८.७.१धृतराष्ट्र उवाच
८.७.२सेनापत्यं तु संप्राप्य कर्णो वैकर्तनस्तदा
तथोक्तश्च स्वयं राज्ञा स्निग्धं भ्रातृसमं वचः
८.७.३योगमाज्ञाप्य सेनाया आदित्येऽभ्युदिते तदा
अकरोत्किं महाप्राज्ञस्तन्ममाचक्ष्व संजय
८.७.४संजय उवाच
८.७.५कर्णस्य मतमाज्ञाय पुत्रस्ते भरतर्षभ
योगमाज्ञापयामास नान्दीतूर्यपुरःसरम्
८.७.६महत्यपररात्रे तु तव पुत्रस्य मारिष
योगो योगेति सहसा प्रादुरासीन्महास्वनः
८.७.७नागानां कल्पमानानां रथानां च वरूथिनाम्
संनह्यतां पदातीनां वाजिनां च विशां पते
८.७.८क्रोशतां चापि योधानां त्वरितानां परस्परम्
बभूव तुमुलः शब्दो दिवस्पृक्सुमहांस्तदा
८.७.९ततः श्वेतपताकेन बालार्काकारवाजिना
हेमपृष्ठेन धनुषा हस्तिकक्ष्येण केतुना
८.७.१०तूणेन शरपूर्णेन साङ्गदेन वरूथिना
शतघ्नीकिङ्किणीशक्तिशूलतोमरधारिणा
८.७.११कार्मुकेणोपपन्नेन विमलादित्यवर्चसा
रथेनातिपताकेन सूतपुत्रो व्यदृश्यत
८.७.१२धमन्तं वारिजं तात हेमजालविभूषितम्
विधुन्वानं महच्चापं कार्तस्वरविभूषितम्
८.७.१३दृष्ट्वा कर्णं महेष्वासं रथस्थं रथिनां वरम्
भानुमन्तमिवोद्यन्तं तमो घ्नन्तं सहस्रशः
८.७.१४न भीष्मव्यसनं केचिन्नापि द्रोणस्य मारिष
नान्येषां पुरुषव्याघ्र मेनिरे तत्र कौरवाः
८.७.१५ततस्तु त्वरयन्योधाञ्शङ्खशब्देन मारिष
कर्णो निष्कासयामास कौरवाणां वरूथिनीम्
८.७.१६व्यूहं व्यूह्य महेष्वासो माकरं शत्रुतापनः
प्रत्युद्ययौ तदा कर्णः पाण्डवान्विजिगीषया
८.७.१७मकरस्य तु तुण्डे वै कर्णो राजन्व्यवस्थितः
नेत्राभ्यां शकुनिः शूर उलूकश्च महारथः
८.७.१८द्रोणपुत्रस्तु शिरसि ग्रीवायां सर्वसोदराः
मध्ये दुर्योधनो राजा बलेन महता वृतः
८.७.१९वामे पादे तु राजेन्द्र कृतवर्मा व्यवस्थितः
नारायणबलैर्युक्तो गोपालैर्युद्धदुर्मदः
८.७.२०पादे तु दक्षिणे राजन्गौतमः सत्यविक्रमः
त्रिगर्तैश्च महेष्वासैर्दाक्षिणात्यैश्च संवृतः
८.७.२१अनुपादस्तु यो वामस्तत्र शल्यो व्यवस्थितः
महत्या सेनया सार्धं मद्रदेशसमुत्थया
८.७.२२दक्षिणे तु महाराज सुषेणः सत्यसंगरः
वृतो रथसहस्रैश्च दन्तिनां च शतैस्तथा
८.७.२३पुच्छे आस्तां महावीरौ भ्रातरौ पार्थिवौ तदा
चित्रसेनश्च चित्रश्च महत्या सेनया वृतौ
८.७.२४ततः प्रयाते राजेन्द्र कर्णे नरवरोत्तमे
