८.६५.१संजय उवाच
८.६५.२तौ शङ्खभेरीनिनदे समृद्धे; समीयतुः श्वेतहयौ नराग्र्यौ
वैकर्तनः सूतपुत्रोऽर्जुनश्च; दुर्मन्त्रिते तव पुत्रस्य राजन्
८.६५.३यथा गजौ हैमवतौ प्रभिन्नौ; प्रगृह्य दन्ताविव वाशितार्थे
तथा समाजग्मतुरुग्रवेगौ; धनंजयश्चाधिरथिश्च वीरौ
८.६५.४बलाहकेनेव यथा बलाहको; यदृच्छया वा गिरिणा गिरिर्यथा
तथा धनुर्ज्यातलनेमिनिस्वनौ; समीयतुस्ताविषुवर्षवर्षिणौ
८.६५.५प्रवृद्धशृङ्गद्रुमवीरुदोषधी; प्रवृद्धनानाविधपर्वतौकसौ
यथाचलौ वा गलितौ महाबलौ; तथा महास्त्रैरितरेतरं घ्नतः
८.६५.६स संनिपातस्तु तयोर्महानभू;त्सुरेशवैरोचनयोर्यथा पुरा
शरैर्विभुग्नाङ्गनियन्तृवाहनः; सुदुःसहोऽन्यैः पटुशोणितोदकः
८.६५.७प्रभूतपद्मोत्पलमत्स्यकच्छपौ; महाह्रदौ पक्षिगणानुनादितौ
सुसंनिकृष्टावनिलोद्धतौ यथा; तथा रथौ तौ ध्वजिनौ समीयतुः
८.६५.८उभौ महेन्द्रस्य समानविक्रमा;वुभौ महेन्द्रप्रतिमौ महारथौ
महेन्द्रवज्रप्रतिमैश्च सायकै;र्महेन्द्रवृत्राविव संप्रजह्रतुः
८.६५.९सनागपत्त्यश्वरथे उभे बले; विचित्रवर्णाभरणाम्बरस्रजे
चकम्पतुश्चोन्नमतः स्म विस्मया;द्वियद्गताश्चार्जुनकर्णसंयुगे
८.६५.१०भुजाः सवज्राङ्गुलयः समुच्छ्रिताः; ससिंहनादा हृषितैर्दिदृक्षुभिः
यदार्जुनं मत्तमिव द्विपो द्विपं; समभ्ययादाधिरथिर्जिघांसया
८.६५.११अभ्यक्रोशन्सोमकास्तत्र पार्थं; त्वरस्व याह्यर्जुन विध्य कर्णम्
छिन्ध्यस्य मूर्धानमलं चिरेण; श्रद्धां च राज्याद्धृतराष्ट्रसूनोः
८.६५.१२तथास्माकं बहवस्तत्र योधाः; कर्णं तदा याहि याहीत्यवोचन्
जह्यर्जुनं कर्ण ततः सचीराः; पुनर्वनं यान्तु चिराय पार्थाः
८.६५.१३ततः कर्णः प्रथमं तत्र पार्थं; महेषुभिर्दशभिः पर्यविध्यत्
तमर्जुनः प्रत्यविध्यच्छिताग्रैः; कक्षान्तरे दशभिरतीव क्रुद्धः
८.६५.१४परस्परं तौ विशिखैः सुतीक्ष्णै;स्ततक्षतुः सूतपुत्रोऽर्जुनश्च
परस्परस्यान्तरेप्सू विमर्दे; सुभीममभ्याययतुः प्रहृष्टौ
८.६५.१५अमृष्यमाणश्च महाविमर्दे; तत्राक्रुध्यद्भीमसेनो महात्मा
अथाब्रवीत्पाणिना पाणिमाघ्न;न्संदष्टौष्ठो नृत्यति वादयन्निव
कथं नु त्वां सूतपुत्रः किरीटि;न्महेषुभिर्दशभिरविध्यदग्रे
८.६५.१६यया धृत्या सर्वभूतान्यजैषी;र्ग्रासं ददद्वह्नये खाण्डवे त्वम्
तया धृत्या सूतपुत्रं जहि त्व;महं वैनं गदया पोथयिष्ये
