९. शल्यपर्व
९.४९.१वैशंपायन उवाच

९.४९.२तस्मिन्नेव तु धर्मात्मा वसति स्म तपोधनः
गार्हस्थ्यं धर्ममास्थाय असितो देवलः पुरा

९.४९.३धर्मनित्यः शुचिर्दान्तो न्यस्तदण्डो महातपाः
कर्मणा मनसा वाचा समः सर्वेषु जन्तुषु

९.४९.४अक्रोधनो महाराज तुल्यनिन्दाप्रियाप्रियः
काञ्चने लोष्टके चैव समदर्शी महातपाः

९.४९.५देवताः पूजयन्नित्यमतिथींश्च द्विजैः सह
ब्रह्मचर्यरतो नित्यं सदा धर्मपरायणः

९.४९.६ततोऽभ्येत्य महाराज योगमास्थाय भिक्षुकः
जैगीषव्यो मुनिर्धीमांस्तस्मिंस्तीर्थे समाहितः

९.४९.७देवलस्याश्रमे राजन्न्यवसत्स महाद्युतिः
योगनित्यो महाराज सिद्धिं प्राप्तो महातपाः

९.४९.८तं तत्र वसमानं तु जैगीषव्यं महामुनिम्
देवलो दर्शयन्नेव नैवायुञ्जत धर्मतः

९.४९.९एवं तयोर्महाराज दीर्घकालो व्यतिक्रमत्
जैगीषव्यं मुनिं चैव न ददर्शाथ देवलः

९.४९.१०आहारकाले मतिमान्परिव्राड्जनमेजय
उपातिष्ठत धर्मज्ञो भैक्षकाले स देवलम्

९.४९.११स दृष्ट्वा भिक्षुरूपेण प्राप्तं तत्र महामुनिम्
गौरवं परमं चक्रे प्रीतिं च विपुलां तथा

९.४९.१२देवलस्तु यथाशक्ति पूजयामास भारत
ऋषिदृष्टेन विधिना समा बह्व्यः समाहितः

९.४९.१३कदाचित्तस्य नृपते देवलस्य महात्मनः
चिन्ता सुमहती जाता मुनिं दृष्ट्वा महाद्युतिम्

९.४९.१४समास्तु समतिक्रान्ता बह्व्यः पूजयतो मम
न चायमलसो भिक्षुरभ्यभाषत किंचन

९.४९.१५एवं विगणयन्नेव स जगाम महोदधिम्
अन्तरिक्षचरः श्रीमान्कलशं गृह्य देवलः

९.४९.१६गच्छन्नेव स धर्मात्मा समुद्रं सरितां पतिम्
जैगीषव्यं ततोऽपश्यद्गतं प्रागेव भारत

९.४९.१७ततः सविस्मयश्चिन्तां जगामाथासितः प्रभुः
कथं भिक्षुरयं प्राप्तः समुद्रे स्नात एव च

९.४९.१८इत्येवं चिन्तयामास महर्षिरसितस्तदा
स्नात्वा समुद्रे विधिवच्छुचिर्जप्यं जजाप ह

९.४९.१९कृतजप्याह्निकः श्रीमानाश्रमं च जगाम ह
कलशं जलपूर्णं वै गृहीत्वा जनमेजय

९.४९.२०ततः स प्रविशन्नेव स्वमाश्रमपदं मुनिः
आसीनमाश्रमे तत्र जैगीषव्यमपश्यत

९.४९.२१न व्याहरति चैवैनं जैगीषव्यः कथंचन
काष्ठभूतोऽऽश्रमपदे वसति स्म महातपाः

९.४९.२२तं दृष्ट्वा चाप्लुतं तोये सागरे सागरोपमम्
प्रविष्टमाश्रमं चापि पूर्वमेव ददर्श सः

९.४९.२३असितो देवलो राजंश्चिन्तयामास बुद्धिमान्
दृष्टः प्रभावं तपसो जैगीषव्यस्य योगजम्

९.४९.२४चिन्तयामास राजेन्द्र तदा स मुनिसत्तमः
मया दृष्टः समुद्रे च आश्रमे च कथं त्वयम्

