९. शल्यपर्व
९.५०.१वैशंपायन उवाच

९.५०.२यत्रेजिवानुडुपती राजसूयेन भारत
तस्मिन्वृत्ते महानासीत्संग्रामस्तारकामयः

९.५०.३तत्राप्युपस्पृश्य बलो दत्त्वा दानानि चात्मवान्
सारस्वतस्य धर्मात्मा मुनेस्तीर्थं जगाम ह

९.५०.४यत्र द्वादशवार्षिक्यामनावृष्ट्यां द्विजोत्तमान्
वेदानध्यापयामास पुरा सारस्वतो मुनिः

९.५०.५जनमेजय उवाच

९.५०.६कथं द्वादशवार्षिक्यामनावृष्ट्यां तपोधनः
वेदानध्यापयामास पुरा सारस्वतो मुनिः

९.५०.७वैशंपायन उवाच

९.५०.८आसीत्पूर्वं महाराज मुनिर्धीमान्महातपाः
दधीच इति विख्यातो ब्रह्मचारी जितेन्द्रियः

९.५०.९तस्यातितपसः शक्रो बिभेति सततं विभो
न स लोभयितुं शक्यः फलैर्बहुविधैरपि

९.५०.१०प्रलोभनार्थं तस्याथ प्राहिणोत्पाकशासनः
दिव्यामप्सरसं पुण्यां दर्शनीयामलम्बुसाम्

९.५०.११तस्य तर्पयतो देवान्सरस्वत्यां महात्मनः
समीपतो महाराज सोपातिष्ठत भामिनी

९.५०.१२तां दिव्यवपुषं दृष्ट्वा तस्यर्षेर्भावितात्मनः
रेतः स्कन्नं सरस्वत्यां तत्सा जग्राह निम्नगा

९.५०.१३कुक्षौ चाप्यदधद्दृष्ट्वा तद्रेतः पुरुषर्षभ
सा दधार च तं गर्भं पुत्रहेतोर्महानदी

९.५०.१४सुषुवे चापि समये पुत्रं सा सरितां वरा
जगाम पुत्रमादाय तमृषिं प्रति च प्रभो

९.५०.१५ऋषिसंसदि तं दृष्ट्वा सा नदी मुनिसत्तमम्
ततः प्रोवाच राजेन्द्र ददती पुत्रमस्य तम्
ब्रह्मर्षे तव पुत्रोऽयं त्वद्भक्त्या धारितो मया

९.५०.१६दृष्ट्वा तेऽप्सरसं रेतो यत्स्कन्नं प्रागलम्बुसाम्
तत्कुक्षिणा वै ब्रह्मर्षे त्वद्भक्त्या धृतवत्यहम्

९.५०.१७न विनाशमिदं गच्छेत्त्वत्तेज इति निश्चयात्
प्रतिगृह्णीष्व पुत्रं स्वं मया दत्तमनिन्दितम्

९.५०.१८इत्युक्तः प्रतिजग्राह प्रीतिं चावाप उत्तमाम्
मन्त्रवच्चोपजिघ्रत्तं मूर्ध्नि प्रेम्णा द्विजोत्तमः

९.५०.१९परिष्वज्य चिरं कालं तदा भरतसत्तम
सरस्वत्यै वरं प्रादात्प्रीयमाणो महामुनिः

९.५०.२०विश्वे देवाः सपितरो गन्धर्वाप्सरसां गणाः
तृप्तिं यास्यन्ति सुभगे तर्प्यमाणास्तवाम्भसा

९.५०.२१इत्युक्त्वा स तु तुष्टाव वचोभिर्वै महानदीम्
प्रीतः परमहृष्टात्मा यथावच्छृणु पार्थिव

९.५०.२२प्रसृतासि महाभागे सरसो ब्रह्मणः पुरा
जानन्ति त्वां सरिच्छ्रेष्ठे मुनयः संशितव्रताः

९.५०.२३मम प्रियकरी चापि सततं प्रियदर्शने
तस्मात्सारस्वतः पुत्रो महांस्ते वरवर्णिनि

९.५०.२४तवैव नाम्ना प्रथितः पुत्रस्ते लोकभावनः
सारस्वत इति ख्यातो भविष्यति महातपाः

९.५०.२५एष द्वादशवार्षिक्यामनावृष्ट्यां द्विजर्षभान्
सारस्वतो महाभागे वेदानध्यापयिष्यति

९.५०.२६पुण्याभ्यश्च सरिद्भ्यस्त्वं सदा पुण्यतमा शुभे
भविष्यसि महाभागे मत्प्रसादात्सरस्वति

९.५०.२७एवं सा संस्तुता तेन वरं लब्ध्वा महानदी
पुत्रमादाय मुदिता जगाम भरतर्षभ

९.५०.२८एतस्मिन्नेव काले तु विरोधे देवदानवैः
शक्रः प्रहरणान्वेषी लोकांस्त्रीन्विचचार ह

९.५०.२९न चोपलेभे भगवाञ्शक्रः प्रहरणं तदा
यद्वै तेषां भवेद्योग्यं वधाय विबुधद्विषाम्

