८. कर्णपर्व
८.४१.१संजय उवाच

८.४१.२त्वरमाणः पुनः कृष्णः पार्थमभ्यवदच्छनैः
पश्य कौरव्य राजानमपयातांश्च पाण्डवान्

८.४१.३कर्णं पश्य महारङ्गे ज्वलन्तमिव पावकम्
असौ भीमो महेष्वासः संनिवृत्तो रणं प्रति

८.४१.४तमेतेऽनु निवर्तन्ते धृष्टद्युम्नपुरोगमाः
पाञ्चालानां सृञ्जयानां पाण्डवानां च यन्मुखम्
निवृत्तैश्च तथा पार्थैर्भग्नं शत्रुबलं महत्

८.४१.५कौरवान्द्रवतो ह्येष कर्णो धारयतेऽर्जुन
अन्तकप्रतिमो वेगे शक्रतुल्यपराक्रमः

८.४१.६असौ गच्छति कौरव्य द्रौणिरस्त्रभृतां वरः
तमेष प्रद्रुतः संख्ये धृष्टद्युम्नो महारथः

८.४१.७सर्वं व्याचष्ट दुर्धर्षो वासुदेवः किरीटिने
ततो राजन्प्रादुरासीन्महाघोरो महारणः

८.४१.८सिंहनादरवाश्चात्र प्रादुरासन्समागमे
उभयोः सेनयो राजन्मृत्युं कृत्वा निवर्तनम्