९.४३.१जनमेजय उवाच
९.४३.२सरस्वत्याः प्रभावोऽयमुक्तस्ते द्विजसत्तम
कुमारस्याभिषेकं तु ब्रह्मन्व्याख्यातुमर्हसि
९.४३.३यस्मिन्काले च देशे च यथा च वदतां वर
यैश्चाभिषिक्तो भगवान्विधिना येन च प्रभुः
९.४३.४स्कन्दो यथा च दैत्यानामकरोत्कदनं महत्
तथा मे सर्वमाचक्ष्व परं कौतूहलं हि मे
९.४३.५वैशंपायन उवाच
९.४३.६कुरुवंशस्य सदृशमिदं कौतूहलं तव
हर्षमुत्पादयत्येतद्वचो मे जनमेजय
९.४३.७हन्त ते कथयिष्यामि शृण्वानस्य जनाधिप
अभिषेकं कुमारस्य प्रभावं च महात्मनः
९.४३.८तेजो माहेश्वरं स्कन्नमग्नौ प्रपतितं पुरा
तत्सर्वभक्षो भगवान्नाशकद्दग्धुमक्षयम्
९.४३.९तेनासीदति तेजस्वी दीप्तिमान्हव्यवाहनः
न चैव धारयामास गर्भं तेजोमयं तदा
९.४३.१०स गङ्गामभिसंगम्य नियोगाद्ब्रह्मणः प्रभुः
गर्भमाहितवान्दिव्यं भास्करोपमतेजसम्
९.४३.११अथ गङ्गापि तं गर्भमसहन्ती विधारणे
उत्ससर्ज गिरौ रम्ये हिमवत्यमरार्चिते
९.४३.१२स तत्र ववृधे लोकानावृत्य ज्वलनात्मजः
ददृशुर्ज्वलनाकारं तं गर्भमथ कृत्तिकाः
९.४३.१३शरस्तम्बे महात्मानमनलात्मजमीश्वरम्
ममायमिति ताः सर्वाः पुत्रार्थिन्योऽभिचक्रमुः
९.४३.१४तासां विदित्वा भावं तं मातॄणां भगवान्प्रभुः
प्रस्नुतानां पयः षड्भिर्वदनैरपिबत्तदा
९.४३.१५तं प्रभावं समालक्ष्य तस्य बालस्य कृत्तिकाः
परं विस्मयमापन्ना देव्यो दिव्यवपुर्धराः
९.४३.१६यत्रोत्सृष्टः स भगवान्गङ्गया गिरिमूर्धनि
स शैलः काञ्चनः सर्वः संबभौ कुरुसत्तम
९.४३.१७वर्धता चैव गर्भेण पृथिवी तेन रञ्जिता
अतश्च सर्वे संवृत्ता गिरयः काञ्चनाकराः
९.४३.१८कुमारश्च महावीर्यः कार्त्तिकेय इति स्मृतः
गाङ्गेयः पूर्वमभवन्महायोगबलान्वितः
९.४३.१९स देवस्तपसा चैव वीर्येण च समन्वितः
ववृधेऽतीव राजेन्द्र चन्द्रवत्प्रियदर्शनः
९.४३.२०स तस्मिन्काञ्चने दिव्ये शरस्तम्बे श्रिया वृतः
स्तूयमानस्तदा शेते गन्धर्वैर्मुनिभिस्तथा
९.४३.२१तथैनमन्वनृत्यन्त देवकन्याः सहस्रशः
दिव्यवादित्रनृत्तज्ञाः स्तुवन्त्यश्चारुदर्शनाः
९.४३.२२अन्वास्ते च नदी देवं गङ्गा वै सरितां वरा
दधार पृथिवी चैनं बिभ्रती रूपमुत्तमम्
९.४३.२३जातकर्मादिकास्तस्य क्रियाश्चक्रे बृहस्पतिः
वेदश्चैनं चतुर्मूर्तिरुपतस्थे कृताञ्जलिः
९.४३.२४धनुर्वेदश्चतुष्पादः शस्त्रग्रामः ससंग्रहः
तत्रैनं समुपातिष्ठत्साक्षाद्वाणी च केवला
९.४३.२५स ददर्श महावीर्यं देवदेवमुमापतिम्
शैलपुत्र्या सहासीनं भूतसंघशतैर्वृतम्
९.४३.२६निकाया भूतसंघानां परमाद्भुतदर्शनाः
विकृता विकृताकारा विकृताभरणध्वजाः
९.४३.२७व्याघ्रसिंहर्क्षवदना बिडालमकराननाः
वृषदंशमुखाश्चान्ये गजोष्ट्रवदनास्तथा
९.४३.२८उलूकवदनाः केचिद्गृध्रगोमायुदर्शनाः
क्रौञ्चपारावतनिभैर्वदनै राङ्कवैरपि
९.४३.२९श्वाविच्छल्यकगोधानां खरैडकगवां तथा
