९. शल्यपर्व
९.५९.१धृतराष्ट्र उवाच

९.५९.२अधर्मेण हतं दृष्ट्वा राजानं माधवोत्तमः
किमब्रवीत्तदा सूत बलदेवो महाबलः

९.५९.३गदायुद्धविशेषज्ञो गदायुद्धविशारदः
कृतवान्रौहिणेयो यत्तन्ममाचक्ष्व संजय

९.५९.४संजय उवाच

९.५९.५शिरस्यभिहतं दृष्ट्वा भीमसेनेन ते सुतम्
रामः प्रहरतां श्रेष्ठश्चुक्रोध बलवद्बली

९.५९.६ततो मध्ये नरेन्द्राणामूर्ध्वबाहुर्हलायुधः
कुर्वन्नार्तस्वरं घोरं धिग्धिग्भीमेत्युवाच ह

९.५९.७अहो धिग्यदधो नाभेः प्रहृतं शुद्धविक्रमे
नैतद्दृष्टं गदायुद्धे कृतवान्यद्वृकोदरः

९.५९.८अधो नाभ्या न हन्तव्यमिति शास्त्रस्य निश्चयः
अयं त्वशास्त्रविन्मूढः स्वच्छन्दात्संप्रवर्तते

९.५९.९तस्य तत्तद्ब्रुवाणस्य रोषः समभवन्महान्
ततो लाङ्गलमुद्यम्य भीममभ्यद्रवद्बली

९.५९.१०तस्योर्ध्वबाहोः सदृशं रूपमासीन्महात्मनः
बहुधातुविचित्रस्य श्वेतस्येव महागिरेः

९.५९.११तमुत्पतन्तं जग्राह केशवो विनयानतः
बाहुभ्यां पीनवृत्ताभ्यां प्रयत्नाद्बलवद्बली

९.५९.१२सितासितौ यदुवरौ शुशुभातेऽधिकं ततः
नभोगतौ यथा राजंश्चन्द्रसूर्यौ दिनक्षये

९.५९.१३उवाच चैनं संरब्धं शमयन्निव केशवः
आत्मवृद्धिर्मित्रवृद्धिर्मित्रमित्रोदयस्तथा
विपरीतं द्विषत्स्वेतत्षड्विधा वृद्धिरात्मनः

९.५९.१४आत्मन्यपि च मित्रेषु विपरीतं यदा भवेत्
तदा विद्यान्मनोज्यानिमाशु शान्तिकरो भवेत्

९.५९.१५अस्माकं सहजं मित्रं पाण्डवाः शुद्धपौरुषाः
स्वकाः पितृष्वसुः पुत्रास्ते परैर्निकृता भृशम्

९.५९.१६प्रतिज्ञापारणं धर्मः क्षत्रियस्येति वेत्थ ह
सुयोधनस्य गदया भङ्क्तास्म्यूरू महाहवे
इति पूर्वं प्रतिज्ञातं भीमेन हि सभातले

९.५९.१७मैत्रेयेणाभिशप्तश्च पूर्वमेव महर्षिणा
ऊरू भेत्स्यति ते भीमो गदयेति परंतप
अतो दोषं न पश्यामि मा क्रुधस्त्वं प्रलम्बहन्

९.५९.१८यौनैर्हार्दैश्च संबन्धैः संबद्धाः स्मेह पाण्डवैः
तेषां वृद्ध्याभिवृद्धिर्नो मा क्रुधः पुरुषर्षभ

९.५९.१९राम उवाच

९.५९.२०धर्मः सुचरितः सद्भिः सह द्वाभ्यां नियच्छति
अर्थश्चात्यर्थलुब्धस्य कामश्चातिप्रसङ्गिनः

९.५९.२१धर्मार्थौ धर्मकामौ च कामार्थौ चाप्यपीडयन्
धर्मार्थकामान्योऽभ्येति सोऽत्यन्तं सुखमश्नुते

९.५९.२२तदिदं व्याकुलं सर्वं कृतं धर्मस्य पीडनात्
भीमसेनेन गोविन्द कामं त्वं तु यथात्थ माम्

९.५९.२३वासुदेव उवाच

९.५९.२४अरोषणो हि धर्मात्मा सततं धर्मवत्सलः
भवान्प्रख्यायते लोके तस्मात्संशाम्य मा क्रुधः

९.५९.२५प्राप्तं कलियुगं विद्धि प्रतिज्ञां पाण्डवस्य च
आनृण्यं यातु वैरस्य प्रतिज्ञायाश्च पाण्डवः

