८. कर्णपर्व
८.६.१संजय उवाच

८.६.२हते द्रोणे महेष्वासे तस्मिन्नहनि भारत
कृते च मोघसंकल्पे द्रोणपुत्रे महारथे

८.६.३द्रवमाणे महाराज कौरवाणां बले तथा
व्यूह्य पार्थः स्वकं सैन्यमतिष्ठद्भ्रातृभिः सह

८.६.४तमवस्थितमाज्ञाय पुत्रस्ते भरतर्षभ
द्रवच्च स्वबलं दृष्ट्वा पौरुषेण न्यवारयत्

८.६.५स्वमनीकमवस्थाप्य बाहुवीर्ये व्यवस्थितः
युद्ध्वा च सुचिरं कालं पाण्डवैः सह भारत

८.६.६लब्धलक्षैः परैर्हृष्टैर्व्यायच्छद्भिश्चिरं तदा
संध्याकालं समासाद्य प्रत्याहारमकारयत्

८.६.७कृत्वावहारं सैन्यानां प्रविश्य शिबिरं स्वकम्
कुरवोऽऽत्महितं मन्त्रं मन्त्रयां चक्रिरे तदा

८.६.८पर्यङ्केषु परार्ध्येषु स्पर्ध्यास्तरणवत्सु च
वरासनेषूपविष्टाः सुखशय्यास्विवामराः

८.६.९ततो दुर्योधनो राजा साम्ना परमवल्गुना
तानाभाष्य महेष्वासान्प्राप्तकालमभाषत

८.६.१०मतिं मतिमतां श्रेष्ठाः सर्वे प्रब्रूत माचिरम्
एवं गते तु यत्कार्यं भवेत्कार्यकरं नृपाः

८.६.११एवमुक्ते नरेन्द्रेण नरसिंहा युयुत्सवः
चक्रुर्नानाविधाश्चेष्टाः सिंहासनगतास्तदा

८.६.१२तेषां निशम्येङ्गितानि युद्धे प्राणाञ्जुहूषताम्
समुद्वीक्ष्य मुखं राज्ञो बालार्कसमवर्चसः
आचार्यपुत्रो मेधावी वाक्यज्ञो वाक्यमाददे

८.६.१३रागो योगस्तथा दाक्ष्यं नयश्चेत्यर्थसाधकाः
उपायाः पण्डितैः प्रोक्ताः सर्वे दैवसमाश्रिताः

८.६.१४लोकप्रवीरा येऽस्माकं देवकल्पा महारथाः
नीतिमन्तस्तथा युक्ता दक्षा रक्ताश्च ते हताः

८.६.१५न त्वेव कार्यं नैराश्यमस्माभिर्विजयं प्रति
सुनीतैरिह सर्वार्थैर्दैवमप्यनुलोम्यते

८.६.१६ते वयं प्रवरं नॄणां सर्वैर्गुणगणैर्युतम्
कर्णं सेनापतिं कृत्वा प्रमथिष्यामहे रिपून्

८.६.१७ततो दुर्योधनः प्रीतः प्रियं श्रुत्वा वचस्तदा
प्रीतिसंस्कारसंयुक्तं तथ्यमात्महितं शुभम्

८.६.१८स्वं मनः समवस्थाप्य बाहुवीर्यमुपाश्रितः
दुर्योधनो महाराज राधेयमिदमब्रवीत्

८.६.१९कर्ण जानामि ते वीर्यं सौहृदं च परं मयि
तथापि त्वां महाबाहो प्रवक्ष्यामि हितं वचः

८.६.२०श्रुत्वा यथेष्टं च कुरु वीर यत्तव रोचते
भवान्प्राज्ञतमो नित्यं मम चैव परा गतिः

८.६.२१भीष्मद्रोणावतिरथौ हतौ सेनापती मम
सेनापतिर्भवानस्तु ताभ्यां द्रविणवत्तरः

८.६.२२वृद्धौ च तौ महेष्वासौ सापेक्षौ च धनंजये
मानितौ च मया वीरौ राधेय वचनात्तव

८.६.२३पितामहत्वं संप्रेक्ष्य पाण्डुपुत्रा महारणे
रक्षितास्तात भीष्मेण दिवसानि दशैव ह

८.६.२४न्यस्तशस्त्रे च भवति हतो भीष्मः पितामहः
शिखण्डिनं पुरस्कृत्य फल्गुनेन महाहवे

८.६.२५हते तस्मिन्महाभागे शरतल्पगते तदा
त्वयोक्ते पुरुषव्याघ्र द्रोणो ह्यासीत्पुरःसरः

