९. शल्यपर्व
९.४१.१जनमेजय उवाच

९.४१.२वसिष्ठस्यापवाहो वै भीमवेगः कथं नु सः
किमर्थं च सरिच्छ्रेष्ठा तमृषिं प्रत्यवाहयत्

९.४१.३केन चास्याभवद्वैरं कारणं किं च तत्प्रभो
शंस पृष्टो महाप्राज्ञ न हि तृप्यामि कथ्यताम्

९.४१.४वैशंपायन उवाच

९.४१.५विश्वामित्रस्य चैवर्षेर्वसिष्ठस्य च भारत
भृशं वैरमभूद्राजंस्तपःस्पर्धाकृतं महत्

९.४१.६आश्रमो वै वसिष्ठस्य स्थाणुतीर्थेऽभवन्महान्
पूर्वतः पश्चिमश्चासीद्विश्वामित्रस्य धीमतः

९.४१.७यत्र स्थाणुर्महाराज तप्तवान्सुमहत्तपः
यत्रास्य कर्म तद्घोरं प्रवदन्ति मनीषिणः

९.४१.८यत्रेष्ट्वा भगवान्स्थाणुः पूजयित्वा सरस्वतीम्
स्थापयामास तत्तीर्थं स्थाणुतीर्थमिति प्रभो

९.४१.९तत्र सर्वे सुराः स्कन्दमभ्यषिञ्चन्नराधिप
सेनापत्येन महता सुरारिविनिबर्हणम्

९.४१.१०तस्मिन्सरस्वतीतीर्थे विश्वामित्रो महामुनिः
वसिष्ठं चालयामास तपसोग्रेण तच्छृणु

९.४१.११विश्वामित्रवसिष्ठौ तावहन्यहनि भारत
स्पर्धां तपःकृतां तीव्रां चक्रतुस्तौ तपोधनौ

९.४१.१२तत्राप्यधिकसंतापो विश्वामित्रो महामुनिः
दृष्ट्वा तेजो वसिष्ठस्य चिन्तामभिजगाम ह
तस्य बुद्धिरियं ह्यासीद्धर्मनित्यस्य भारत

९.४१.१३इयं सरस्वती तूर्णं मत्समीपं तपोधनम्
आनयिष्यति वेगेन वसिष्ठं जपतां वरम्
इहागतं द्विजश्रेष्ठं हनिष्यामि न संशयः

९.४१.१४एवं निश्चित्य भगवान्विश्वामित्रो महामुनिः
सस्मार सरितां श्रेष्ठां क्रोधसंरक्तलोचनः

९.४१.१५सा ध्याता मुनिना तेन व्याकुलत्वं जगाम ह
जज्ञे चैनं महावीर्यं महाकोपं च भामिनी

९.४१.१६तत एनं वेपमाना विवर्णा प्राञ्जलिस्तदा
उपतस्थे मुनिवरं विश्वामित्रं सरस्वती

९.४१.१७हतवीरा यथा नारी साभवद्दुःखिता भृशम्
ब्रूहि किं करवाणीति प्रोवाच मुनिसत्तमम्

९.४१.१८तामुवाच मुनिः क्रुद्धो वसिष्ठं शीघ्रमानय
यावदेनं निहन्म्यद्य तच्छ्रुत्वा व्यथिता नदी

९.४१.१९साञ्जलिं तु ततः कृत्वा पुण्डरीकनिभेक्षणा
विव्यथे सुविरूढेव लता वायुसमीरिता

९.४१.२०तथागतां तु तां दृष्ट्वा वेपमानां कृताञ्जलिम्
विश्वामित्रोऽब्रवीत्क्रुद्धो वसिष्ठं शीघ्रमानय

९.४१.२१ततो भीता सरिच्छ्रेष्ठा चिन्तयामास भारत
उभयोः शापयोर्भीता कथमेतद्भविष्यति

९.४१.२२साभिगम्य वसिष्ठं तु इममर्थमचोदयत्
यदुक्ता सरितां श्रेष्ठा विश्वामित्रेण धीमता

