९. शल्यपर्व
९.४०.१वैशंपायन उवाच

९.४०.२ब्रह्मयोनिभिराकीर्णं जगाम यदुनन्दनः
यत्र दाल्भ्यो बको राजन्पश्वर्थं सुमहातपाः
जुहाव धृतराष्ट्रस्य राष्ट्रं वैचित्रवीर्यिणः

९.४०.३तपसा घोररूपेण कर्शयन्देहमात्मनः
क्रोधेन महताविष्टो धर्मात्मा वै प्रतापवान्

९.४०.४पुरा हि नैमिषेयाणां सत्रे द्वादशवार्षिके
वृत्ते विश्वजितोऽन्ते वै पाञ्चालानृषयोऽगमन्

९.४०.५तत्रेश्वरमयाचन्त दक्षिणार्थं मनीषिणः
बलान्वितान्वत्सतरान्निर्व्याधीनेकविंशतिम्

९.४०.६तानब्रवीद्बको वृद्धो विभजध्वं पशूनिति
पशूनेतानहं त्यक्त्वा भिक्षिष्ये राजसत्तमम्

९.४०.७एवमुक्त्वा ततो राजन्नृषीन्सर्वान्प्रतापवान्
जगाम धृतराष्ट्रस्य भवनं ब्राह्मणोत्तमः

९.४०.८स समीपगतो भूत्वा धृतराष्ट्रं जनेश्वरम्
अयाचत पशून्दाल्भ्यः स चैनं रुषितोऽब्रवीत्

९.४०.९यदृच्छया मृता दृष्ट्वा गास्तदा नृपसत्तम
एतान्पशून्नय क्षिप्रं ब्रह्मबन्धो यदीच्छसि

९.४०.१०ऋषिस्त्वथ वचः श्रुत्वा चिन्तयामास धर्मवित्
अहो बत नृशंसं वै वाक्यमुक्तोऽस्मि संसदि

९.४०.११चिन्तयित्वा मुहूर्तं च रोषाविष्टो द्विजोत्तमः
मतिं चक्रे विनाशाय धृतराष्ट्रस्य भूपतेः

९.४०.१२स उत्कृत्य मृतानां वै मांसानि द्विजसत्तमः
जुहाव धृतराष्ट्रस्य राष्ट्रं नरपतेः पुरा

९.४०.१३अवकीर्णे सरस्वत्यास्तीर्थे प्रज्वाल्य पावकम्
बको दाल्भ्यो महाराज नियमं परमास्थितः
स तैरेव जुहावास्य राष्ट्रं मांसैर्महातपाः

९.४०.१४तस्मिंस्तु विधिवत्सत्रे संप्रवृत्ते सुदारुणे
अक्षीयत ततो राष्ट्रं धृतराष्ट्रस्य पार्थिव

९.४०.१५छिद्यमानं यथानन्तं वनं परशुना विभो
बभूवापहतं तच्चाप्यवकीर्णमचेतनम्

९.४०.१६दृष्ट्वा तदवकीर्णं तु राष्ट्रं स मनुजाधिपः
बभूव दुर्मना राजंश्चिन्तयामास च प्रभुः

९.४०.१७मोक्षार्थमकरोद्यत्नं ब्राह्मणैः सहितः पुरा
अथासौ पार्थिवः खिन्नस्ते च विप्रास्तदा नृप

९.४०.१८यदा चापि न शक्नोति राष्ट्रं मोचयितुं नृप
अथ वैप्राश्निकांस्तत्र पप्रच्छ जनमेजय

९.४०.१९ततो वैप्राश्निकाः प्राहुः पशुविप्रकृतस्त्वया
मांसैरभिजुहोतीति तव राष्ट्रं मुनिर्बकः

९.४०.२०तेन ते हूयमानस्य राष्ट्रस्यास्य क्षयो महान्
तस्यैतत्तपसः कर्म येन ते ह्यनयो महान्
अपां कुञ्जे सरस्वत्यास्तं प्रसादय पार्थिव

९.४०.२१सरस्वतीं ततो गत्वा स राजा बकमब्रवीत्
निपत्य शिरसा भूमौ प्राञ्जलिर्भरतर्षभ

९.४०.२२प्रसादये त्वा भगवन्नपराधं क्षमस्व मे
मम दीनस्य लुब्धस्य मौर्ख्येण हतचेतसः
त्वं गतिस्त्वं च मे नाथः प्रसादं कर्तुमर्हसि

९.४०.२३तं तथा विलपन्तं तु शोकोपहतचेतसम्
दृष्ट्वा तस्य कृपा जज्ञे राष्ट्रं तच्च व्यमोचयत्

९.४०.२४ऋषिः प्रसन्नस्तस्याभूत्संरम्भं च विहाय सः
मोक्षार्थं तस्य राष्ट्रस्य जुहाव पुनराहुतिम्

९.४०.२५मोक्षयित्वा ततो राष्ट्रं प्रतिगृह्य पशून्बहून्
हृष्टात्मा नैमिषारण्यं जगाम पुनरेव हि

९.४०.२६धृतराष्ट्रोऽपि धर्मात्मा स्वस्थचेता महामनाः
स्वमेव नगरं राजा प्रतिपेदे महर्द्धिमत्

९.४०.२७तत्र तीर्थे महाराज बृहस्पतिरुदारधीः
असुराणामभावाय भावाय च दिवौकसाम्

९.४०.२८मांसैरपि जुहावेष्टिमक्षीयन्त ततोऽसुराः
दैवतैरपि संभग्ना जितकाशिभिराहवे

९.४०.२९तत्रापि विधिवद्दत्त्वा ब्राह्मणेभ्यो महायशाः
वाजिनः कुञ्जरांश्चैव रथांश्चाश्वतरीयुतान्

९.४०.३०रत्नानि च महार्हाणि धनं धान्यं च पुष्कलम्
ययौ तीर्थं महाबाहुर्यायातं पृथिवीपते

९.४०.३१यत्र यज्ञे ययातेस्तु महाराज सरस्वती
सर्पिः पयश्च सुस्राव नाहुषस्य महात्मनः

९.४०.३२तत्रेष्ट्वा पुरुषव्याघ्रो ययातिः पृथिवीपतिः
आक्रामदूर्ध्वं मुदितो लेभे लोकांश्च पुष्कलान्

९.४०.३३ययातेर्यजमानस्य यत्र राजन्सरस्वती
प्रसृता प्रददौ कामान्ब्राह्मणानां महात्मनाम्

९.४०.३४यत्र यत्र हि यो विप्रो यान्यान्कामानभीप्सति
तत्र तत्र सरिच्छ्रेष्ठा ससर्ज सुबहून्रसान्

९.४०.३५तत्र देवाः सगन्धर्वाः प्रीता यज्ञस्य संपदा
विस्मिता मानुषाश्चासन्दृष्ट्वा तां यज्ञसंपदम्

९.४०.३६ततस्तालकेतुर्महाधर्मसेतु;र्महात्मा कृतात्मा महादाननित्यः
वसिष्ठापवाहं महाभीमवेगं; धृतात्मा जितात्मा समभ्याजगाम