९.४९.२५एवं विगणयन्नेव स मुनिर्मन्त्रपारगः
उत्पपाताश्रमात्तस्मादन्तरिक्षं विशां पते
जिज्ञासार्थं तदा भिक्षोर्जैगीषव्यस्य देवलः

९.४९.२६सोऽन्तरिक्षचरान्सिद्धान्समपश्यत्समाहितान्
जैगीषव्यं च तैः सिद्धैः पूज्यमानमपश्यत

९.४९.२७ततोऽसितः सुसंरब्धो व्यवसायी दृढव्रतः
अपश्यद्वै दिवं यान्तं जैगीषव्यं स देवलः

९.४९.२८तस्माच्च पितृलोकं तं व्रजन्तं सोऽन्वपश्यत
पितृलोकाच्च तं यान्तं याम्यं लोकमपश्यत

९.४९.२९तस्मादपि समुत्पत्य सोमलोकमभिष्टुतम्
व्रजन्तमन्वपश्यत्स जैगीषव्यं महामुनिम्

९.४९.३०लोकान्समुत्पतन्तं च शुभानेकान्तयाजिनाम्
ततोऽग्निहोत्रिणां लोकांस्तेभ्यश्चाप्युत्पपात ह

९.४९.३१दर्शं च पौर्णमासं च ये यजन्ति तपोधनाः
तेभ्यः स ददृशे धीमाँल्लोकेभ्यः पशुयाजिनाम्
व्रजन्तं लोकममलमपश्यद्देवपूजितम्

९.४९.३२चातुर्मास्यैर्बहुविधैर्यजन्ते ये तपोधनाः
तेषां स्थानं तथा यान्तं तथाग्निष्टोमयाजिनाम्

९.४९.३३अग्निष्टुतेन च तथा ये यजन्ति तपोधनाः
तत्स्थानमनुसंप्राप्तमन्वपश्यत देवलः

९.४९.३४वाजपेयं क्रतुवरं तथा बहुसुवर्णकम्
आहरन्ति महाप्राज्ञास्तेषां लोकेष्वपश्यत

९.४९.३५यजन्ते पुण्डरीकेण राजसूयेन चैव ये
तेषां लोकेष्वपश्यच्च जैगीषव्यं स देवलः

९.४९.३६अश्वमेधं क्रतुवरं नरमेधं तथैव च
आहरन्ति नरश्रेष्ठास्तेषां लोकेष्वपश्यत

९.४९.३७सर्वमेधं च दुष्प्रापं तथा सौत्रामणिं च ये
तेषां लोकेष्वपश्यच्च जैगीषव्यं स देवलः

९.४९.३८द्वादशाहैश्च सत्रैर्ये यजन्ते विविधैर्नृप
तेषां लोकेष्वपश्यच्च जैगीषव्यं स देवलः

९.४९.३९मित्रावरुणयोर्लोकानादित्यानां तथैव च
सलोकतामनुप्राप्तमपश्यत ततोऽसितः

९.४९.४०रुद्राणां च वसूनां च स्थानं यच्च बृहस्पतेः
तानि सर्वाण्यतीतं च समपश्यत्ततोऽसितः

९.४९.४१आरुह्य च गवां लोकं प्रयान्तं ब्रह्मसत्रिणाम्
लोकानपश्यद्गच्छन्तं जैगीषव्यं ततोऽसितः

९.४९.४२त्रीँल्लोकानपरान्विप्रमुत्पतन्तं स्वतेजसा
पतिव्रतानां लोकांश्च व्रजन्तं सोऽन्वपश्यत

९.४९.४३ततो मुनिवरं भूयो जैगीषव्यमथासितः
नान्वपश्यत योगस्थमन्तर्हितमरिंदम

९.४९.४४सोऽचिन्तयन्महाभागो जैगीषव्यस्य देवलः
प्रभावं सुव्रतत्वं च सिद्धिं योगस्य चातुलाम्

९.४९.४५असितोऽपृच्छत तदा सिद्धाँल्लोकेषु सत्तमान्
प्रयतः प्राञ्जलिर्भूत्वा धीरस्तान्ब्रह्मसत्रिणः

