८.४७.१संजय उवाच
८.४७.२तद्धर्मशीलस्य वचो निशम्य; राज्ञः क्रुद्धस्याधिरथौ महात्मा
उवाच दुर्धर्षमदीनसत्त्वं; युधिष्ठिरं जिष्णुरनन्तवीर्यः
८.४७.३संशप्तकैर्युध्यमानस्य मेऽद्य; सेनाग्रयायी कुरुसैन्यस्य राजन्
आशीविषाभान्खगमान्प्रमुञ्च;न्द्रौणिः पुरस्तात्सहसा व्यतिष्ठत्
८.४७.४दृष्ट्वा रथं मेघनिभं ममेम;मम्बष्ठसेना मरणे व्यतिष्ठत्
तेषामहं पञ्च शतानि हत्वा; ततो द्रौणिमगमं पार्थिवाग्र्य
८.४७.५ततोऽपरान्बाणसंघाननेका;नाकर्णपूर्णायतविप्रमुक्तान्
ससर्ज शिक्षास्त्रबलप्रयत्नै;स्तथा यथा प्रावृषि कालमेघः
८.४७.६नैवाददानं न च संदधानं; जानीमहे कतरेणास्यतीति
वामेन वा यदि वा दक्षिणेन; स द्रोणपुत्रः समरे पर्यवर्तत्
८.४७.७अविध्यन्मां पञ्चभिर्द्रोणपुत्रः; शितैः शरैः पञ्चभिर्वासुदेवम्
अहं तु तं त्रिंशता वज्रकल्पैः; समार्दयं निमिषस्यान्तरेण
८.४७.८स विक्षरन्रुधिरं सर्वगात्रै; रथानीकं सूतसूनोर्विवेश
मयाभिभूतः सैनिकानां प्रबर्हा;नसावपश्यन्रुधिरेण प्रदिग्धान्
८.४७.९ततोऽभिभूतं युधि वीक्ष्य सैन्यं; विध्वस्तयोधं द्रुतवाजिनागम्
पञ्चाशता रथमुख्यैः समेतः; कर्णस्त्वरन्मामुपायात्प्रमाथी
८.४७.१०तान्सूदयित्वाहमपास्य कर्णं; द्रष्टुं भवन्तं त्वरयाभियातः
सर्वे पाञ्चाला ह्युद्विजन्ते स्म कर्णा;द्गन्धाद्गावः केसरिणो यथैव
८.४७.११महाझषस्येव मुखं प्रपन्नाः; प्रभद्रकाः कर्णमभि द्रवन्ति
मृत्योरास्यं व्यात्तमिवान्वपद्य;न्प्रभद्रकाः कर्णमासाद्य राजन्
८.४७.१२आयाहि पश्याद्य युयुत्समानं; मां सूतपुत्रं च वृतौ जयाय
षट्साहस्रा भारत राजपुत्राः; स्वर्गाय लोकाय रथा निमग्नाः
८.४७.१३समेत्याहं सूतपुत्रेण संख्ये; वृत्रेण वज्रीव नरेन्द्रमुख्य
योत्स्ये भृशं भारत सूतपुत्र;मस्मिन्संग्रामे यदि वै दृश्यतेऽद्य
८.४७.१४कर्णं न चेदद्य निहन्मि राज;न्सबान्धवं युध्यमानं प्रसह्य
प्रतिश्रुत्याकुर्वतां वै गतिर्या; कष्टां गच्छेयं तामहं राजसिंह
८.४७.१५आमन्त्रये त्वां ब्रूहि जयं रणे मे; पुरा भीमं धार्तराष्ट्रा ग्रसन्ते
सौतिं हनिष्यामि नरेन्द्रसिंह; सैन्यं तथा शत्रुगणांश्च सर्वान्