९.४१.२३उभयोः शापयोर्भीता वेपमाना पुनः पुनः
चिन्तयित्वा महाशापमृषिवित्रासिता भृशम्

९.४१.२४तां कृशां च विवर्णां च दृष्ट्वा चिन्तासमन्विताम्
उवाच राजन्धर्मात्मा वसिष्ठो द्विपदां वरः

९.४१.२५त्राह्यात्मानं सरिच्छ्रेष्ठे वह मां शीघ्रगामिनी
विश्वामित्रः शपेद्धि त्वां मा कृथास्त्वं विचारणाम्

९.४१.२६तस्य तद्वचनं श्रुत्वा कृपाशीलस्य सा सरित्
चिन्तयामास कौरव्य किं कृतं सुकृतं भवेत्

९.४१.२७तस्याश्चिन्ता समुत्पन्ना वसिष्ठो मय्यतीव हि
कृतवान्हि दयां नित्यं तस्य कार्यं हितं मया

९.४१.२८अथ कूले स्वके राजञ्जपन्तमृषिसत्तमम्
जुह्वानं कौशिकं प्रेक्ष्य सरस्वत्यभ्यचिन्तयत्

९.४१.२९इदमन्तरमित्येव ततः सा सरितां वरा
कूलापहारमकरोत्स्वेन वेगेन सा सरित्

९.४१.३०तेन कूलापहारेण मैत्रावरुणिरौह्यत
उह्यमानश्च तुष्टाव तदा राजन्सरस्वतीम्

९.४१.३१पितामहस्य सरसः प्रवृत्तासि सरस्वति
व्याप्तं चेदं जगत्सर्वं तवैवाम्भोभिरुत्तमैः

९.४१.३२त्वमेवाकाशगा देवि मेघेषूत्सृजसे पयः
सर्वाश्चापस्त्वमेवेति त्वत्तो वयमधीमहे

९.४१.३३पुष्टिर्द्युतिस्तथा कीर्तिः सिद्धिर्वृद्धिरुमा तथा
त्वमेव वाणी स्वाहा त्वं त्वय्यायत्तमिदं जगत्
त्वमेव सर्वभूतेषु वससीह चतुर्विधा

९.४१.३४एवं सरस्वती राजन्स्तूयमाना महर्षिणा
वेगेनोवाह तं विप्रं विश्वामित्राश्रमं प्रति
न्यवेदयत चाभीक्ष्णं विश्वामित्राय तं मुनिम्

९.४१.३५तमानीतं सरस्वत्या दृष्ट्वा कोपसमन्वितः
अथान्वेषत्प्रहरणं वसिष्ठान्तकरं तदा

९.४१.३६तं तु क्रुद्धमभिप्रेक्ष्य ब्रह्महत्याभयान्नदी
अपोवाह वसिष्ठं तु प्राचीं दिशमतन्द्रिता
उभयोः कुर्वती वाक्यं वञ्चयित्वा तु गाधिजम्

९.४१.३७ततोऽपवाहितं दृष्ट्वा वसिष्ठमृषिसत्तमम्
अब्रवीदथ संक्रुद्धो विश्वामित्रो ह्यमर्षणः

९.४१.३८यस्मान्मा त्वं सरिच्छ्रेष्ठे वञ्चयित्वा पुनर्गता
शोणितं वह कल्याणि रक्षोग्रामणिसंमतम्

९.४१.३९ततः सरस्वती शप्ता विश्वामित्रेण धीमता
अवहच्छोणितोन्मिश्रं तोयं संवत्सरं तदा

९.४१.४०अथर्षयश्च देवाश्च गन्धर्वाप्सरसस्तथा
सरस्वतीं तथा दृष्ट्वा बभूवुर्भृशदुःखिताः

९.४१.४१एवं वसिष्ठापवाहो लोके ख्यातो जनाधिप
आगच्छच्च पुनर्मार्गं स्वमेव सरितां वरा