९.६०.१धृतराष्ट्र उवाच
९.६०.२हतं दुर्योधनं दृष्ट्वा भीमसेनेन संयुगे
पाण्डवाः सृञ्जयाश्चैव किमकुर्वत संजय
९.६०.३संजय उवाच
९.६०.४हतं दुर्योधनं दृष्ट्वा भीमसेनेन संयुगे
सिंहेनेव महाराज मत्तं वनगजं वने
९.६०.५प्रहृष्टमनसस्तत्र कृष्णेन सह पाण्डवाः
पाञ्चालाः सृञ्जयाश्चैव निहते कुरुनन्दने
९.६०.६आविध्यन्नुत्तरीयाणि सिंहनादांश्च नेदिरे
नैतान्हर्षसमाविष्टानियं सेहे वसुंधरा
९.६०.७धनूंष्यन्ये व्याक्षिपन्त ज्याश्चाप्यन्ये तथाक्षिपन्
दध्मुरन्ये महाशङ्खानन्ये जघ्नुश्च दुन्दुभीः
९.६०.८चिक्रीडुश्च तथैवान्ये जहसुश्च तवाहिताः
अब्रुवंश्चासकृद्वीरा भीमसेनमिदं वचः
९.६०.९दुष्करं भवता कर्म रणेऽद्य सुमहत्कृतम्
कौरवेन्द्रं रणे हत्वा गदयातिकृतश्रमम्
९.६०.१०इन्द्रेणेव हि वृत्रस्य वधं परमसंयुगे
त्वया कृतममन्यन्त शत्रोर्वधमिमं जनाः
९.६०.११चरन्तं विविधान्मार्गान्मण्डलानि च सर्वशः
दुर्योधनमिमं शूरं कोऽन्यो हन्याद्वृकोदरात्
९.६०.१२वैरस्य च गतः पारं त्वमिहान्यैः सुदुर्गमम्
अशक्यमेतदन्येन संपादयितुमीदृशम्
९.६०.१३कुञ्जरेणेव मत्तेन वीर संग्राममूर्धनि
दुर्योधनशिरो दिष्ट्या पादेन मृदितं त्वया
९.६०.१४सिंहेन महिषस्येव कृत्वा संगरमद्भुतम्
दुःशासनस्य रुधिरं दिष्ट्या पीतं त्वयानघ
९.६०.१५ये विप्रकुर्वन्राजानं धर्मात्मानं युधिष्ठिरम्
मूर्ध्नि तेषां कृतः पादो दिष्ट्या ते स्वेन कर्मणा
९.६०.१६अमित्राणामधिष्ठानाद्वधाद्दुर्योधनस्य च
भीम दिष्ट्या पृथिव्यां ते प्रथितं सुमहद्यशः
९.६०.१७एवं नूनं हते वृत्रे शक्रं नन्दन्ति बन्दिनः
तथा त्वां निहतामित्रं वयं नन्दाम भारत
९.६०.१८दुर्योधनवधे यानि रोमाणि हृषितानि नः
अद्यापि न विहृष्यन्ति तानि तद्विद्धि भारत
इत्यब्रुवन्भीमसेनं वातिकास्तत्र संगताः
९.६०.१९तान्हृष्टान्पुरुषव्याघ्रान्पाञ्चालान्पाण्डवैः सह
ब्रुवतः सदृशं तत्र प्रोवाच मधुसूदनः
९.६०.२०न न्याय्यं निहतः शत्रुर्भूयो हन्तुं जनाधिपाः
असकृद्वाग्भिरुग्राभिर्निहतो ह्येष मन्दधीः
९.६०.२१तदैवैष हतः पापो यदैव निरपत्रपः
लुब्धः पापसहायश्च सुहृदां शासनातिगः
९.६०.२२बहुशो विदुरद्रोणकृपगाङ्गेयसृञ्जयैः
पाण्डुभ्यः प्रोच्यमानोऽपि पित्र्यमंशं न दत्तवान्
९.६०.२३नैष योग्योऽद्य मित्रं वा शत्रुर्वा पुरुषाधमः
किमनेनातिनुन्नेन वाग्भिः काष्ठसधर्मणा
९.६०.२४रथेष्वारोहत क्षिप्रं गच्छामो वसुधाधिपाः
