८. कर्णपर्व
८.५६.१धृतराष्ट्र उवाच

८.५६.२ततो भग्नेषु सैन्येषु भीमसेनेन संयुगे
दुर्योधनोऽब्रवीत्किं नु सौबलो वापि संजय

८.५६.३कर्णो वा जयतां श्रेष्ठो योधा वा मामका युधि
कृपो वा कृतवर्मा च द्रौणिर्दुःशासनोऽपि वा

८.५६.४अत्यद्भुतमिदं मन्ये पाण्डवेयस्य विक्रमम्
यथाप्रतिज्ञं योधानां राधेयः कृतवानपि

८.५६.५कुरूणामपि सर्वेषां कर्णः शत्रुनिषूदनः
शर्म वर्म प्रतिष्ठा च जीविताशा च संजय

८.५६.६तत्प्रभग्नं बलं दृष्ट्वा कौन्तेयेनामितौजसा
राधेयानामधिरथः कर्णः किमकरोद्युधि

८.५६.७पुत्रा वा मम दुर्धर्षा राजानो वा महारथाः
एतन्मे सर्वमाचक्ष्व कुशलो ह्यसि संजय

८.५६.८संजय उवाच

८.५६.९अपराह्णे महाराज सूतपुत्रः प्रतापवान्
जघान सोमकान्सर्वान्भीमसेनस्य पश्यतः
भीमोऽप्यतिबलः सैन्यं धार्तराष्ट्रं व्यपोथयत्

८.५६.१०द्राव्यमाणं बलं दृष्ट्वा भीमसेनेन धीमता
यन्तारमब्रवीत्कर्णः पाञ्चालानेव मा वह

८.५६.११मद्रराजस्ततः शल्यः श्वेतानश्वान्महाजवान्
प्राहिणोच्चेदिपाञ्चालान्करूषांश्च महाबलः

८.५६.१२प्रविश्य च स तां सेनां शल्यः परबलार्दनः
न्ययच्छत्तुरगान्हृष्टो यत्र यत्रैच्छदग्रणीः

८.५६.१३तं रथं मेघसंकाशं वैयाघ्रपरिवारणम्
संदृश्य पाण्डुपाञ्चालास्त्रस्ता आसन्विशां पते

८.५६.१४ततो रथस्य निनदः प्रादुरासीन्महारणे
पर्जन्यसमनिर्घोषः पर्वतस्येव दीर्यतः

८.५६.१५ततः शरशतैस्तीक्ष्णैः कर्णोऽप्याकर्णनिःसृतैः
जघान पाण्डवबलं शतशोऽथ सहस्रशः

८.५६.१६तं तथा समरे कर्म कुर्वाणमतिमानुषम्
परिवव्रुर्महेष्वासाः पाण्डवानां महारथाः

८.५६.१७तं शिखण्डी च भीमश्च धृष्टद्युम्नश्च पार्षतः
नकुलः सहदेवश्च द्रौपदेयाः ससात्यकाः
परिवव्रुर्जिघांसन्तो राधेयं शरवृष्टिभिः

८.५६.१८सात्यकिस्तु ततः कर्णं विंशत्या निशितैः शरैः
अताडयद्रणे शूरो जत्रुदेशे नरोत्तमः

८.५६.१९शिखण्डी पञ्चविंशत्या धृष्टद्युम्नश्च पञ्चभिः
द्रौपदेयाश्चतुःषष्ट्या सहदेवश्च सप्तभिः
नकुलश्च शतेनाजौ कर्णं विव्याध सायकैः

८.५६.२०भीमसेनस्तु राधेयं नवत्या नतपर्वणाम्
विव्याध समरे क्रुद्धो जत्रुदेशे महाबलः

८.५६.२१ततः प्रहस्याधिरथिर्विक्षिपन्धनुरुत्तमम्
मुमोच निशितान्बाणान्पीडयन्सुमहाबलः
तान्प्रत्यविध्यद्राधेयः पञ्चभिः पञ्चभिः शरैः

८.५६.२२सात्यकेस्तु धनुश्छित्त्वा ध्वजं च पुरुषर्षभः
अथैनं नवभिर्बाणैराजघान स्तनान्तरे

८.५६.२३भीमसेनस्तु तं क्रुद्धो विव्याध त्रिंशता शरैः
सारथिं च त्रिभिर्बाणैराजघान परंतपः

८.५६.२४विरथान्द्रौपदेयांश्च चकार पुरुषर्षभः
अक्ष्णोर्निमेषमात्रेण तदद्भुतमिवाभवत्

८.५६.२५विमुखीकृत्य तान्सर्वाञ्शरैः संनतपर्वभिः
पाञ्चालानहनच्छूरश्चेदीनां च महारथान्

८.५६.२६ते वध्यमानाः समरे चेदिमत्स्या विशां पते
कर्णमेकमभिद्रुत्य शरसंघैः समार्दयन्
ताञ्जघान शितैर्बाणैः सूतपुत्रो महारथः

८.५६.२७एतदत्यद्भुतं कर्णे दृष्टवानस्मि भारत
यदेकः समरे शूरान्सूतपुत्रः प्रतापवान्

८.५६.२८यतमानान्परं शक्त्यायोधयत्तांश्च धन्विनः
पाण्डवेयान्महाराज शरैर्वारितवान्रणे

८.५६.२९तत्र भारत कर्णस्य लाघवेन महात्मनः
तुतुषुर्देवताः सर्वाः सिद्धाश्च परमर्षयः

८.५६.३०अपूजयन्महेष्वासा धार्तराष्ट्रा नरोत्तमम्
कर्णं रथवरश्रेष्ठं श्रेष्ठं सर्वधनुष्मताम्