सदृशानि वपूंष्यन्ये तत्र तत्र व्यधारयन्
९.४३.३०केचिच्छैलाम्बुदप्रख्याश्चक्रालातगदायुधाः
केचिदञ्जनपुञ्जाभाः केचिच्छ्वेताचलप्रभाः
९.४३.३१सप्तमातृगणाश्चैव समाजग्मुर्विशां पते
साध्या विश्वेऽथ मरुतो वसवः पितरस्तथा
९.४३.३२रुद्रादित्यास्तथा सिद्धा भुजगा दानवाः खगाः
ब्रह्मा स्वयंभूर्भगवान्सपुत्रः सह विष्णुना
९.४३.३३शक्रस्तथाभ्ययाद्द्रष्टुं कुमारवरमच्युतम्
नारदप्रमुखाश्चापि देवगन्धर्वसत्तमाः
९.४३.३४देवर्षयश्च सिद्धाश्च बृहस्पतिपुरोगमाः
ऋभवो नाम वरदा देवानामपि देवताः
तेऽपि तत्र समाजग्मुर्यामा धामाश्च सर्वशः
९.४३.३५स तु बालोऽपि भगवान्महायोगबलान्वितः
अभ्याजगाम देवेशं शूलहस्तं पिनाकिनम्
९.४३.३६तमाव्रजन्तमालक्ष्य शिवस्यासीन्मनोगतम्
युगपच्छैलपुत्र्याश्च गङ्गायाः पावकस्य च
९.४३.३७किं नु पूर्वमयं बालो गौरवादभ्युपैष्यति
अपि मामिति सर्वेषां तेषामासीन्मनोगतम्
९.४३.३८तेषामेतमभिप्रायं चतुर्णामुपलक्ष्य सः
युगपद्योगमास्थाय ससर्ज विविधास्तनूः
९.४३.३९ततोऽभवच्चतुर्मूर्तिः क्षणेन भगवान्प्रभुः
स्कन्दः शाखो विशाखश्च नैगमेषश्च पृष्ठतः
९.४३.४०एवं स कृत्वा ह्यात्मानं चतुर्धा भगवान्प्रभुः
यतो रुद्रस्ततः स्कन्दो जगामाद्भुतदर्शनः
९.४३.४१विशाखस्तु ययौ येन देवी गिरिवरात्मजा
शाखो ययौ च भगवान्वायुमूर्तिर्विभावसुम्
नैगमेषोऽगमद्गङ्गां कुमारः पावकप्रभः
९.४३.४२सर्वे भास्वरदेहास्ते चत्वारः समरूपिणः
तान्समभ्ययुरव्यग्रास्तदद्भुतमिवाभवत्
९.४३.४३हाहाकारो महानासीद्देवदानवरक्षसाम्
तद्दृष्ट्वा महदाश्चर्यमद्भुतं रोमहर्षणम्
९.४३.४४ततो रुद्रश्च देवी च पावकश्च पितामहम्
गङ्गया सहिताः सर्वे प्रणिपेतुर्जगत्पतिम्
९.४३.४५प्रणिपत्य ततस्ते तु विधिवद्राजपुंगव
इदमूचुर्वचो राजन्कार्त्तिकेयप्रियेप्सया
९.४३.४६अस्य बालस्य भगवन्नाधिपत्यं यथेप्सितम्
अस्मत्प्रियार्थं देवेश सदृशं दातुमर्हसि
९.४३.४७ततः स भगवान्धीमान्सर्वलोकपितामहः
मनसा चिन्तयामास किमयं लभतामिति
९.४३.४८ऐश्वर्याणि हि सर्वाणि देवगन्धर्वरक्षसाम्
भूतयक्षविहंगानां पन्नगानां च सर्वशः
९.४३.४९पूर्वमेवादिदेशासौ निकायेषु महात्मनाम्
समर्थं च तमैश्वर्ये महामतिरमन्यत
९.४३.५०ततो मुहूर्तं स ध्यात्वा देवानां श्रेयसि स्थितः
सेनापत्यं ददौ तस्मै सर्वभूतेषु भारत
९.४३.५१सर्वदेवनिकायानां ये राजानः परिश्रुताः
तान्सर्वान्व्यादिदेशास्मै सर्वभूतपितामहः
९.४३.५२ततः कुमारमादाय देवा ब्रह्मपुरोगमाः
अभिषेकार्थमाजग्मुः शैलेन्द्रं सहितास्ततः
९.४३.५३पुण्यां हैमवतीं देवीं सरिच्छ्रेष्ठां सरस्वतीम्
समन्तपञ्चके या वै त्रिषु लोकेषु विश्रुता
९.४३.५४तत्र तीरे सरस्वत्याः पुण्ये सर्वगुणान्विते
निषेदुर्देवगन्धर्वाः सर्वे संपूर्णमानसाः