः

८.३४.४२ततो मद्राधिपो दृष्ट्वा विसंज्ञं सूतनन्दनम्
अपोवाह रथेनाजौ कर्णमाहवशोभिनम्

८.३४.४३ततः पराजिते कर्णे धार्तराष्ट्रीं महाचमूम्
व्यद्रावयद्भीमसेनो यथेन्द्रो दानवीं चमूम्