९.५९.२६संजय उवाच

९.५९.२७धर्मच्छलमपि श्रुत्वा केशवात्स विशां पते
नैव प्रीतमना रामो वचनं प्राह संसदि

९.५९.२८हत्वाधर्मेण राजानं धर्मात्मानं सुयोधनम्
जिह्मयोधीति लोकेऽस्मिन्ख्यातिं यास्यति पाण्डवः

९.५९.२९दुर्योधनोऽपि धर्मात्मा गतिं यास्यति शाश्वतीम्
ऋजुयोधी हतो राजा धार्तराष्ट्रो नराधिपः

९.५९.३०युद्धदीक्षां प्रविश्याजौ रणयज्ञं वितत्य च
हुत्वात्मानममित्राग्नौ प्राप चावभृथं यशः

९.५९.३१इत्युक्त्वा रथमास्थाय रौहिणेयः प्रतापवान्
श्वेताभ्रशिखराकारः प्रययौ द्वारकां प्रति

९.५९.३२पाञ्चालाश्च सवार्ष्णेयाः पाण्डवाश्च विशां पते
रामे द्वारवतीं याते नातिप्रमनसोऽभवन्

९.५९.३३ततो युधिष्ठिरं दीनं चिन्तापरमधोमुखम्
शोकोपहतसंकल्पं वासुदेवोऽब्रवीदिदम्

९.५९.३४धर्मराज किमर्थं त्वमधर्ममनुमन्यसे
हतबन्धोर्यदेतस्य पतितस्य विचेतसः

९.५९.३५दुर्योधनस्य भीमेन मृद्यमानं शिरः पदा
उपप्रेक्षसि कस्मात्त्वं धर्मज्ञः सन्नराधिप

९.५९.३६युधिष्ठिर उवाच

९.५९.३७न ममैतत्प्रियं कृष्ण यद्राजानं वृकोदरः
पदा मूर्ध्न्यस्पृशत्क्रोधान्न च हृष्ये कुलक्षये

९.५९.३८निकृत्या निकृता नित्यं धृतराष्ट्रसुतैर्वयम्
बहूनि परुषाण्युक्त्वा वनं प्रस्थापिताः स्म ह

९.५९.३९भीमसेनस्य तद्दुःखमतीव हृदि वर्तते
इति संचिन्त्य वार्ष्णेय मयैतत्समुपेक्षितम्

९.५९.४०तस्माद्धत्वाकृतप्रज्ञं लुब्धं कामवशानुगम्
लभतां पाण्डवः कामं धर्मेऽधर्मेऽपि वा कृते

९.५९.४१संजय उवाच

९.५९.४२इत्युक्ते धर्मराजेन वासुदेवोऽब्रवीदिदम्
काममस्त्वेवमिति वै कृच्छ्राद्यदुकुलोद्वहः

९.५९.४३इत्युक्तो वासुदेवेन भीमप्रियहितैषिणा
अन्वमोदत तत्सर्वं यद्भीमेन कृतं युधि

९.५९.४४भीमसेनोऽपि हत्वाजौ तव पुत्रममर्षणः
अभिवाद्याग्रतः स्थित्वा संप्रहृष्टः कृताञ्जलिः

९.५९.४५प्रोवाच सुमहातेजा धर्मराजं युधिष्ठिरम्
हर्षादुत्फुल्लनयनो जितकाशी विशां पते

९.५९.४६तवाद्य पृथिवी राजन्क्षेमा निहतकण्टका
तां प्रशाधि महाराज स्वधर्ममनुपालयन्

९.५९.४७यस्तु कर्तास्य वैरस्य निकृत्या निकृतिप्रियः
सोऽयं विनिहतः शेते पृथिव्यां पृथिवीपते

९.५९.४८दुःशासनप्रभृतयः सर्वे ते चोग्रवादिनः
राधेयः शकुनिश्चापि निहतास्तव शत्रवः

९.५९.४९सेयं रत्नसमाकीर्णा मही सवनपर्वता
उपावृत्ता महाराज त्वामद्य निहतद्विषम्

९.५९.५०युधिष्ठिर उवाच

९.५९.५१गतं वैरस्य निधनं हतो राजा सुयोधनः
कृष्णस्य मतमास्थाय विजितेयं वसुंधरा

९.५९.५२दिष्ट्या गतस्त्वमानृण्यं मातुः कोपस्य चोभयोः
दिष्ट्या जयसि दुर्धर्ष दिष्ट्या शत्रुर्निपातितः