८.४६.१संजय उवाच
८.४६.२महासत्त्वौ तु तौ दृष्ट्वा सहितौ केशवार्जुनौ
हतमाधिरथिं मेने संख्ये गाण्डीवधन्वना
८.४६.३तावभ्यनन्दत्कौन्तेयः साम्ना परमवल्गुना
स्मितपूर्वममित्रघ्नः पूजयन्भरतर्षभ
८.४६.४युधिष्ठिर उवाच
८.४६.५स्वागतं देवकीपुत्र स्वागतं ते धनंजय
प्रियं मे दर्शनं बाढं युवयोरच्युतार्जुनौ
८.४६.६अक्षताभ्यामरिष्टाभ्यां कथं युध्य महारथम्
आशीविषसमं युद्धे सर्वशस्त्रविशारदम्
८.४६.७अग्रगं धार्तराष्ट्राणां सर्वेषां शर्म वर्म च
रक्षितं वृषसेनेन सुषेणेन च धन्विना
८.४६.८अनुज्ञातं महावीर्यं रामेणास्त्रेषु दुर्जयम्
त्रातारं धार्तराष्ट्राणां गन्तारं वाहिनीमुखे
८.४६.९हन्तारमरिसैन्यानाममित्रगणमर्दनम्
दुर्योधनहिते युक्तमस्मद्युद्धाय चोद्यतम्
८.४६.१०अप्रधृष्यं महायुद्धे देवैरपि सवासवैः
अनलानिलयोस्तुल्यं तेजसा च बलेन च
८.४६.११पातालमिव गम्भीरं सुहृदानन्दवर्धनम्
अन्तकाभममित्राणां कर्णं हत्वा महाहवे
दिष्ट्या युवामनुप्राप्तौ जित्वासुरमिवामरौ
८.४६.१२तेन युद्धमदीनेन मया ह्यद्याच्युतार्जुनौ
कुपितेनान्तकेनेव प्रजाः सर्वा जिघांसता
८.४६.१३तेन केतुश्च मे छिन्नो हतौ च पार्ष्णिसारथी
हतवाहः कृतश्चास्मि युयुधानस्य पश्यतः
८.४६.१४धृष्टद्युम्नस्य यमयोर्वीरस्य च शिखण्डिनः
पश्यतां द्रौपदेयानां पाञ्चालानां च सर्वशः
८.४६.१५एताञ्जित्वा महावीर्यान्कर्णः शत्रुगणान्बहून्
जितवान्मां महाबाहो यतमानं महारणे
८.४६.१६अनुसृत्य च मां युद्धे परुषाण्युक्तवान्बहु
तत्र तत्र युधां श्रेष्ठः परिभूय न संशयः
८.४६.१७भीमसेनप्रभावात्तु यज्जीवामि धनंजय
बहुनात्र किमुक्तेन नाहं तत्सोढुमुत्सहे
८.४६.१८त्रयोदशाहं वर्षाणि यस्माद्भीतो धनंजय
न स्म निद्रां लभे रात्रौ न चाहनि सुखं क्वचित्
८.४६.१९तस्य द्वेषेण संयुक्तः परिदह्ये धनंजय
आत्मनो मरणं जानन्वाध्रीणस इव द्विपः
८.४६.२०यस्यायमगमत्कालश्चिन्तयानस्य मे विभो
कथं शक्यो मया कर्णो युद्धे क्षपयितुं भवेत्
८.४६.२१जाग्रत्स्वपंश्च कौन्तेय कर्णमेव सदा ह्यहम्
पश्यामि तत्र तत्रैव कर्णभूतमिदं जगत्
८.४६.२२यत्र यत्र हि गच्छामि कर्णाद्भीतो धनंजय
तत्र तत्र हि पश्यामि कर्णमेवाग्रतः स्थितम्
८.४६.२३सोऽहं तेनैव वीरेण समरेष्वपलायिना
सहयः सरथः पार्थ जित्वा जीवन्विसर्जितः
८.४६.२४को नु मे जीवितेनार्थो राज्येनार्थोऽथ वा पुनः
ममैवं धिक्कृतस्येह कर्णेनाहवशोभिना
८.४६.२५न प्राप्तपूर्वं यद्भीष्मात्कृपाद्द्रोणाच्च संयुगे
तत्प्राप्तमद्य मे युद्धे सूतपुत्रान्महारथात्
८.४६.२६तत्त्वा पृच्छामि कौन्तेय यथा ह्यकुशलस्तथा
तन्ममाचक्ष्व कार्त्स्न्येन यथा कर्णस्त्वया हतः
८.४६.२७शक्रवीर्यसमो युद्धे यमतुल्यपराक्रमः
रामतुल्यस्तथास्त्रे यः स कथं वै निषूदितः
८.४६.२८महारथः समाख्यातः सर्वयुद्धविशारदः
धनुर्धराणां प्रवरः सर्वेषामेकपूरुषः
८.४६.२९पूजितो धृतराष्ट्रेण सपुत्रेण विशां पते
सदा त्वदर्थं राधेयः स कथं निहतस्त्वया
८.४६.३०धृतराष्ट्रो हि योधेषु सर्वेष्वेव सदार्जुन
