९.५७.१संजय उवाच
९.५७.२समुदीर्णं ततो दृष्ट्वा संग्रामं कुरुमुख्ययोः
अथाब्रवीदर्जुनस्तु वासुदेवं यशस्विनम्
९.५७.३अनयोर्वीरयोर्युद्धे को ज्यायान्भवतो मतः
कस्य वा को गुणो भूयानेतद्वद जनार्दन
९.५७.४वासुदेव उवाच
९.५७.५उपदेशोऽनयोस्तुल्यो भीमस्तु बलवत्तरः
कृतयत्नतरस्त्वेष धार्तराष्ट्रो वृकोदरात्
९.५७.६भीमसेनस्तु धर्मेण युध्यमानो न जेष्यति
अन्यायेन तु युध्यन्वै हन्यादेष सुयोधनम्
९.५७.७मायया निर्जिता देवैरसुरा इति नः श्रुतम्
विरोचनश्च शक्रेण मायया निर्जितः सखे
मायया चाक्षिपत्तेजो वृत्रस्य बलसूदनः
९.५७.८प्रतिज्ञातं तु भीमेन द्यूतकाले धनंजय
ऊरू भेत्स्यामि ते संख्ये गदयेति सुयोधनम्
९.५७.९सोऽयं प्रतिज्ञां तां चापि पारयित्वारिकर्शनः
मायाविनं च राजानं माययैव निकृन्ततु
९.५७.१०यद्येष बलमास्थाय न्यायेन प्रहरिष्यति
विषमस्थस्ततो राजा भविष्यति युधिष्ठिरः
९.५७.११पुनरेव च वक्ष्यामि पाण्डवेदं निबोध मे
धर्मराजापराधेन भयं नः पुनरागतम्
९.५७.१२कृत्वा हि सुमहत्कर्म हत्वा भीष्ममुखान्कुरून्
जयः प्राप्तो यशश्चाग्र्यं वैरं च प्रतियातितम्
तदेवं विजयः प्राप्तः पुनः संशयितः कृतः
९.५७.१३अबुद्धिरेषा महती धर्मराजस्य पाण्डव
यदेकविजये युद्धं पणितं कृतमीदृशम्
सुयोधनः कृती वीर एकायनगतस्तथा
९.५७.१४अपि चोशनसा गीतः श्रूयतेऽयं पुरातनः
श्लोकस्तत्त्वार्थसहितस्तन्मे निगदतः शृणु
९.५७.१५पुनरावर्तमानानां भग्नानां जीवितैषिणाम्
भेतव्यमरिशेषाणामेकायनगता हि ते
९.५७.१६सुयोधनमिमं भग्नं हतसैन्यं ह्रदं गतम्
पराजितं वनप्रेप्सुं निराशं राज्यलम्भने
९.५७.१७को न्वेष संयुगे प्राज्ञः पुनर्द्वंद्वे समाह्वयेत्
अपि वो निर्जितं राज्यं न हरेत सुयोधनः
९.५७.१८यस्त्रयोदशवर्षाणि गदया कृतनिश्रमः
चरत्यूर्ध्वं च तिर्यक्च भीमसेनजिघांसया
९.५७.१९एवं चेन्न महाबाहुरन्यायेन हनिष्यति
एष वः कौरवो राजा धार्तराष्ट्रो भविष्यति
९.५७.२०धनंजयस्तु श्रुत्वैतत्केशवस्य महात्मनः
प्रेक्षतो भीमसेनस्य हस्तेनोरुमताडयत्
९.५७.२१गृह्य संज्ञां ततो भीमो गदया व्यचरद्रणे
मण्डलानि विचित्राणि यमकानीतराणि च
९.५७.२२दक्षिणं मण्डलं सव्यं गोमूत्रकमथापि च
व्यचरत्पाण्डवो राजन्नरिं संमोहयन्निव
९.५७.२३तथैव तव पुत्रोऽपि गदामार्गविशारदः
व्यचरल्लघु चित्रं च भीमसेनजिघांसया
९.५७.२४आधुन्वन्तौ गदे घोरे चन्दनागरुरूषिते
वैरस्यान्तं परीप्सन्तौ रणे क्रुद्धाविवान्तकौ
९.५७.२५अन्योन्यं तौ जिघांसन्तौ प्रवीरौ पुरुषर्षभौ
युयुधाते गरुत्मन्तौ यथा नागामिषैषिणौ
९.५७.२६मण्डलानि विचित्राणि चरतोर्नृपभीमयोः
गदासंपातजास्तत्र प्रजज्ञुः पावकार्चिषः
९.५७.२७समं प्रहरतोस्तत्र शूरयोर्बलिनोर्मृधे
क्षुब्धयोर्वायुना राजन्द्वयोरिव समुद्रयोः
९.५७.२८तयोः प्रहरतोस्तुल्यं मत्तकुञ्जरयोरिव
गदानिर्घातसंह्रादः प्रहाराणामजायत
९.५७.२९तस्मिंस्तदा संप्रहारे दारुणे संकुले भृशम्
उभावपि परिश्रान्तौ युध्यमानावरिंदमौ
९.५७.३०तौ मुहूर्तं समाश्वस्य पुनरेव परंतपौ
अभ्यहारयतां क्रुद्धौ प्रगृह्य महती गदे
९.५७.३१तयोः समभवद्युद्धं घोररूपमसंवृतम्
गदानिपातै राजेन्द्र तक्षतोर्वै परस्परम्