दिष्ट्या हतोऽयं पापात्मा सामात्यज्ञातिबान्धवः
९.६०.२५इति श्रुत्वा त्वधिक्षेपं कृष्णाद्दुर्योधनो नृपः
अमर्षवशमापन्न उदतिष्ठद्विशां पते
९.६०.२६स्फिग्देशेनोपविष्टः स दोर्भ्यां विष्टभ्य मेदिनीम्
दृष्टिं भ्रूसंकटां कृत्वा वासुदेवे न्यपातयत्
९.६०.२७अर्धोन्नतशरीरस्य रूपमासीन्नृपस्य तत्
क्रुद्धस्याशीविषस्येव च्छिन्नपुच्छस्य भारत
९.६०.२८प्राणान्तकरणीं घोरां वेदनामविचिन्तयन्
दुर्योधनो वासुदेवं वाग्भिरुग्राभिरार्दयत्
९.६०.२९कंसदासस्य दायाद न ते लज्जास्त्यनेन वै
अधर्मेण गदायुद्धे यदहं विनिपातितः
९.६०.३०ऊरू भिन्धीति भीमस्य स्मृतिं मिथ्या प्रयच्छता
किं न विज्ञातमेतन्मे यदर्जुनमवोचथाः
९.६०.३१घातयित्वा महीपालानृजुयुद्धान्सहस्रशः
जिह्मैरुपायैर्बहुभिर्न ते लज्जा न ते घृणा
९.६०.३२अहन्यहनि शूराणां कुर्वाणः कदनं महत्
शिखण्डिनं पुरस्कृत्य घातितस्ते पितामहः
९.६०.३३अश्वत्थाम्नः सनामानं हत्वा नागं सुदुर्मते
आचार्यो न्यासितः शस्त्रं किं तन्न विदितं मम
९.६०.३४स चानेन नृशंसेन धृष्टद्युम्नेन वीर्यवान्
पात्यमानस्त्वया दृष्टो न चैनं त्वमवारयः
९.६०.३५वधार्थं पाण्डुपुत्रस्य याचितां शक्तिमेव च
घटोत्कचे व्यंसयथाः कस्त्वत्तः पापकृत्तमः
९.६०.३६छिन्नबाहुः प्रायगतस्तथा भूरिश्रवा बली
त्वया निसृष्टेन हतः शैनेयेन दुरात्मना
९.६०.३७कुर्वाणश्चोत्तमं कर्म कर्णः पार्थजिगीषया
व्यंसनेनाश्वसेनस्य पन्नगेन्द्रसुतस्य वै
९.६०.३८पुनश्च पतिते चक्रे व्यसनार्तः पराजितः
पातितः समरे कर्णश्चक्रव्यग्रोऽग्रणीर्नृणाम्
९.६०.३९यदि मां चापि कर्णं च भीष्मद्रोणौ च संयुगे
ऋजुना प्रतियुध्येथा न ते स्याद्विजयो ध्रुवम्
९.६०.४०त्वया पुनरनार्येण जिह्ममार्गेण पार्थिवाः
स्वधर्ममनुतिष्ठन्तो वयं चान्ये च घातिताः
९.६०.४१वासुदेव उवाच
९.६०.४२हतस्त्वमसि गान्धारे सभ्रातृसुतबान्धवः
सगणः ससुहृच्चैव पापमार्गमनुष्ठितः
९.६०.४३तवैव दुष्कृतैर्वीरौ भीष्मद्रोणौ निपातितौ
कर्णश्च निहतः संख्ये तव शीलानुवर्तकः
९.६०.४४याच्यमानो मया मूढ पित्र्यमंशं न दित्ससि
पाण्डवेभ्यः स्वराज्यार्धं लोभाच्छकुनिनिश्चयात्
९.६०.४५विषं ते भीमसेनाय दत्तं सर्वे च पाण्डवाः
प्रदीपिता जतुगृहे मात्रा सह सुदुर्मते
९.६०.४६सभायां याज्ञसेनी च कृष्टा द्यूते रजस्वला
तदैव तावद्दुष्टात्मन्वध्यस्त्वं निरपत्रपः
९.६०.४७अनक्षज्ञं च धर्मज्ञं सौबलेनाक्षवेदिना
