८. कर्णपर्व
८.३५.१धृतराष्ट्र उवाच

८.३५.२सुदुष्करमिदं कर्म कृतं भीमेन संजय
येन कर्णो महाबाहू रथोपस्थे निपातितः

८.३५.३कर्णो ह्येको रणे हन्ता सृञ्जयान्पाण्डवैः सह
इति दुर्योधनः सूत प्राब्रवीन्मां मुहुर्मुहुः

८.३५.४पराजितं तु राधेयं दृष्ट्वा भीमेन संयुगे
ततः परं किमकरोत्पुत्रो दुर्योधनो मम

८.३५.५संजय उवाच

८.३५.६विभ्रान्तं प्रेक्ष्य राधेयं सूतपुत्रं महाहवे
महत्या सेनया राजन्सोदर्यान्समभाषत

८.३५.७शीघ्रं गच्छत भद्रं वो राधेयं परिरक्षत
भीमसेनभयागाधे मज्जन्तं व्यसनार्णवे

८.३५.८ते तु राज्ञा समादिष्टा भीमसेनजिघांसवः
अभ्यवर्तन्त संक्रुद्धाः पतंगा इव पावकम्

८.३५.९श्रुतायुर्दुर्धरः क्राथो विवित्सुर्विकटः समः
निषङ्गी कवची पाशी तथा नन्दोपनन्दकौ

८.३५.१०दुष्प्रधर्षः सुबाहुश्च वातवेगसुवर्चसौ
धनुर्ग्राहो दुर्मदश्च तथा सत्त्वसमः सहः

८.३५.११एते रथैः परिवृता वीर्यवन्तो महाबलाः
भीमसेनं समासाद्य समन्तात्पर्यवारयन्
ते व्यमुञ्चञ्शरव्रातान्नानालिङ्गान्समन्ततः

८.३५.१२स तैरभ्यर्द्यमानस्तु भीमसेनो महाबलः
तेषामापततां क्षिप्रं सुतानां ते नराधिप
रथैः पञ्चाशता सार्धं पञ्चाशन्न्यहनद्रथान्

८.३५.१३विवित्सोस्तु ततः क्रुद्धो भल्लेनापाहरच्छिरः
सकुण्डलशिरस्त्राणं पूर्णचन्द्रोपमं तदा
भीमेन च महाराज स पपात हतो भुवि

८.३५.१४तं दृष्ट्वा निहतं शूरं भ्रातरः सर्वतः प्रभो
अभ्यद्रवन्त समरे भीमं भीमपराक्रमम्

८.३५.१५ततोऽपराभ्यां भल्लाभ्यां पुत्रयोस्ते महाहवे
जहार समरे प्राणान्भीमो भीमपराक्रमः

८.३५.१६तौ धरामन्वपद्येतां वातरुग्णाविव द्रुमौ
विकटश्च समश्चोभौ देवगर्भसमौ नृप

८.३५.१७ततस्तु त्वरितो भीमः क्राथं निन्ये यमक्षयम्
नाराचेन सुतीक्ष्णेन स हतो न्यपतद्भुवि

८.३५.१८हाहाकारस्ततस्तीव्रः संबभूव जनेश्वर
वध्यमानेषु ते राजंस्तदा पुत्रेषु धन्विषु

८.३५.१९तेषां संलुलिते सैन्ये भीमसेनो महाबलः
नन्दोपनन्दौ समरे प्रापयद्यमसादनम्

८.३५.२०ततस्ते प्राद्रवन्भीताः पुत्रास्ते विह्वलीकृताः
भीमसेनं रणे दृष्ट्वा कालान्तकयमोपमम्

८.३५.२१पुत्रांस्ते निहतान्दृष्ट्वा सूतपुत्रो महामनाः
हंसवर्णान्हयान्भूयः प्राहिणोद्यत्र पाण्डवः

८.३५.२२ते प्रेषिता महाराज मद्रराजेन वाजिनः
भीमसेनरथं प्राप्य समसज्जन्त वेगिताः

८.३५.२३स संनिपातस्तुमुलो घोररूपो विशां पते
आसीद्रौद्रो महाराज कर्णपाण्डवयोर्मृधे

८.३५.२४दृष्ट्वा मम महाराज तौ समेतौ महारथौ
आसीद्बुद्धिः कथं नूनमेतदद्य भविष्यति

८.३५.२५ततो मुहूर्ताद्राजेन्द्र नातिकृच्छ्राद्धसन्निव
विरथं भीमकर्माणं भीमं कर्णश्चकार ह

८.३५.२६विरथो भरतश्रेष्ठः प्रहसन्ननिलोपमः
गदाहस्तो महाबाहुरपतत्स्यन्दनोत्तमात्

८.३५.२७नागान्सप्तशतान्राजन्नीषादन्तान्प्रहारिणः
व्यधमत्सहसा भीमः क्रुद्धरूपः परंतपः

८.३५.२८दन्तवेष्टेषु नेत्रेषु कम्भेषु स कटेषु च
मर्मस्वपि च मर्मज्ञो निनदन्व्यधमद्भृशम्

८.३५.२९ततस्ते प्राद्रवन्भीताः प्रतीपं प्रहिताः पुनः
महामात्रैस्तमावव्रुर्मेघा इव दिवाकरम्

८.३५.३०तान्स सप्तशतान्नागान्सारोहायुधकेतनान्
भूमिष्ठो गदया जघ्ने शरन्मेघानिवानिलः

८.३५.३१ततः सुबलपुत्रस्य नागानतिबलान्पुनः
पोथयामास कौन्तेयो द्वापञ्चाशतमाहवे

८.३५.३२तथा रथशतं साग्रं पत्तींश्च शतशोऽपरान्
न्यहनत्पाण्डवो युद्धे तापयंस्तव वाहिनीम्

