९.२०.१संजय उवाच
९.२०.२तस्मिंस्तु निहते शूरे शाल्वे समितिशोभने
तवाभज्यद्बलं वेगाद्वातेनेव महाद्रुमः
९.२०.३तत्प्रभग्नं बलं दृष्ट्वा कृतवर्मा महारथः
दधार समरे शूरः शत्रुसैन्यं महाबलः
९.२०.४संनिवृत्तास्तु ते शूरा दृष्ट्वा सात्वतमाहवे
शैलोपमं स्थितं राजन्कीर्यमाणं शरैर्युधि
९.२०.५ततः प्रववृते युद्धं कुरूणां पाण्डवैः सह
निवृत्तानां महाराज मृत्युं कृत्वा निवर्तनम्
९.२०.६तत्राश्चर्यमभूद्युद्धं सात्वतस्य परैः सह
यदेको वारयामास पाण्डुसेनां दुरासदाम्
९.२०.७तेषामन्योन्यसुहृदां कृते कर्मणि दुष्करे
सिंहनादः प्रहृष्टानां दिवःस्पृक्सुमहानभूत्
९.२०.८तेन शब्देन वित्रस्तान्पाञ्चालान्भरतर्षभ
शिनेर्नप्ता महाबाहुरन्वपद्यत सात्यकिः
९.२०.९स समासाद्य राजानं क्षेमधूर्तिं महाबलम्
सप्तभिर्निशितैर्बाणैरनयद्यमसादनम्
९.२०.१०तमायान्तं महाबाहुं प्रवपन्तं शिताञ्शरान्
जवेनाभ्यपतद्धीमान्हार्दिक्यः शिनिपुंगवम्
९.२०.११तौ सिंहाविव नर्दन्तौ धन्विनौ रथिनां वरौ
अन्योन्यमभ्यधावेतां शस्त्रप्रवरधारिणौ
९.२०.१२पाण्डवाः सह पाञ्चालैर्योधाश्चान्ये नृपोत्तमाः
प्रेक्षकाः समपद्यन्त तयोः पुरुषसिंहयोः
९.२०.१३नाराचैर्वत्सदन्तैश्च वृष्ण्यन्धकमहारथौ
अभिजघ्नतुरन्योन्यं प्रहृष्टाविव कुञ्जरौ
९.२०.१४चरन्तौ विविधान्मार्गान्हार्दिक्यशिनिपुंगवौ
मुहुरन्तर्दधाते तौ बाणवृष्ट्या परस्परम्
९.२०.१५चापवेगबलोद्धूतान्मार्गणान्वृष्णिसिंहयोः
आकाशे समपश्याम पतंगानिव शीघ्रगान्
९.२०.१६तमेकं सत्यकर्माणमासाद्य हृदिकात्मजः
अविध्यन्निशितैर्बाणैश्चतुर्भिश्चतुरो हयान्
९.२०.१७स दीर्घबाहुः संक्रुद्धस्तोत्त्रार्दित इव द्विपः
अष्टाभिः कृतवर्माणमविध्यत्परमेषुभिः
९.२०.१८ततः पूर्णायतोत्सृष्टैः कृतवर्मा शिलाशितैः
सात्यकिं त्रिभिराहत्य धनुरेकेन चिच्छिदे
९.२०.१९निकृत्तं तद्धनुःश्रेष्ठमपास्य शिनिपुंगवः
अन्यदादत्त वेगेन शैनेयः सशरं धनुः
९.२०.२०तदादाय धनुःश्रेष्ठं वरिष्ठः सर्वधन्विनाम्
आरोप्य च महावीर्यो महाबुद्धिर्महाबलः
९.२०.२१अमृष्यमाणो धनुषश्छेदनं कृतवर्मणा
कुपितोऽतिरथः शीघ्रं कृतवर्माणमभ्ययात्
९.२०.२२ततः सुनिशितैर्बाणैर्दशभिः शिनिपुंगवः
जघान सूतमश्वांश्च ध्वजं च कृतवर्मणः
९.२०.२३ततो राजन्महेष्वासः कृतवर्मा महारथः
हताश्वसूतं संप्रेक्ष्य रथं हेमपरिष्कृतम्
९.२०.२४रोषेण महताविष्टः शूलमुद्यम्य मारिष
चिक्षेप भुजवेगेन जिघांसुः शिनिपुंगवम्
९.२०.२५तच्छूलं सात्वतो ह्याजौ निर्भिद्य निशितैः शरैः
चूर्णितं पातयामास मोहयन्निव माधवम्
ततोऽपरेण भल्लेन हृद्येनं समताडयत्
९.२०.२६स युद्धे युयुधानेन हताश्वो हतसारथिः
कृतवर्मा कृतास्त्रेण धरणीमन्वपद्यत
९.२०.२७तस्मिन्सात्यकिना वीरे द्वैरथे विरथीकृते
समपद्यत सर्वेषां सैन्यानां सुमहद्भयम्
९.२०.२८पुत्रस्य तव चात्यर्थं विषादः समपद्यत
हतसूते हताश्वे च विरथे कृतवर्मणि
९.२०.२९हताश्वं च समालक्ष्य हतसूतमरिंदमम्
अभ्यधावत्कृपो राजञ्जिघांसुः शिनिपुंगवम्
९.२०.३०तमारोप्य रथोपस्थे मिषतां सर्वधन्विनाम्
अपोवाह महाबाहुस्तूर्णमायोधनादपि
९.२०.३१शैनेयेऽधिष्ठिते राजन्विरथे कृतवर्मणि
दुर्योधनबलं सर्वं पुनरासीत्पराङ्मुखम्
९.२०.३२तत्परे नावबुध्यन्त सैन्येन रजसावृते
तावकाः प्रद्रुता राजन्दुर्योधनमृते नृपम्
९.२०.३३दुर्योधनस्तु संप्रेक्ष्य भग्नं स्वबलमन्तिकात्
जवेनाभ्यपतत्तूर्णं सर्वांश्चैको न्यवारयत्
९.२०.३४पाण्डूंश्च सर्वान्संक्रुद्धो धृष्टद्युम्नं च पार्षतम्
शिखण्डिनं द्रौपदेयान्पाञ्चालानां च ये गणाः
९.२०.३५केकयान्सोमकांश्चैव पाञ्चालांश्चैव मारिष
असंभ्रमं दुराधर्षः शितैरस्त्रैरवारयत्
९.२०.३६अतिष्ठदाहवे यत्तः पुत्रस्तव महाबलः
यथा यज्ञे महानग्निर्मन्त्रपूतः प्रकाशयन्
९.२०.३७तं परे नाभ्यवर्तन्त मर्त्या मृत्युमिवाहवे
अथान्यं रथमास्थाय हार्दिक्यः समपद्यत