१. आदिपर्व
१.१०३.१भीष्म उवाच

१.१०३.२गुणैः समुदितं सम्यगिदं नः प्रथितं कुलम्
अत्यन्यान्पृथिवीपालान्पृथिव्यामधिराज्यभाक्

१.१०३.३रक्षितं राजभिः पूर्वैर्धर्मविद्भिर्महात्मभिः
नोत्सादमगमच्चेदं कदाचिदिह नः कुलम्

१.१०३.४मया च सत्यवत्या च कृष्णेन च महात्मना
समवस्थापितं भूयो युष्मासु कुलतन्तुषु

१.१०३.५वर्धते तदिदं पुत्र कुलं सागरवद्यथा
तथा मया विधातव्यं त्वया चैव विशेषतः

१.१०३.६श्रूयते यादवी कन्या अनुरूपा कुलस्य नः
सुबलस्यात्मजा चैव तथा मद्रेश्वरस्य च

१.१०३.७कुलीना रूपवत्यश्च नाथवत्यश्च सर्वशः
उचिताश्चैव संबन्धे तेऽस्माकं क्षत्रियर्षभाः

१.१०३.८मन्ये वरयितव्यास्ता इत्यहं धीमतां वर
संतानार्थं कुलस्यास्य यद्वा विदुर मन्यसे

१.१०३.९विदुर उवाच

१.१०३.१०भवान्पिता भवान्माता भवान्नः परमो गुरुः
तस्मात्स्वयं कुलस्यास्य विचार्य कुरु यद्धितम्

१.१०३.११वैशंपायन उवाच

१.१०३.१२अथ शुश्राव विप्रेभ्यो गान्धारीं सुबलात्मजाम्
आराध्य वरदं देवं भगनेत्रहरं हरम्
गान्धारी किल पुत्राणां शतं लेभे वरं शुभा

१.१०३.१३इति श्रुत्वा च तत्त्वेन भीष्मः कुरुपितामहः
ततो गान्धारराजस्य प्रेषयामास भारत

१.१०३.१४अचक्षुरिति तत्रासीत्सुबलस्य विचारणा
कुलं ख्यातिं च वृत्तं च बुद्ध्या तु प्रसमीक्ष्य सः
ददौ तां धृतराष्ट्राय गान्धारीं धर्मचारिणीम्

१.१०३.१५गान्धारी त्वपि शुश्राव धृतराष्ट्रमचक्षुषम्
आत्मानं दित्सितं चास्मै पित्रा मात्रा च भारत

१.१०३.१६ततः सा पट्टमादाय कृत्वा बहुगुणं शुभा
बबन्ध नेत्रे स्वे राजन्पतिव्रतपरायणा
नात्यश्नीयां पतिमहमित्येवं कृतनिश्चया

१.१०३.१७ततो गान्धारराजस्य पुत्रः शकुनिरभ्ययात्
स्वसारं परया लक्ष्म्या युक्तामादाय कौरवान्

१.१०३.१८दत्त्वा स भगिनीं वीरो यथार्हं च परिच्छदम्
पुनरायात्स्वनगरं भीष्मेण प्रतिपूजितः

१.१०३.१९गान्धार्यपि वरारोहा शीलाचारविचेष्टितैः
तुष्टिं कुरूणां सर्वेषां जनयामास भारत

१.१०३.२०वृत्तेनाराध्य तान्सर्वान्पतिव्रतपरायणा
वाचापि पुरुषानन्यान्सुव्रता नान्वकीर्तयत्