९.५७.३२व्यायामप्रद्रुतौ तौ तु वृषभाक्षौ तरस्विनौ
अन्योन्यं जघ्नतुर्वीरौ पङ्कस्थौ महिषाविव
९.५७.३३जर्जरीकृतसर्वाङ्गौ रुधिरेणाभिसंप्लुतौ
ददृशाते हिमवति पुष्पिताविव किंशुकौ
९.५७.३४दुर्योधनेन पार्थस्तु विवरे संप्रदर्शिते
ईषदुत्स्मयमानस्तु सहसा प्रससार ह
९.५७.३५तमभ्याशगतं प्राज्ञो रणे प्रेक्ष्य वृकोदरः
अवाक्षिपद्गदां तस्मै वेगेन महता बली
९.५७.३६अवक्षेपं तु तं दृष्ट्वा पुत्रस्तव विशां पते
अपासर्पत्ततः स्थानात्सा मोघा न्यपतद्भुवि
९.५७.३७मोक्षयित्वा प्रहारं तं सुतस्तव स संभ्रमात्
भीमसेनं च गदया प्राहरत्कुरुसत्तमः
९.५७.३८तस्य विष्यन्दमानेन रुधिरेणामितौजसः
प्रहारगुरुपाताच्च मूर्छेव समजायत
९.५७.३९दुर्योधनस्तं च वेद पीडितं पाण्डवं रणे
धारयामास भीमोऽपि शरीरमतिपीडितम्
९.५७.४०अमन्यत स्थितं ह्येनं प्रहरिष्यन्तमाहवे
अतो न प्राहरत्तस्मै पुनरेव तवात्मजः
९.५७.४१ततो मुहूर्तमाश्वस्य दुर्योधनमवस्थितम्
वेगेनाभ्यद्रवद्राजन्भीमसेनः प्रतापवान्
९.५७.४२तमापतन्तं संप्रेक्ष्य संरब्धममितौजसम्
मोघमस्य प्रहारं तं चिकीर्षुर्भरतर्षभ
९.५७.४३अवस्थाने मतिं कृत्वा पुत्रस्तव महामनाः
इयेषोत्पतितुं राजंश्छलयिष्यन्वृकोदरम्
९.५७.४४अबुध्यद्भीमसेनस्तद्राज्ञस्तस्य चिकीर्षितम्
अथास्य समभिद्रुत्य समुत्क्रम्य च सिंहवत्
९.५७.४५सृत्या वञ्चयतो राजन्पुनरेवोत्पतिष्यतः
ऊरुभ्यां प्राहिणोद्राजन्गदां वेगेन पाण्डवः
९.५७.४६सा वज्रनिष्पेषसमा प्रहिता भीमकर्मणा
ऊरू दुर्योधनस्याथ बभञ्ज प्रियदर्शनौ
९.५७.४७स पपात नरव्याघ्रो वसुधामनुनादयन्
भग्नोरुर्भीमसेनेन पुत्रस्तव महीपते
९.५७.४८ववुर्वाताः सनिर्घाताः पांसुवर्षं पपात च
चचाल पृथिवी चापि सवृक्षक्षुपपर्वता
९.५७.४९तस्मिन्निपतिते वीरे पत्यौ सर्वमहीक्षिताम्
महास्वना पुनर्दीप्ता सनिर्घाता भयंकरी
पपात चोल्का महती पतिते पृथिवीपतौ
९.५७.५०तथा शोणितवर्षं च पांसुवर्षं च भारत
ववर्ष मघवांस्तत्र तव पुत्रे निपातिते
९.५७.५१यक्षाणां राक्षसानां च पिशाचानां तथैव च
अन्तरिक्षे महानादः श्रूयते भरतर्षभ
९.५७.५२तेन शब्देन घोरेण मृगाणामथ पक्षिणाम्
जज्ञे घोरतमः शब्दो बहूनां सर्वतोदिशम्
९.५७.५३ये तत्र वाजिनः शेषा गजाश्च मनुजैः सह
मुमुचुस्ते महानादं तव पुत्रे निपातिते
९.५७.५४भेरीशङ्खमृदङ्गानामभवच्च स्वनो महान्
अन्तर्भूमिगतश्चैव तव पुत्रे निपातिते
९.५७.५५बहुपादैर्बहुभुजैः कबन्धैर्घोरदर्शनैः
नृत्यद्भिर्भयदैर्व्याप्ता दिशस्तत्राभवन्नृप
९.५७.५६ध्वजवन्तोऽस्त्रवन्तश्च शस्त्रवन्तस्तथैव च
प्राकम्पन्त ततो राजंस्तव पुत्रे निपातिते
९.५७.५७ह्रदाः कूपाश्च रुधिरमुद्वेमुर्नृपसत्तम
नद्यश्च सुमहावेगाः प्रतिस्रोतोवहाभवन्
९.५७.५८पुल्लिङ्गा इव नार्यस्तु स्त्रीलिङ्गाः पुरुषाभवन्
दुर्योधने तदा राजन्पतिते तनये तव
९.५७.५९दृष्ट्वा तानद्भुतोत्पातान्पाञ्चालाः पाण्डवैः सह
आविग्नमनसः सर्वे बभूवुर्भरतर्षभ
९.५७.६०ययुर्देवा यथाकामं गन्धर्वाप्सरसस्तथा
कथयन्तोऽद्भुतं युद्धं सुतयोस्तव भारत
९.५७.६१तथैव सिद्धा राजेन्द्र तथा वातिकचारणाः
नरसिंहौ प्रशंसन्तौ विप्रजग्मुर्यथागतम्