९.३५.१वैशंपायन उवाच
९.३५.२तस्मान्नदीगतं चापि उदपानं यशस्विनः
त्रितस्य च महाराज जगामाथ हलायुधः
९.३५.३तत्र दत्त्वा बहु द्रव्यं पूजयित्वा तथा द्विजान्
उपस्पृश्य च तत्रैव प्रहृष्टो मुसलायुधः
९.३५.४तत्र धर्मपरो ह्यासीत्त्रितः स सुमहातपाः
कूपे च वसता तेन सोमः पीतो महात्मना
९.३५.५तत्र चैनं समुत्सृज्य भ्रातरौ जग्मतुर्गृहान्
ततस्तौ वै शशापाथ त्रितो ब्राह्मणसत्तमः
९.३५.६जनमेजय उवाच
९.३५.७उदपानं कथं ब्रह्मन्कथं च सुमहातपाः
पतितः किं च संत्यक्तो भ्रातृभ्यां द्विजसत्तमः
९.३५.८कूपे कथं च हित्वैनं भ्रातरौ जग्मतुर्गृहान्
एतदाचक्ष्व मे ब्रह्मन्यदि श्राव्यं हि मन्यसे
९.३५.९वैशंपायन उवाच
९.३५.१०आसन्पूर्वयुगे राजन्मुनयो भ्रातरस्त्रयः
एकतश्च द्वितश्चैव त्रितश्चादित्यसंनिभाः
९.३५.११सर्वे प्रजापतिसमाः प्रजावन्तस्तथैव च
ब्रह्मलोकजितः सर्वे तपसा ब्रह्मवादिनः
९.३५.१२तेषां तु तपसा प्रीतो नियमेन दमेन च
अभवद्गौतमो नित्यं पिता धर्मरतः सदा
९.३५.१३स तु दीर्घेण कालेन तेषां प्रीतिमवाप्य च
जगाम भगवान्स्थानमनुरूपमिवात्मनः
९.३५.१४राजानस्तस्य ये पूर्वे याज्या ह्यासन्महात्मनः
ते सर्वे स्वर्गते तस्मिंस्तस्य पुत्रानपूजयन्
९.३५.१५तेषां तु कर्मणा राजंस्तथैवाध्ययनेन च
त्रितः स श्रेष्ठतां प्राप यथैवास्य पिता तथा
९.३५.१६तं स्म सर्वे महाभागा मुनयः पुण्यलक्षणाः
अपूजयन्महाभागं तथा विद्वत्तयैव तु
९.३५.१७कदाचिद्धि ततो राजन्भ्रातरावेकतद्वितौ
यज्ञार्थं चक्रतुश्चित्तं धनार्थं च विशेषतः
९.३५.१८तयोश्चिन्ता समभवत्त्रितं गृह्य परंतप
याज्यान्सर्वानुपादाय प्रतिगृह्य पशूंस्ततः
९.३५.१९सोमं पास्यामहे हृष्टाः प्राप्य यज्ञं महाफलम्
चक्रुश्चैव महाराज भ्रातरस्त्रय एव ह
९.३५.२०तथा तु ते परिक्रम्य याज्यान्सर्वान्पशून्प्रति
याजयित्वा ततो याज्याँल्लब्ध्वा च सुबहून्पशून्
९.३५.२१याज्येन कर्मणा तेन प्रतिगृह्य विधानतः
प्राचीं दिशं महात्मान आजग्मुस्ते महर्षयः
९.३५.२२त्रितस्तेषां महाराज पुरस्ताद्याति हृष्टवत्
एकतश्च द्वितश्चैव पृष्ठतः कालयन्पशून्
९.३५.२३तयोश्चिन्ता समभवद्दृष्ट्वा पशुगणं महत्
कथं न स्युरिमा गाव आवाभ्यां वै विना त्रितम्
९.३५.२४तावन्योन्यं समाभाष्य एकतश्च द्वितश्च ह
यदूचतुर्मिथः पापौ तन्निबोध जनेश्वर
९.३५.२५त्रितो यज्ञेषु कुशलस्त्रितो वेदेषु निष्ठितः
अन्यास्त्रितो बहुतरा गावः समुपलप्स्यते
९.३५.२६तदावां सहितौ भूत्वा गाः प्रकाल्य व्रजावहे
त्रितोऽपि गच्छतां काममावाभ्यां वै विनाकृतः
९.३५.२७तेषामागच्छतां रात्रौ पथिस्थाने वृकोऽभवत्
तथा कूपोऽविदूरेऽभूत्सरस्वत्यास्तटे महान्
९.३५.२८अथ त्रितो वृकं दृष्ट्वा पथि तिष्ठन्तमग्रतः
तद्भयादपसर्पन्वै तस्मिन्कूपे पपात ह
अगाधे सुमहाघोरे सर्वभूतभयंकरे
९.३५.२९त्रितस्ततो महाभागः कूपस्थो मुनिसत्तमः
आर्तनादं ततश्चक्रे तौ तु शुश्रुवतुर्मुनी
९.३५.३०तं ज्ञात्वा पतितं कूपे भ्रातरावेकतद्वितौ