तव मृत्युं रणे कर्णं मन्यते पुरुषर्षभः
८.४६.३१स त्वया पुरुषव्याघ्र कथं युद्धे निषूदितः
तं ममाचक्ष्व बीभत्सो यथा कर्णो हतस्त्वया
८.४६.३२सोत्सेधमस्य च शिरः पश्यतां सुहृदां हृतम्
त्वया पुरुषशार्दूल शार्दूलेन यथा रुरोः
८.४६.३३यः पर्युपासीत्प्रदिशो दिशश्च; त्वां सूतपुत्रः समरे परीप्सन्
दित्सुः कर्णः समरे हस्तिपूगं; स हीदानीं कङ्कपत्रैः सुतीक्ष्णैः
८.४६.३४त्वया रणे निहतः सूतपुत्रः; कच्चिच्छेते भूमितले दुरात्मा
कच्चित्प्रियं मे परमं त्वयाद्य; कृतं रणे सूतपुत्रं निहत्य
८.४६.३५यः सर्वतः पर्यपतत्त्वदर्थे; मदान्वितो गर्वितः सूतपुत्रः
स शूरमानी समरे समेत्य; कच्चित्त्वया निहतः संयुगेऽद्य
८.४६.३६रौक्मं रथं हस्तिवरैश्च युक्तं; रथं दित्सुर्यः परेभ्यस्त्वदर्थे
सदा रणे स्पर्धते यः स पापः; कच्चित्त्वया निहतस्तात युद्धे
८.४६.३७योऽसौ नित्यं शूरमदेन मत्तो; विकत्थते संसदि कौरवाणाम्
प्रियोऽत्यर्थं तस्य सुयोधनस्य; कच्चित्स पापो निहतस्त्वयाद्य
८.४६.३८कच्चित्समागम्य धनुःप्रमुक्तै;स्त्वत्प्रेषितैर्लोहितार्थैर्विहंगैः
शेतेऽद्य पापः स विभिन्नगात्रः; कच्चिद्भग्नो धार्तराष्ट्रस्य बाहुः
८.४६.३९योऽसौ सदा श्लाघते राजमध्ये; दुर्योधनं हर्षयन्दर्पपूर्णः
अहं हन्ता फल्गुनस्येति मोहा;त्कच्चिद्धतस्तस्य न वै तथा रथः
८.४६.४०नाहं पादौ धावयिष्ये कदाचि;द्यावत्स्थितः पार्थ इत्यल्पबुद्धिः
व्रतं तस्यैतत्सर्वदा शक्रसूनो; कच्चित्त्वया निहतः सोऽद्य कर्णः
८.४६.४१योऽसौ कृष्णामब्रवीद्दुष्टबुद्धिः; कर्णः सभायां कुरुवीरमध्ये
किं पाण्डवांस्त्वं न जहासि कृष्णे; सुदुर्बलान्पतितान्हीनसत्त्वान्
८.४६.४२यत्तत्कर्णः प्रत्यजानात्त्वदर्थे; नाहत्वाहं सह कृष्णेन पार्थम्
इहोपयातेति स पापबुद्धिः; कच्चिच्छेते शरसंभिन्नगात्रः
८.४६.४३कच्चित्संग्रामे विदितो वा तदायं; समागमः सृञ्जयकौरवाणाम्
यत्रावस्थामीदृशीं प्रापितोऽहं; कच्चित्त्वया सोऽद्य हतः समेत्य
८.४६.४४कच्चित्त्वया तस्य सुमन्दबुद्धे;र्गाण्डीवमुक्तैर्विशिखैर्ज्वलद्भिः
सकुण्डलं भानुमदुत्तमाङ्गं; कायात्प्रकृत्तं युधि सव्यसाचिन्
८.४६.४५यत्तन्मया बाणसमर्पितेन; ध्यातोऽसि कर्णस्य वधाय वीर
तन्मे त्वया कच्चिदमोघमद्य; ध्यातं कृतं कर्णनिपातनेन
८.४६.४६यद्दर्पपूर्णः स सुयोधनोऽस्मा;नवेक्षते कर्णसमाश्रयेण
कच्चित्त्वया सोऽद्य समाश्रयोऽस्य; भग्नः पराक्रम्य सुयोधनस्य
८.४६.४७यो नः पुरा षण्ढतिलानवोच;त्सभामध्ये पार्थिवानां समक्षम्
स दुर्मतिः कच्चिदुपेत्य संख्ये; त्वया हतः सूतपुत्रोऽत्यमर्षी
८.४६.४८यः सूतपुत्रः प्रहसन्दुरात्मा; पुराब्रवीन्निर्जितां सौबलेन
स्वयं प्रसह्यानय याज्ञसेनी;मपीह कच्चित्स हतस्त्वयाद्य
८.४६.४९यः शस्त्रभृच्छ्रेष्ठतमं पृथिव्यां; पितामहं व्याक्षिपदल्पचेताः
संख्यायमानोऽर्धरथः स कच्चि;त्त्वया हतोऽद्याधिरथिर्दुरात्मा
८.४६.५०अमर्षणं निकृतिसमीरणेरितं; हृदि श्रितं ज्वलनमिमं सदा मम
हतो मया सोऽद्य समेत्य पापधी;रिति ब्रुवन्प्रशमय मेऽद्य फल्गुन