९.४९.४६जैगीषव्यं न पश्यामि तं शंसत महौजसम्
एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे

९.४९.४७सिद्धा ऊचुः

९.४९.४८शृणु देवल भूतार्थं शंसतां नो दृढव्रत
जैगीषव्यो गतो लोकं शाश्वतं ब्रह्मणोऽव्ययम्

९.४९.४९स श्रुत्वा वचनं तेषां सिद्धानां ब्रह्मसत्रिणाम्
असितो देवलस्तूर्णमुत्पपात पपात च

९.४९.५०ततः सिद्धास्त ऊचुर्हि देवलं पुनरेव ह
न देवल गतिस्तत्र तव गन्तुं तपोधन
ब्रह्मणः सदनं विप्र जैगीषव्यो यदाप्तवान्

९.४९.५१तेषां तद्वचनं श्रुत्वा सिद्धानां देवलः पुनः
आनुपूर्व्येण लोकांस्तान्सर्वानवततार ह

९.४९.५२स्वमाश्रमपदं पुण्यमाजगाम पतंगवत्
प्रविशन्नेव चापश्यज्जैगीषव्यं स देवलः

९.४९.५३ततो बुद्ध्या व्यगणयद्देवलो धर्मयुक्तया
दृष्ट्वा प्रभावं तपसो जैगीषव्यस्य योगजम्

९.४९.५४ततोऽब्रवीन्महात्मानं जैगीषव्यं स देवलः
विनयावनतो राजन्नुपसर्प्य महामुनिम्
मोक्षधर्मं समास्थातुमिच्छेयं भगवन्नहम्

९.४९.५५तस्य तद्वचनं श्रुत्वा उपदेशं चकार सः
विधिं च योगस्य परं कार्याकार्यं च शास्त्रतः

९.४९.५६संन्यासकृतबुद्धिं तं ततो दृष्ट्वा महातपाः
सर्वाश्चास्य क्रियाश्चक्रे विधिदृष्टेन कर्मणा

९.४९.५७संन्यासकृतबुद्धिं तं भूतानि पितृभिः सह
ततो दृष्ट्वा प्ररुरुदुः कोऽस्मान्संविभजिष्यति

९.४९.५८देवलस्तु वचः श्रुत्वा भूतानां करुणं तथा
दिशो दश व्याहरतां मोक्षं त्यक्तुं मनो दधे

९.४९.५९ततस्तु फलमूलानि पवित्राणि च भारत
पुष्पाण्योषधयश्चैव रोरूयन्ते सहस्रशः

९.४९.६०पुनर्नो देवलः क्षुद्रो नूनं छेत्स्यति दुर्मतिः
अभयं सर्वभूतेभ्यो यो दत्त्वा नावबुध्यते

९.४९.६१ततो भूयो व्यगणयत्स्वबुद्ध्या मुनिसत्तमः
मोक्षे गार्हस्थ्यधर्मे वा किं नु श्रेयस्करं भवेत्

९.४९.६२इति निश्चित्य मनसा देवलो राजसत्तम
त्यक्त्वा गार्हस्थ्यधर्मं स मोक्षधर्ममरोचयत्

९.४९.६३एवमादीनि संचिन्त्य देवलो निश्चयात्ततः
प्राप्तवान्परमां सिद्धिं परं योगं च भारत

९.४९.६४ततो देवाः समागम्य बृहस्पतिपुरोगमाः
जैगीषव्यं तपश्चास्य प्रशंसन्ति तपस्विनः

९.४९.६५अथाब्रवीदृषिवरो देवान्वै नारदस्तदा
जैगीषव्ये तपो नास्ति विस्मापयति योऽसितम्

९.४९.६६तमेवंवादिनं धीरं प्रत्यूचुस्ते दिवौकसः
मैवमित्येव शंसन्तो जैगीषव्यं महामुनिम्

९.४९.६७तत्राप्युपस्पृश्य ततो महात्मा; दत्त्वा च वित्तं हलभृद्द्विजेभ्यः
अवाप्य धर्मं परमार्यकर्मा; जगाम सोमस्य महत्स तीर्थम्