वृकत्रासाच्च लोभाच्च समुत्सृज्य प्रजग्मतुः
९.३५.३१भ्रातृभ्यां पशुलुब्धाभ्यामुत्सृष्टः स महातपाः
उदपाने महाराज निर्जले पांसुसंवृते
९.३५.३२त्रित आत्मानमालक्ष्य कूपे वीरुत्तृणावृते
निमग्नं भरतश्रेष्ठ पापकृन्नरके यथा
९.३५.३३बुद्ध्या ह्यगणयत्प्राज्ञो मृत्योर्भीतो ह्यसोमपः
सोमः कथं नु पातव्य इहस्थेन मया भवेत्
९.३५.३४स एवमनुसंचिन्त्य तस्मिन्कूपे महातपाः
ददर्श वीरुधं तत्र लम्बमानां यदृच्छया
९.३५.३५पांसुग्रस्ते ततः कूपे विचिन्त्य सलिलं मुनिः
अग्नीन्संकल्पयामास होत्रे चात्मानमेव च
९.३५.३६ततस्तां वीरुधं सोमं संकल्प्य सुमहातपाः
ऋचो यजूंषि सामानि मनसा चिन्तयन्मुनिः
ग्रावाणः शर्कराः कृत्वा प्रचक्रेऽभिषवं नृप
९.३५.३७आज्यं च सलिलं चक्रे भागांश्च त्रिदिवौकसाम्
सोमस्याभिषवं कृत्वा चकार तुमुलं ध्वनिम्
९.३५.३८स चाविशद्दिवं राजन्स्वरः शैक्षस्त्रितस्य वै
समवाप च तं यज्ञं यथोक्तं ब्रह्मवादिभिः
९.३५.३९वर्तमाने तथा यज्ञे त्रितस्य सुमहात्मनः
आविग्नं त्रिदिवं सर्वं कारणं च न बुध्यते
९.३५.४०ततः सुतुमुलं शब्दं शुश्रावाथ बृहस्पतिः
श्रुत्वा चैवाब्रवीद्देवान्सर्वान्देवपुरोहितः
९.३५.४१त्रितस्य वर्तते यज्ञस्तत्र गच्छामहे सुराः
स हि क्रुद्धः सृजेदन्यान्देवानपि महातपाः
९.३५.४२तच्छ्रुत्वा वचनं तस्य सहिताः सर्वदेवताः
प्रययुस्तत्र यत्रासौ त्रितयज्ञः प्रवर्तते
९.३५.४३ते तत्र गत्वा विबुधास्तं कूपं यत्र स त्रितः
ददृशुस्तं महात्मानं दीक्षितं यज्ञकर्मसु
९.३५.४४दृष्ट्वा चैनं महात्मानं श्रिया परमया युतम्
ऊचुश्चाथ महाभागं प्राप्ता भागार्थिनो वयम्
९.३५.४५अथाब्रवीदृषिर्देवान्पश्यध्वं मां दिवौकसः
अस्मिन्प्रतिभये कूपे निमग्नं नष्टचेतसम्
९.३५.४६ततस्त्रितो महाराज भागांस्तेषां यथाविधि
मन्त्रयुक्तान्समददात्ते च प्रीतास्तदाभवन्
९.३५.४७ततो यथाविधि प्राप्तान्भागान्प्राप्य दिवौकसः
प्रीतात्मानो ददुस्तस्मै वरान्यान्मनसेच्छति
९.३५.४८स तु वव्रे वरं देवांस्त्रातुमर्हथ मामितः
यश्चेहोपस्पृशेत्कूपे स सोमपगतिं लभेत्
९.३५.४९तत्र चोर्मिमती राजन्नुत्पपात सरस्वती
तयोत्क्षिप्तस्त्रितस्तस्थौ पूजयंस्त्रिदिवौकसः
९.३५.५०तथेति चोक्त्वा विबुधा जग्मू राजन्यथागतम्
त्रितश्चाप्यगमत्प्रीतः स्वमेव निलयं तदा
९.३५.५१क्रुद्धः स तु समासाद्य तावृषी भ्रातरौ तदा
उवाच परुषं वाक्यं शशाप च महातपाः
९.३५.५२पशुलुब्धौ युवां यस्मान्मामुत्सृज्य प्रधावितौ
तस्माद्रूपेण तेषां वै दंष्ट्रिणामभितश्चरौ
९.३५.५३भवितारौ मया शप्तौ पापेनानेन कर्मणा
प्रसवश्चैव युवयोर्गोलाङ्गूलर्क्षवानराः
९.३५.५४इत्युक्ते तु तदा तेन क्षणादेव विशां पते
तथाभूतावदृश्येतां वचनात्सत्यवादिनः
९.३५.५५तत्राप्यमितविक्रान्तः स्पृष्ट्वा तोयं हलायुधः
दत्त्वा च विविधान्दायान्पूजयित्वा च वै द्विजान्
९.३५.५६उदपानं च तं दृष्ट्वा प्रशस्य च पुनः पुनः
नदीगतमदीनात्मा प्राप्तो विनशनं तदा