८.३५.३३प्रताप्यमानं सूर्येण भीमेन च महात्मना
तव सैन्यं संचुकोच चर्म वह्निगतं यथा

८.३५.३४ते भीमभयसंत्रस्तास्तावका भरतर्षभ
विहाय समरे भीमं दुद्रुवुर्वै दिशो दश

८.३५.३५रथाः पञ्चशताश्चान्ये ह्रादिनश्चर्मवर्मिणः
भीममभ्यद्रवंस्तूर्णं शरपूगैः समन्ततः

८.३५.३६तान्ससूतरथान्सर्वान्सपताकाध्वजायुधान्
पोथयामास गदया भीमो विष्णुरिवासुरान्

८.३५.३७ततः शकुनिनिर्दिष्टाः सादिनः शूरसंमताः
त्रिसाहस्रा ययुर्भीमं शक्त्यृष्टिप्रासपाणयः

८.३५.३८तान्प्रत्युद्गम्य यवनानश्वारोहान्वरारिहा
विचरन्विविधान्मार्गान्घातयामास पोथयन्

८.३५.३९तेषामासीन्महाञ्शब्दस्ताडितानां च सार्वशः
असिभिश्छिद्यमानानां नडानामिव भारत

८.३५.४०एवं सुबलपुत्रस्य त्रिसाहस्रान्हयोत्तमान्
हत्वान्यं रथमास्थाय क्रुद्धो राधेयमभ्ययात्

८.३५.४१कर्णोऽपि समरे राजन्धर्मपुत्रमरिंदमम्
शरैः प्रच्छादयामास सारथिं चाप्यपातयत्

८.३५.४२ततः संप्रद्रुतं संख्ये रथं दृष्ट्वा महारथः
अन्वधावत्किरन्बाणैः कङ्कपत्रैरजिह्मगैः

८.३५.४३राजानमभि धावन्तं शरैरावृत्य रोदसी
क्रुद्धः प्रच्छादयामास शरजालेन मारुतिः

८.३५.४४संनिवृत्तस्ततस्तूर्णं राधेयः शत्रुकर्शनः
भीमं प्रच्छादयामास समन्तान्निशितैः शरैः

८.३५.४५भीमसेनरथव्यग्रं कर्णं भारत सात्यकिः
अभ्यर्दयदमेयात्मा पार्ष्णिग्रहणकारणात्
अभ्यवर्तत कर्णस्तमर्दितोऽपि शरैर्भृशम्

८.३५.४६तावन्योन्यं समासाद्य वृषभौ सर्वधन्विनाम्
विसृजन्तौ शरांश्चित्रान्विभ्राजेतां मनस्विनौ

८.३५.४७ताभ्यां वियति राजेन्द्र विततं भीमदर्शनम्
क्रौञ्चपृष्ठारुणं रौद्रं बाणजालं व्यदृश्यत

८.३५.४८नैव सूर्यप्रभां खं वा न दिशः प्रदिशः कुतः
प्राज्ञासिष्म वयं ताभ्यां शरैर्मुक्तैः सहस्रशः

८.३५.४९मध्याह्ने तपतो राजन्भास्करस्य महाप्रभाः
हृताः सर्वाः शरौघैस्तैः कर्णमाधवयोस्तदा

८.३५.५०सौबलं कृतवर्माणं द्रौणिमाधिरथिं कृपम्
संसक्तान्पाण्डवैर्दृष्ट्वा निवृत्ताः कुरवः पुनः

८.३५.५१तेषामापततां शब्दस्तीव्र आसीद्विशां पते
उद्धूतानां यथा वृष्ट्या सागराणां भयावहः

८.३५.५२ते सेने भृशसंविग्ने दृष्ट्वान्योन्यं महारणे
हर्षेण महता युक्ते परिगृह्य परस्परम्

८.३५.५३ततः प्रववृते युद्धं मध्यं प्राप्ते दिवाकरे
यादृशं न कदाचिद्धि दृष्टपूर्वं न च श्रुतम्

८.३५.५४बलौघस्तु समासाद्य बलौघं सहसा रणे
उपासर्पत वेगेन जलौघ इव सागरम्

८.३५.५५आसीन्निनादः सुमहान्बलौघानां परस्परम्
गर्जतां सागरौघाणां यथा स्यान्निस्वनो महान्

८.३५.५६ते तु सेने समासाद्य वेगवत्यौ परस्परम्
एकीभावमनुप्राप्ते नद्याविव समागमे

८.३५.५७ततः प्रववृते युद्धं घोररूपं विशां पते
कुरूणां पाण्डवानां च लिप्सतां सुमहद्यशः

८.३५.५८कुरूणां गर्जतां तत्र अविच्छेदकृता गिरः
श्रूयन्ते विविधा राजन्नामान्युद्दिश्य भारत

८.३५.५९यस्य यद्धि रणे न्यङ्गं पितृतो मातृतोऽपि वा
कर्मतः शीलतो वापि स तच्छ्रावयते युधि

८.३५.६०तान्दृष्ट्वा समरे शूरांस्तर्जयानान्परस्परम्
अभवन्मे मती राजन्नैषामस्तीति जीवितम्

८.३५.६१तेषां दृष्ट्वा तु क्रुद्धानां वपूंष्यमिततेजसाम्
अभवन्मे भयं तीव्रं कथमेतद्भविष्यति

८.३५.६२ततस्ते पाण्डवा राजन्कौरवाश्च महारथाः
ततक्षुः सायकैस्तीक्ष्णैर्निघ्नन्तो हि परस्परम्