निकृत्या यत्पराजैषीस्तस्मादसि हतो रणे
९.६०.४८जयद्रथेन पापेन यत्कृष्णा क्लेशिता वने
यातेषु मृगयां तेषु तृणबिन्दोरथाश्रमे
९.६०.४९अभिमन्युश्च यद्बाल एको बहुभिराहवे
त्वद्दोषैर्निहतः पाप तस्मादसि हतो रणे
९.६०.५०दुर्योधन उवाच
९.६०.५१अधीतं विधिवद्दत्तं भूः प्रशास्ता ससागरा
मूर्ध्नि स्थितममित्राणां को नु स्वन्ततरो मया
९.६०.५२यदिष्टं क्षत्रबन्धूनां स्वधर्ममनुपश्यताम्
तदिदं निधनं प्राप्तं को नु स्वन्ततरो मया
९.६०.५३देवार्हा मानुषा भोगाः प्राप्ता असुलभा नृपैः
ऐश्वर्यं चोत्तमं प्राप्तं को नु स्वन्ततरो मया
९.६०.५४ससुहृत्सानुबन्धश्च स्वर्गं गन्ताहमच्युत
यूयं विहतसंकल्पाः शोचन्तो वर्तयिष्यथ
९.६०.५५संजय उवाच
९.६०.५६अस्य वाक्यस्य निधने कुरुराजस्य भारत
अपतत्सुमहद्वर्षं पुष्पाणां पुण्यगन्धिनाम्
९.६०.५७अवादयन्त गन्धर्वा जगुश्चाप्सरसां गणाः
सिद्धाश्च मुमुचुर्वाचः साधु साध्विति भारत
९.६०.५८ववौ च सुरभिर्वायुः पुण्यगन्धो मृदुः सुखः
व्यराजतामलं चैव नभो वैडूर्यसंनिभम्
९.६०.५९अत्यद्भुतानि ते दृष्ट्वा वासुदेवपुरोगमाः
दुर्योधनस्य पूजां च दृष्ट्वा व्रीडामुपागमन्
९.६०.६०हतांश्चाधर्मतः श्रुत्वा शोकार्ताः शुशुचुर्हि ते
भीष्मं द्रोणं तथा कर्णं भूरिश्रवसमेव च
९.६०.६१तांस्तु चिन्तापरान्दृष्ट्वा पाण्डवान्दीनचेतसः
प्रोवाचेदं वचः कृष्णो मेघदुन्दुभिनिस्वनः
९.६०.६२नैष शक्योऽतिशीघ्रास्त्रस्ते च सर्वे महारथाः
ऋजुयुद्धेन विक्रान्ता हन्तुं युष्माभिराहवे
९.६०.६३उपाया विहिता ह्येते मया तस्मान्नराधिपाः
अन्यथा पाण्डवेयानां नाभविष्यज्जयः क्वचित्
९.६०.६४ते हि सर्वे महात्मानश्चत्वारोऽतिरथा भुवि
न शक्या धर्मतो हन्तुं लोकपालैरपि स्वयम्
९.६०.६५तथैवायं गदापाणिर्धार्तराष्ट्रो गतक्लमः
न शक्यो धर्मतो हन्तुं कालेनापीह दण्डिना
९.६०.६६न च वो हृदि कर्तव्यं यदयं घातितो नृपः
मिथ्यावध्यास्तथोपायैर्बहवः शत्रवोऽधिकाः
९.६०.६७पूर्वैरनुगतो मार्गो देवैरसुरघातिभिः
सद्भिश्चानुगतः पन्थाः स सर्वैरनुगम्यते
९.६०.६८कृतकृत्याः स्म सायाह्ने निवासं रोचयामहे
साश्वनागरथाः सर्वे विश्रमामो नराधिपाः
९.६०.६९वासुदेववचः श्रुत्वा तदानीं पाण्डवैः सह
पाञ्चाला भृशसंहृष्टा विनेदुः सिंहसंघवत्
९.६०.७०ततः प्राध्मापयञ्शङ्खान्पाञ्चजन्यं च माधवः
हृष्टा दुर्योधनं दृष्ट्वा निहतं पुरुषर्षभाः