१.१०४.१वैशंपायन उवाच
१.१०४.२शूरो नाम यदुश्रेष्ठो वसुदेवपिताभवत्
तस्य कन्या पृथा नाम रूपेणासदृशी भुवि
१.१०४.३पैतृष्वसेयाय स तामनपत्याय वीर्यवान्
अग्र्यमग्रे प्रतिज्ञाय स्वस्यापत्यस्य वीर्यवान्
१.१०४.४अग्रजातेति तां कन्यामग्र्यानुग्रहकाङ्क्षिणे
प्रददौ कुन्तिभोजाय सखा सख्ये महात्मने
१.१०४.५सा नियुक्ता पितुर्गेहे देवतातिथिपूजने
उग्रं पर्यचरद्घोरं ब्राह्मणं संशितव्रतम्
१.१०४.६निगूढनिश्चयं धर्मे यं तं दुर्वाससं विदुः
तमुग्रं संशितात्मानं सर्वयत्नैरतोषयत्
१.१०४.७तस्यै स प्रददौ मन्त्रमापद्धर्मान्ववेक्षया
अभिचाराभिसंयुक्तमब्रवीच्चैव तां मुनिः
१.१०४.८यं यं देवं त्वमेतेन मन्त्रेणावाहयिष्यसि
तस्य तस्य प्रसादेन पुत्रस्तव भविष्यति
१.१०४.९तथोक्ता सा तु विप्रेण तेन कौतूहलात्तदा
कन्या सती देवमर्कमाजुहाव यशस्विनी
१.१०४.१०सा ददर्श तमायान्तं भास्करं लोकभावनम्
विस्मिता चानवद्याङ्गी दृष्ट्वा तन्महदद्भुतम्
१.१०४.११प्रकाशकर्मा तपनस्तस्यां गर्भं दधौ ततः
अजीजनत्ततो वीरं सर्वशस्त्रभृतां वरम्
आमुक्तकवचः श्रीमान्देवगर्भः श्रियावृतः
१.१०४.१२सहजं कवचं बिभ्रत्कुण्डलोद्द्योतिताननः
अजायत सुतः कर्णः सर्वलोकेषु विश्रुतः
१.१०४.१३प्रादाच्च तस्याः कन्यात्वं पुनः स परमद्युतिः
दत्त्वा च ददतां श्रेष्ठो दिवमाचक्रमे ततः
१.१०४.१४गूहमानापचारं तं बन्धुपक्षभयात्तदा
उत्ससर्ज जले कुन्ती तं कुमारं सलक्षणम्
१.१०४.१५तमुत्सृष्टं तदा गर्भं राधाभर्ता महायशाः
पुत्रत्वे कल्पयामास सभार्यः सूतनन्दनः
१.१०४.१६नामधेयं च चक्राते तस्य बालस्य तावुभौ
वसुना सह जातोऽयं वसुषेणो भवत्विति
१.१०४.१७स वर्धमानो बलवान्सर्वास्त्रेषूद्यतोऽभवत्
आ पृष्ठतापादादित्यमुपतस्थे स वीर्यवान्
१.१०४.१८यस्मिन्काले जपन्नास्ते स वीरः सत्यसंगरः
नादेयं ब्राह्मणेष्वासीत्तस्मिन्काले महात्मनः
१.१०४.१९तमिन्द्रो ब्राह्मणो भूत्वा भिक्षार्थं भूतभावनः
कुण्डले प्रार्थयामास कवचं च महाद्युतिः
१.१०४.२०उत्कृत्य विमनाः स्वाङ्गात्कवचं रुधिरस्रवम्
कर्णस्तु कुण्डले छित्त्वा प्रायच्छत्स कृताञ्जलिः
१.१०४.२१शक्तिं तस्मै ददौ शक्रः विस्मितो वाक्यमब्रवीत्
देवासुरमनुष्याणां गन्धर्वोरगरक्षसाम्
यस्मै क्षेप्स्यसि रुष्टः सन्सोऽनया न भविष्यति
१.१०४.२२पुरा नाम तु तस्यासीद्वसुषेण इति श्रुतम्
ततो वैकर्तनः कर्णः कर्मणा तेन सोऽभवत्