८.६५.१७अथाब्रवीद्वासुदेवोऽपि पार्थं; दृष्ट्वा रथेषून्प्रतिहन्यमानान्
अमीमृदत्सर्वथा तेऽद्य कर्णो; ह्यस्त्रैरस्त्राणि किमिदं किरीटिन्
८.६५.१८स वीर किं मुह्यसि नावधीयसे; नदन्त्येते कुरवः संप्रहृष्टाः
कर्णं पुरस्कृत्य विदुर्हि सर्वे; त्वदस्त्रमस्त्रैर्विनिपात्यमानम्
८.६५.१९यया धृत्या निहतं तामसास्त्रं; युगे युगे राक्षसाश्चापि घोराः
दम्भोद्भवाश्चासुराश्चाहवेषु; तया धृत्या त्वं जहि सूतपुत्रम्
८.६५.२०अनेन वास्य क्षुरनेमिनाद्य; संछिन्द्धि मूर्धानमरेः प्रसह्य
मया निसृष्टेन सुदर्शनेन; वज्रेण शक्रो नमुचेरिवारेः
८.६५.२१किरातरूपी भगवान्यया च; त्वया महत्या परितोषितोऽभूत्
तां त्वं धृतिं वीर पुनर्गृहीत्वा; सहानुबन्धं जहि सूतपुत्रम्
८.६५.२२ततो महीं सागरमेखलां त्वं; सपत्तनां ग्रामवतीं समृद्धाम्
प्रयच्छ राज्ञे निहतारिसंघां; यशश्च पार्थातुलमाप्नुहि त्वम्
८.६५.२३संचोदितो भीमजनार्दनाभ्यां; स्मृत्वा तदात्मानमवेक्ष्य सत्त्वम्
महात्मनश्चागमने विदित्वा; प्रयोजनं केशवमित्युवाच
८.६५.२४प्रादुष्करोम्येष महास्त्रमुग्रं; शिवाय लोकस्य वधाय सौतेः
तन्मेऽनुजानातु भवान्सुराश्च; ब्रह्मा भवो ब्रह्मविदश्च सर्वे
८.६५.२५इत्यूचिवान्ब्राह्ममसह्यमस्त्रं; प्रादुश्चक्रे मनसा संविधेयम्
ततो दिशश्च प्रदिशश्च सर्वाः; समावृणोत्सायकैर्भूरितेजाः
ससर्ज बाणान्भरतर्षभोऽपि; शतंशतानेकवदाशुवेगान्
८.६५.२६वैकर्तनेनापि तथाजिमध्ये; सहस्रशो बाणगणा विसृष्टाः
ते घोषिणः पाण्डवमभ्युपेयुः; पर्जन्यमुक्ता इव वारिधाराः
८.६५.२७स भीमसेनं च जनार्दनं च; किरीटिनं चाप्यमनुष्यकर्मा
त्रिभिस्त्रिभिर्भीमबलो निहत्य; ननाद घोरं महता स्वरेण
८.६५.२८स कर्णबाणाभिहतः किरीटी; भीमं तथा प्रेक्ष्य जनार्दनं च
अमृष्यमाणः पुनरेव पार्थः; शरान्दशाष्टौ च समुद्बबर्ह
८.६५.२९सुषेणमेकेन शरेण विद्ध्वा; शल्यं चतुर्भिस्त्रिभिरेव कर्णम्
ततः सुमुक्तैर्दशभिर्जघान; सभापतिं काञ्चनवर्मनद्धम्
८.६५.३०स राजपुत्रो विशिरा विबाहु;र्विवाजिसूतो विधनुर्विकेतुः
ततो रथाग्रादपतत्प्रभग्नः; परश्वधैः शाल इवाभिकृत्तः
८.६५.३१पुनश्च कर्णं त्रिभिरष्टभिश्च; द्वाभ्यां चतुर्भिर्दशभिश्च विद्ध्वा
चतुःशतान्द्विरदान्सायुधीया;न्हत्वा रथानष्टशतं जघान
सहस्रमश्वांश्च पुनश्च सादी;नष्टौ सहस्राणि च पत्तिवीरान्
