९. शल्यपर्व
९.४८.१वैशंपायन उवाच

९.४८.२इन्द्रतीर्थं ततो गत्वा यदूनां प्रवरो बली
विप्रेभ्यो धनरत्नानि ददौ स्नात्वा यथाविधि

९.४८.३तत्र ह्यमरराजोऽसावीजे क्रतुशतेन ह
बृहस्पतेश्च देवेशः प्रददौ विपुलं धनम्

९.४८.४निरर्गलान्सजारूथ्यान्सर्वान्विविधदक्षिणान्
आजहार क्रतूंस्तत्र यथोक्तान्वेदपारगैः

९.४८.५तान्क्रतून्भरतश्रेष्ठ शतकृत्वो महाद्युतिः
पूरयामास विधिवत्ततः ख्यातः शतक्रतुः

९.४८.६तस्य नाम्ना च तत्तीर्थं शिवं पुण्यं सनातनम्
इन्द्रतीर्थमिति ख्यातं सर्वपापप्रमोचनम्

९.४८.७उपस्पृश्य च तत्रापि विधिवन्मुसलायुधः
ब्राह्मणान्पूजयित्वा च पानाच्छादनभोजनैः
शुभं तीर्थवरं तस्माद्रामतीर्थं जगाम ह

९.४८.८यत्र रामो महाभागो भार्गवः सुमहातपाः
असकृत्पृथिवीं सर्वां हतक्षत्रियपुंगवाम्

९.४८.९उपाध्यायं पुरस्कृत्य कश्यपं मुनिसत्तमम्
अयजद्वाजपेयेन सोऽश्वमेधशतेन च
प्रददौ दक्षिणार्थं च पृथिवीं वै ससागराम्

९.४८.१०रामो दत्त्वा धनं तत्र द्विजेभ्यो जनमेजय
उपस्पृश्य यथान्यायं पूजयित्वा तथा द्विजान्

९.४८.११पुण्ये तीर्थे शुभे देशे वसु दत्त्वा शुभाननः
मुनींश्चैवाभिवाद्याथ यमुनातीर्थमागमत्

९.४८.१२यत्रानयामास तदा राजसूयं महीपते
पुत्रोऽदितेर्महाभागो वरुणो वै सितप्रभः

९.४८.१३तत्र निर्जित्य संग्रामे मानुषान्दैवतांस्तथा
वरं क्रतुं समाजह्रे वरुणः परवीरहा

९.४८.१४तस्मिन्क्रतुवरे वृत्ते संग्रामः समजायत
देवानां दानवानां च त्रैलोक्यस्य क्षयावहः

९.४८.१५राजसूये क्रतुश्रेष्ठे निवृत्ते जनमेजय
जायते सुमहाघोरः संग्रामः क्षत्रियान्प्रति

९.४८.१६सीरायुधस्तदा रामस्तस्मिंस्तीर्थवरे तदा
तत्र स्नात्वा च दत्त्वा च द्विजेभ्यो वसु माधवः

९.४८.१७वनमाली ततो हृष्टः स्तूयमानो द्विजातिभिः
तस्मादादित्यतीर्थं च जगाम कमलेक्षणः

९.४८.१८यत्रेष्ट्वा भगवाञ्ज्योतिर्भास्करो राजसत्तम
ज्योतिषामाधिपत्यं च प्रभावं चाभ्यपद्यत

९.४८.१९तस्या नद्यास्तु तीरे वै सर्वे देवाः सवासवाः
विश्वेदेवाः समरुतो गन्धर्वाप्सरसश्च ह

९.४८.२०द्वैपायनः शुकश्चैव कृष्णश्च मधुसूदनः
यक्षाश्च राक्षसाश्चैव पिशाचाश्च विशां पते

९.४८.२१एते चान्ये च बहवो योगसिद्धाः सहस्रशः
तस्मिंस्तीर्थे सरस्वत्याः शिवे पुण्ये परंतप

९.४८.२२तत्र हत्वा पुरा विष्णुरसुरौ मधुकैटभौ
आप्लुतो भरतश्रेष्ठ तीर्थप्रवर उत्तमे

९.४८.२३द्वैपायनश्च धर्मात्मा तत्रैवाप्लुत्य भारत
संप्राप्तः परमं योगं सिद्धिं च परमां गतः

९.४८.२४असितो देवलश्चैव तस्मिन्नेव महातपाः
परमं योगमास्थाय ऋषिर्योगमवाप्तवान्