९.५०.३०ततोऽब्रवीत्सुराञ्शक्रो न मे शक्या महासुराः
ऋतेऽस्थिभिर्दधीचस्य निहन्तुं त्रिदशद्विषः

९.५०.३१तस्माद्गत्वा ऋषिश्रेष्ठो याच्यतां सुरसत्तमाः
दधीचास्थीनि देहीति तैर्वधिष्यामहे रिपून्

९.५०.३२स देवैर्याचितोऽस्थीनि यत्नादृषिवरस्तदा
प्राणत्यागं कुरुष्वेति चकारैवाविचारयन्
स लोकानक्षयान्प्राप्तो देवप्रियकरस्तदा

९.५०.३३तस्यास्थिभिरथो शक्रः संप्रहृष्टमनास्तदा
कारयामास दिव्यानि नानाप्रहरणान्युत
वज्राणि चक्राणि गदा गुरुदण्डांश्च पुष्कलान्

९.५०.३४स हि तीव्रेण तपसा संभृतः परमर्षिणा
प्रजापतिसुतेनाथ भृगुणा लोकभावनः

९.५०.३५अतिकायः स तेजस्वी लोकसारविनिर्मितः
जज्ञे शैलगुरुः प्रांशुर्महिम्ना प्रथितः प्रभुः
नित्यमुद्विजते चास्य तेजसा पाकशासनः

९.५०.३६तेन वज्रेण भगवान्मन्त्रयुक्तेन भारत
भृशं क्रोधविसृष्टेन ब्रह्मतेजोभवेन च
दैत्यदानववीराणां जघान नवतीर्नव

९.५०.३७अथ काले व्यतिक्रान्ते महत्यतिभयंकरे
अनावृष्टिरनुप्राप्ता राजन्द्वादशवार्षिकी

९.५०.३८तस्यां द्वादशवार्षिक्यामनावृष्ट्यां महर्षयः
वृत्त्यर्थं प्राद्रवन्राजन्क्षुधार्ताः सर्वतोदिशम्

९.५०.३९दिग्भ्यस्तान्प्रद्रुतान्दृष्ट्वा मुनिः सारस्वतस्तदा
गमनाय मतिं चक्रे तं प्रोवाच सरस्वती

९.५०.४०न गन्तव्यमितः पुत्र तवाहारमहं सदा
दास्यामि मत्स्यप्रवरानुष्यतामिह भारत

९.५०.४१इत्युक्तस्तर्पयामास स पितॄन्देवतास्तथा
आहारमकरोन्नित्यं प्राणान्वेदांश्च धारयन्

९.५०.४२अथ तस्यामतीतायामनावृष्ट्यां महर्षयः
अन्योन्यं परिपप्रच्छुः पुनः स्वाध्यायकारणात्

९.५०.४३तेषां क्षुधापरीतानां नष्टा वेदा विधावताम्
सर्वेषामेव राजेन्द्र न कश्चित्प्रतिभानवान्

९.५०.४४अथ कश्चिदृषिस्तेषां सारस्वतमुपेयिवान्
कुर्वाणं संशितात्मानं स्वाध्यायमृषिसत्तमम्

९.५०.४५स गत्वाचष्ट तेभ्यश्च सारस्वतमतिप्रभम्
स्वाध्यायममरप्रख्यं कुर्वाणं विजने जने

९.५०.४६ततः सर्वे समाजग्मुस्तत्र राजन्महर्षयः
सारस्वतं मुनिश्रेष्ठमिदमूचुः समागताः

९.५०.४७अस्मानध्यापयस्वेति तानुवाच ततो मुनिः
शिष्यत्वमुपगच्छध्वं विधिवद्भो ममेत्युत

९.५०.४८ततोऽब्रवीदृषिगणो बालस्त्वमसि पुत्रक
स तानाह न मे धर्मो नश्येदिति पुनर्मुनीन्

९.५०.४९यो ह्यधर्मेण विब्रूयाद्गृह्णीयाद्वाप्यधर्मतः
म्रियतां तावुभौ क्षिप्रं स्यातां वा वैरिणावुभौ

९.५०.५०न हायनैर्न पलितैर्न वित्तेन न बन्धुभिः
ऋषयश्चक्रिरे धर्मं योऽनूचानः स नो महान्

९.५०.५१एतच्छ्रुत्वा वचस्तस्य मुनयस्ते विधानतः
तस्माद्वेदाननुप्राप्य पुनर्धर्मं प्रचक्रिरे

९.५०.५२षष्टिर्मुनिसहस्राणि शिष्यत्वं प्रतिपेदिरे
सारस्वतस्य विप्रर्षेर्वेदस्वाध्यायकारणात्

९.५०.५३मुष्टिं मुष्टिं ततः सर्वे दर्भाणां तेऽभ्युपाहरन्
तस्यासनार्थं विप्रर्षेर्बालस्यापि वशे स्थिताः

९.५०.५४तत्रापि दत्त्वा वसु रौहिणेयो; महाबलः केशवपूर्वजोऽथ
जगाम तीर्थं मुदितः क्रमेण; ख्यातं महद्वृद्धकन्या स्म यत्र