८.५६.३१ततः कर्णो महाराज ददाह रिपुवाहिनीम्
कक्षमिद्धो यथा वह्निर्निदाघे ज्वलितो महान्

८.५६.३२ते वध्यमानाः कर्णेन पाण्डवेयास्ततस्ततः
प्राद्रवन्त रणे भीताः कर्णं दृष्ट्वा महाबलम्

८.५६.३३तत्राक्रन्दो महानासीत्पाञ्चालानां महारणे
वध्यतां सायकैस्तीक्ष्णैः कर्णचापवरच्युतैः

८.५६.३४तेन शब्देन वित्रस्ता पाण्डवानां महाचमूः
कर्णमेकं रणे योधं मेनिरे तत्र शात्रवाः

८.५६.३५तत्राद्भुतं परं चक्रे राधेयः शत्रुकर्शनः
यदेकं पाण्डवाः सर्वे न शेकुरभिवीक्षितुम्

८.५६.३६यथौघः पर्वतश्रेष्ठमासाद्याभिप्रदीर्यते
तथा तत्पाण्डवं सैन्यं कर्णमासाद्य दीर्यते

८.५६.३७कर्णोऽपि समरे राजन्विधूमोऽग्निरिव ज्वलन्
दहंस्तस्थौ महाबाहुः पाण्डवानां महाचमूम्

८.५६.३८शिरांसि च महाराज कर्णांश्चञ्चलकुण्डलान्
बाहूंश्च वीरो वीराणां चिच्छेद लघु चेषुभिः

८.५६.३९हस्तिदन्तान्त्सरून्खड्गान्ध्वजाञ्शक्तीर्हयान्गजान्
रथांश्च विविधान्राजन्पताका व्यजनानि च

८.५६.४०अक्षेषायुगयोक्त्राणि चक्राणि विविधानि च
चिच्छेद शतधा कर्णो योधव्रतमनुष्ठितः

८.५६.४१तत्र भारत कर्णेन निहतैर्गजवाजिभिः
अगम्यरूपा पृथिवी मांसशोणितकर्दमा

८.५६.४२विषमं च समं चैव हतैरश्वपदातिभिः
रथैश्च कुञ्जरैश्चैव न प्राज्ञायत किंचन

८.५६.४३नापि स्वे न परे योधाः प्राज्ञायन्त परस्परम्
घोरे शरान्धकारे तु कर्णास्त्रे च विजृम्भिते

८.५६.४४राधेयचापनिर्मुक्तैः शरैः काञ्चनभूषितैः
संछादिता महाराज यतमाना महारथाः

८.५६.४५ते पाण्डवेयाः समरे कर्णेन स्म पुनः पुनः
अभज्यन्त महाराज यतमाना महारथाः

८.५६.४६मृगसंघान्यथा क्रुद्धः सिंहो द्रावयते वने
कर्णस्तु समरे योधांस्तत्र तत्र महायशाः
कालयामास तत्सैन्यं यथा पशुगणान्वृकः

८.५६.४७दृष्ट्वा तु पाण्डवीं सेनां धार्तराष्ट्राः पराङ्मुखीम्
अभिजग्मुर्महेष्वासा रुवन्तो भैरवान्रवान्

८.५६.४८दुर्योधनो हि राजेन्द्र मुदा परमया युतः
वादयामास संहृष्टो नानावाद्यानि सर्वशः

८.५६.४९पाञ्चालापि महेष्वासा भग्ना भग्ना नरोत्तमाः
न्यवर्तन्त यथा शूरा मृत्युं कृत्वा निवर्तनम्

८.५६.५०तान्निवृत्तान्रणे शूरान्राधेयः शत्रुतापनः
अनेकशो महाराज बभञ्ज पुरुषर्षभः

८.५६.५१तत्र भारत कर्णेन पाञ्चाला विंशती रथाः
निहताः सादयः क्रोधाच्चेदयश्च परःशताः

८.५६.५२कृत्वा शून्यान्रथोपस्थान्वाजिपृष्ठांश्च भारत
निर्मनुष्यान्गजस्कन्धान्पादातांश्चैव विद्रुतान्

८.५६.५३आदित्य इव मध्याह्ने दुर्निरीक्ष्यः परंतपः
कालान्तकवपुः क्रूरः सूतपुत्रश्चचार ह

८.५६.५४एवमेतान्महाराज नरवाजिरथद्विपान्
हत्वा तस्थौ महेष्वासः कर्णोऽरिगणसूदनः

८.५६.५५यथा भूतगणान्हत्वा कालस्तिष्ठेन्महाबलः
तथा स सोमकान्हत्वा तस्थावेको महारथः

८.५६.५६तत्राद्भुतमपश्याम पाञ्चालानां पराक्रमम्
वध्यमानापि कर्णेन नाजहू रणमूर्धनि

८.५६.५७राजा दुःशासनश्चैव कृपः शारद्वतस्तथा
अश्वत्थामा कृतवर्मा शकुनिश्चापि सौबलः
न्यहनन्पाण्डवीं सेनां शतशोऽथ सहस्रशः

८.५६.५८कर्णपुत्रौ च राजेन्द्र भ्रातरौ सत्यविक्रमौ
अनाशयेतां बलिनः पाञ्चालान्वै ततस्ततः
तत्र युद्धं तदा ह्यासीत्क्रूरं विशसनं महत्

८.५६.५९तथैव पाण्डवाः शूरा धृष्टद्युम्नशिखण्डिनौ
द्रौपदेयाश्च संक्रुद्धा अभ्यघ्नंस्तावकं बलम्

८.५६.६०एवमेष क्षयो वृत्तः पाण्डवानां ततस्ततः
तावकानामपि रणे भीमं प्राप्य महाबलम्