८.६५.३२दृष्ट्वाजिमुख्यावथ युध्यमानौ; दिदृक्षवः शूरवरावरिघ्नौ
कर्णं च पार्थं च नियम्य वाहा;न्खस्था महीस्थाश्च जनावतस्थुः
८.६५.३३ततो धनुर्ज्या सहसातिकृष्टा; सुघोषमाच्छिद्यत पाण्डवस्य
तस्मिन्क्षणे सूतपुत्रस्तु पार्थं; समाचिनोत्क्षुद्रकाणां शतेन
८.६५.३४निर्मुक्तसर्पप्रतिमैश्च तीक्ष्णै;स्तैलप्रधौतैः खगपत्रवाजैः
षष्ट्या नाराचैर्वासुदेवं बिभेद; तदन्तरं सोमकाः प्राद्रवन्त
८.६५.३५ततो धनुर्ज्यामवधम्य शीघ्रं; शरानस्तानाधिरथेर्विधम्य
सुसंरब्धः कर्णशरक्षताङ्गो; रणे पार्थः सोमकान्प्रत्यगृह्णात्
न पक्षिणः संपतन्त्यन्तरिक्षे; क्षेपीयसास्त्रेण कृतेऽन्धकारे
८.६५.३६शल्यं च पार्थो दशभिः पृषत्कै;र्भृशं तनुत्रे प्रहसन्नविध्यत्
ततः कर्णं द्वादशभिः सुमुक्तै;र्विद्ध्वा पुनः सप्तभिरभ्यविध्यत्
८.६५.३७स पार्थबाणासनवेगनुन्नै;र्दृढाहतः पत्रिभिरुग्रवेगैः
विभिन्नगात्रः क्षतजोक्षिताङ्गः; कर्णो बभौ रुद्र इवाततेषुः
८.६५.३८ततस्त्रिभिश्च त्रिदशाधिपोपमं; शरैर्बिभेदाधिरथिर्धनंजयम्
शरांस्तु पञ्च ज्वलितानिवोरगा;न्प्रवीरयामास जिघांसुरच्युते
८.६५.३९ते वर्म भित्त्वा पुरुषोत्तमस्य; सुवर्णचित्रं न्यपतन्सुमुक्ताः
वेगेन गामाविविशुः सुवेगाः; स्नात्वा च कर्णाभिमुखाः प्रतीयुः
८.६५.४०तान्पञ्चभल्लैस्त्वरितैः सुमुक्तै;स्त्रिधा त्रिधैकैकमथोच्चकर्त
धनंजयस्ते न्यपतन्पृथिव्यां; महाहयस्तक्षकपुत्रपक्षाः
८.६५.४१ततः प्रजज्वाल किरीटमाली; क्रोधेन कक्षं प्रदहन्निवाग्निः
स कर्णमाकर्णविकृष्टसृष्टैः; शरैः शरीरान्तकरैर्ज्वलद्भिः
मर्मस्वविध्यत्स चचाल दुःखा;द्धैर्यात्तु तस्थावतिमात्रधैर्यः
८.६५.४२ततः शरौघैः प्रदिशो दिशश्च; रविप्रभा कर्णरथश्च राजन्
अदृश्य आसीत्कुपिते धनंजये; तुषारनीहारवृतं यथा नभः
८.६५.४३स चक्ररक्षानथ पादरक्षा;न्पुरःसरान्पृष्ठगोपांश्च सर्वान्
दुर्योधनेनानुमतानरिघ्ना;न्समुच्चितान्सुरथान्सारभूतान्
८.६५.४४द्विसाहस्रान्समरे सव्यसाची; कुरुप्रवीरानृषभः कुरूणाम्
क्षणेन सर्वान्सरथाश्वसूता;न्निनाय राजन्क्षयमेकवीरः
८.६५.४५अथापलायन्त विहाय कर्णं; तवात्मजाः कुरवश्चावशिष्टाः
हतानवाकीर्य शरक्षतांश्च; लालप्यमानांस्तनयान्पितॄंश्च
८.६५.४६स सर्वतः प्रेक्ष्य दिशो विशून्या; भयावदीर्णैः कुरुभिर्विहीनः
न विव्यथे भारत तत्र कर्णः; प्रतीपमेवार्जुनमभ्यधावत्