८. कर्णपर्व
८.६१.१संजय उवाच

८.६१.२तत्राकरोद्दुष्करं राजपुत्रो; दुःशासनस्तुमुले युध्यमानः
चिच्छेद भीमस्य धनुः क्षुरेण; षड्भिः शरैः सारथिमप्यविध्यत्

८.६१.३ततोऽभिनद्बहुभिः क्षिप्रमेव; वरेषुभिर्भीमसेनं महात्मा
स विक्षरन्नाग इव प्रभिन्नो; गदामस्मै तुमुले प्राहिणोद्वै

८.६१.४तयाहरद्दश धन्वन्तराणि; दुःशासनं भीमसेनः प्रसह्य
तया हतः पतितो वेपमानो; दुःशासनो गदया वेगवत्या

८.६१.५हयाः ससूताश्च हता नरेन्द्र; चूर्णीकृतश्चास्य रथः पतन्त्या
विध्वस्तवर्माभरणाम्बरस्र;ग्विचेष्टमानो भृशवेदनार्तः

८.६१.६ततः स्मृत्वा भीमसेनस्तरस्वी; सापत्नकं यत्प्रयुक्तं सुतैस्ते
रथादवप्लुत्य गतः स भूमौ; यत्नेन तस्मिन्प्रणिधाय चक्षुः

८.६१.७असिं समुद्धृत्य शितं सुधारं; कण्ठे समाक्रम्य च वेपमानम्
उत्कृत्य वक्षः पतितस्य भूमा;वथापिबच्छोणितमस्य कोष्णम्
आस्वाद्य चास्वाद्य च वीक्षमाणः; क्रुद्धोऽतिवेलं प्रजगाद वाक्यम्

८.६१.८स्तन्यस्य मातुर्मधुसर्पिषो वा; माध्वीकपानस्य च सत्कृतस्य
दिव्यस्य वा तोयरसस्य पाना;त्पयोदधिभ्यां मथिताच्च मुख्यात्
सर्वेभ्य एवाभ्यधिको रसोऽयं; मतो ममाद्याहितलोहितस्य

८.६१.९एवं ब्रुवाणं पुनराद्रवन्त;मास्वाद्य वल्गन्तमतिप्रहृष्टम्
ये भीमसेनं ददृशुस्तदानीं; भयेन तेऽपि व्यथिता निपेतुः

८.६१.१०ये चापि तत्रापतिता मनुष्या;स्तेषां करेभ्यः पतितं च शस्त्रम्
भयाच्च संचुक्रुशुरुच्चकैस्ते; निमीलिताक्षा ददृशुश्च तन्न

८.६१.११ये तत्र भीमं ददृशुः समन्ता;द्दौःशासनं तद्रुधिरं पिबन्तम्
सर्वे पलायन्त भयाभिपन्ना; नायं मनुष्य इति भाषमाणाः

८.६१.१२शृण्वतां लोकवीराणामिदं वचनमब्रवीत्
एष ते रुधिरं कण्ठात्पिबामि पुरुषाधम
ब्रूहीदानीं सुसंरब्धः पुनर्गौरिति गौरिति

८.६१.१३प्रमाणकोट्यां शयनं कालकूटस्य भोजनम्
दशनं चाहिभिः कष्टं दाहं च जतुवेश्मनि

८.६१.१४द्यूतेन राज्यहरणमरण्ये वसतिश्च या
इष्वस्त्राणि च संग्रामेष्वसुखानि च वेश्मनि

८.६१.१५दुःखान्येतानि जानीमो न सुखानि कदाचन
धृतराष्ट्रस्य दौरात्म्यात्सपुत्रस्य सदा वयम्

८.६१.१६इत्युक्त्वा वचनं राजञ्जयं प्राप्य वृकोदरः
पुनराह महाराज स्मयंस्तौ केशवार्जुनौ

८.६१.१७दुःशासने यद्रणे संश्रुतं मे; तद्वै सर्वं कृतमद्येह वीरौ
अद्यैव दास्याम्यपरं द्वितीयं; दुर्योधनं यज्ञपशुं विशस्य
शिरो मृदित्वा च पदा दुरात्मनः; शान्तिं लप्स्ये कौरवाणां समक्षम्

८.६१.१८एतावदुक्त्वा वचनं प्रहृष्टो; ननाद चोच्चै रुधिरार्द्रगात्रः
ननर्त चैवातिबलो महात्मा; वृत्रं निहत्येव सहस्रनेत्रः