८.६.२६तेनापि रक्षिताः पार्थाः शिष्यत्वादिह संयुगे
स चापि निहतो वृद्धो धृष्टद्युम्नेन सत्वरम्

८.६.२७निहताभ्यां प्रधानाभ्यां ताभ्याममितविक्रम
त्वत्समं समरे योधं नान्यं पश्यामि चिन्तयन्

८.६.२८भवानेव तु नः शक्तो विजयाय न संशयः
पूर्वं मध्ये च पश्चाच्च तवैव विदितं हि तत्

८.६.२९स भवान्धुर्यवत्संख्ये धुरमुद्वोढुमर्हसि
अभिषेचय सेनान्ये स्वयमात्मानमात्मना

८.६.३०देवतानां यथा स्कन्दः सेनानीः प्रभुरव्ययः
तथा भवानिमां सेनां धार्तराष्ट्रीं बिभर्तु मे
जहि शत्रुगणान्सर्वान्महेन्द्र इव दानवान्

८.६.३१अवस्थितं रणे ज्ञात्वा पाण्डवास्त्वां महारथम्
द्रविष्यन्ति सपाञ्चाला विष्णुं दृष्ट्वेव दानवाः
तस्मात्त्वं पुरुषव्याघ्र प्रकर्षेथा महाचमूम्

८.६.३२भवत्यवस्थिते यत्ते पाण्डवा गतचेतसः
भविष्यन्ति सहामात्याः पाञ्चालैः सृञ्जयैः सह

८.६.३३यथा ह्यभ्युदितः सूर्यः प्रतपन्स्वेन तेजसा
व्यपोहति तमस्तीव्रं तथा शत्रून्व्यपोह नः

८.६.३४कर्ण उवाच

८.६.३५उक्तमेतन्मया पूर्वं गान्धारे तव संनिधौ
जेष्यामि पाण्डवान्राजन्सपुत्रान्सजनार्दनान्

८.६.३६सेनापतिर्भविष्यामि तवाहं नात्र संशयः
स्थिरो भव महाराज जितान्विद्धि च पाण्डवान्

८.६.३७संजय उवाच

८.६.३८एवमुक्तो महातेजास्ततो दुर्योधनो नृपः
उत्तस्थौ राजभिः सार्धं देवैरिव शतक्रतुः
सेनापत्येन सत्कर्तुं कर्णं स्कन्दमिवामराः

८.६.३९ततोऽभिषिषिचुस्तूर्णं विधिदृष्टेन कर्मणा
दुर्योधनमुखा राजन्राजानो विजयैषिणः
शातकौम्भमयैः कुम्भैर्माहेयैश्चाभिमन्त्रितैः

८.६.४०तोयपूर्णैर्विषाणैश्च द्वीपिखड्गमहर्षभैः
मणिमुक्तामयैश्चान्यैः पुण्यगन्धैस्तथौषधैः

८.६.४१औदुम्बरे समासीनमासने क्षौमसंवृतम्
शास्त्रदृष्टेन विधिना संभारैश्च सुसंभृतैः

८.६.४२जय पार्थान्सगोविन्दान्सानुगांस्त्वं महाहवे
इति तं बन्दिनः प्राहुर्द्विजाश्च भरतर्षभ

८.६.४३जहि पार्थान्सपाञ्चालान्राधेय विजयाय नः
उद्यन्निव सदा भानुस्तमांस्युग्रैर्गभस्तिभिः

८.६.४४न ह्यलं त्वद्विसृष्टानां शराणां ते सकेशवाः
कृतघ्नाः सूर्यरश्मीनां ज्वलतामिव दर्शने

८.६.४५न हि पार्थाः सपाञ्चालाः स्थातुं शक्तास्तवाग्रतः
आत्तशस्त्रस्य समरे महेन्द्रस्येव दानवाः

८.६.४६अभिषिक्तस्तु राधेयः प्रभया सोऽमितप्रभः
व्यत्यरिच्यत रूपेण दिवाकर इवापरः

८.६.४७सेनापत्येन राधेयमभिषिच्य सुतस्तव
अमन्यत तदात्मानं कृतार्थं कालचोदितः

८.६.४८कर्णोऽपि राजन्संप्राप्य सेनापत्यमरिंदमः
योगमाज्ञापयामास सूर्यस्योदयनं प्रति

८.६.४९तव पुत्रैर्वृतः कर्णः शुशुभे तत्र भारत
देवैरिव यथा स्कन्दः संग्रामे तारकामये