धनंजयमभिप्रेक्ष्य धर्मराजोऽब्रवीदिदम्
८.७.२५पश्य पार्थ महासेनां धार्तराष्ट्रस्य संयुगे
कर्णेन निर्मितां वीर गुप्तां वीरैर्महारथैः
८.७.२६हतवीरतमा ह्येषा धार्तराष्ट्री महाचमूः
फल्गुशेषा महाबाहो तृणैस्तुल्या मता मम
८.७.२७एको ह्यत्र महेष्वासः सूतपुत्रो व्यवस्थितः
सदेवासुरगन्धर्वैः सकिंनरमहोरगैः
चराचरैस्त्रिभिर्लोकैर्योऽजय्यो रथिनां वरः
८.७.२८तं हत्वाद्य महाबाहो विजयस्तव फल्गुन
उद्धृतश्च भवेच्छल्यो मम द्वादशवार्षिकः
एवं ज्ञात्वा महाबाहो व्यूहं व्यूह यथेच्छसि
८.७.२९भ्रातुस्तद्वचनं श्रुत्वा पाण्डवः श्वेतवाहनः
अर्धचन्द्रेण व्यूहेन प्रत्यव्यूहत तां चमूम्
८.७.३०वामपार्श्वेऽभवद्राजन्भीमसेनो व्यवस्थितः
दक्षिणे च महेष्वासो धृष्टद्युम्नो महाबलः
८.७.३१मध्ये व्यूहस्य साक्षात्तु पाण्डवः कृष्णसारथिः
नकुलः सहदेवश्च धर्मराजश्च पृष्ठतः
८.७.३२चक्ररक्षौ तु पाञ्चाल्यौ युधामन्यूत्तमौजसौ
नार्जुनं जहतुर्युद्धे पाल्यमानौ किरीटिना
८.७.३३शेषा नृपतयो वीराः स्थिता व्यूहस्य दंशिताः
यथाभावं यथोत्साहं यथासत्त्वं च भारत
८.७.३४एवमेतन्महाव्यूहं व्यूह्य भारत पाण्डवाः
तावकाश्च महेष्वासा युद्धायैव मनो दधुः
८.७.३५दृष्ट्वा व्यूढां तव चमूं सूतपुत्रेण संयुगे
निहतान्पाण्डवान्मेने तव पुत्रः सहान्वयः
८.७.३६तथैव पाण्डवीं सेनां व्यूढां दृष्ट्वा युधिष्ठिरः
धार्तराष्ट्रान्हतान्मेने सकर्णान्वै जनाधिप
८.७.३७ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः
सहसैवाभ्यहन्यन्त सशब्दाश्च समन्ततः
८.७.३८सेनयोरुभयो राजन्प्रावाद्यन्त महास्वनाः
सिंहनादश्च संजज्ञे शूराणां जयगृद्धिनाम्
८.७.३९हयहेषितशब्दाश्च वारणानां च बृंहितम्
रथनेमिस्वनाश्चोग्राः संबभूवुर्जनाधिप
८.७.४०न द्रोणव्यसनं कश्चिज्जानीते भरतर्षभ
दृष्ट्वा कर्णं महेष्वासं मुखे व्यूहस्य दंशितम्
८.७.४१उभे सेने महासत्त्वे प्रहृष्टनरकुञ्जरे
योद्धुकामे स्थिते राजन्हन्तुमन्योन्यमञ्जसा
८.७.४२तत्र यत्तौ सुसंरब्धौ दृष्ट्वान्योन्यं व्यवस्थितौ
अनीकमध्ये राजेन्द्र रेजतुः कर्णपाण्डवौ
८.७.४३नृत्यमाने तु ते सेने समेयातां परस्परम्
तयोः पक्षैः प्रपक्षैश्च निर्जग्मुर्वै युयुत्सवः
८.७.४४ततः प्रववृते युद्धं नरवारणवाजिनाम्
रथिनां च महाराज अन्योन्यं निघ्नतां दृढम्