१. आदिपर्व
१.१११.१वैशंपायन उवाच

१.१११.२तत्रापि तपसि श्रेष्ठे वर्तमानः स वीर्यवान्
सिद्धचारणसंघानां बभूव प्रियदर्शनः

१.१११.३शुश्रूषुरनहंवादी संयतात्मा जितेन्द्रियः
स्वर्गं गन्तुं पराक्रान्तः स्वेन वीर्येण भारत

१.१११.४केषांचिदभवद्भ्राता केषांचिदभवत्सखा
ऋषयस्त्वपरे चैनं पुत्रवत्पर्यपालयन्

१.१११.५स तु कालेन महता प्राप्य निष्कल्मषं तपः
ब्रह्मर्षिसदृशः पाण्डुर्बभूव भरतर्षभ

१.१११.६स्वर्गपारं तितीर्षन्स शतशृङ्गादुदङ्मुखः
प्रतस्थे सह पत्नीभ्यामब्रुवंस्तत्र तापसाः
उपर्युपरि गच्छन्तः शैलराजमुदङ्मुखाः

१.१११.७दृष्टवन्तो गिरेरस्य दुर्गान्देशान्बहून्वयम्
आक्रीडभूतान्देवानां गन्धर्वाप्सरसां तथा

१.१११.८उद्यानानि कुबेरस्य समानि विषमाणि च
महानदीनितम्बांश्च दुर्गांश्च गिरिगह्वरान्

१.१११.९सन्ति नित्यहिमा देशा निर्वृक्षमृगपक्षिणः
सन्ति केचिन्महावर्षा दुर्गाः केचिद्दुरासदाः

१.१११.१०अतिक्रामेन्न पक्षी यान्कुत एवेतरे मृगाः
वायुरेकोऽतिगाद्यत्र सिद्धाश्च परमर्षयः

१.१११.११गच्छन्त्यौ शैलराजेऽस्मिन्राजपुत्र्यौ कथं त्विमे
न सीदेतामदुःखार्हे मा गमो भरतर्षभ

१.१११.१२पाण्डुरुवाच

१.१११.१३अप्रजस्य महाभागा न द्वारं परिचक्षते
स्वर्गे तेनाभितप्तोऽहमप्रजस्तद्ब्रवीमि वः

१.१११.१४ऋणैश्चतुर्भिः संयुक्ता जायन्ते मनुजा भुवि
पितृदेवर्षिमनुजदेयैः शतसहस्रशः

१.१११.१५एतानि तु यथाकालं यो न बुध्यति मानवः
न तस्य लोकाः सन्तीति धर्मविद्भिः प्रतिष्ठितम्

१.१११.१६यज्ञैश्च देवान्प्रीणाति स्वाध्यायतपसा मुनीन्
पुत्रैः श्राद्धैः पितॄंश्चापि आनृशंस्येन मानवान्

१.१११.१७ऋषिदेवमनुष्याणां परिमुक्तोऽस्मि धर्मतः
पित्र्यादृणादनिर्मुक्तस्तेन तप्ये तपोधनाः

१.१११.१८देहनाशे ध्रुवो नाशः पितॄणामेष निश्चयः
इह तस्मात्प्रजाहेतोः प्रजायन्ते नरोत्तमाः

१.१११.१९यथैवाहं पितुः क्षेत्रे सृष्टस्तेन महात्मना
तथैवास्मिन्मम क्षेत्रे कथं वै संभवेत्प्रजा

१.१११.२०तापसा ऊचुः

१.१११.२१अस्ति वै तव धर्मात्मन्विद्म देवोपमं शुभम्
अपत्यमनघं राजन्वयं दिव्येन चक्षुषा

१.१११.२२दैवदिष्टं नरव्याघ्र कर्मणेहोपपादय
अक्लिष्टं फलमव्यग्रो विन्दते बुद्धिमान्नरः

१.१११.२३तस्मिन्दृष्टे फले तात प्रयत्नं कर्तुमर्हसि
अपत्यं गुणसंपन्नं लब्ध्वा प्रीतिमवाप्स्यसि

१.१११.२४वैशंपायन उवाच

१.१११.२५तच्छ्रुत्वा तापसवचः पाण्डुश्चिन्तापरोऽभवत्
आत्मनो मृगशापेन जानन्नुपहतां क्रियाम्

१.१११.२६सोऽब्रवीद्विजने कुन्तीं धर्मपत्नीं यशस्विनीम्
अपत्योत्पादने योगमापदि प्रसमर्थयन्

१.१११.२७अपत्यं नाम लोकेषु प्रतिष्ठा धर्मसंहिता
इति कुन्ति विदुर्धीराः शाश्वतं धर्ममादितः

१.१११.२८इष्टं दत्तं तपस्तप्तं नियमश्च स्वनुष्ठितः
सर्वमेवानपत्यस्य न पावनमिहोच्यते

१.१११.२९सोऽहमेवं विदित्वैतत्प्रपश्यामि शुचिस्मिते
अनपत्यः शुभाँल्लोकान्नावाप्स्यामीति चिन्तयन्

१.१११.३०मृगाभिशापान्नष्टं मे प्रजनं ह्यकृतात्मनः
नृशंसकारिणो भीरु यथैवोपहतं तथा

१.१११.३१इमे वै बन्धुदायादाः षट्पुत्रा धर्मदर्शने
षडेवाबन्धुदायादाः पुत्रास्ताञ्शृणु मे पृथे

१.१११.३२स्वयंजातः प्रणीतश्च परिक्रीतश्च यः सुतः
पौनर्भवश्च कानीनः स्वैरिण्यां यश्च जायते

१.१११.३३दत्तः क्रीतः कृत्रिमश्च उपगच्छेत्स्वयं च यः
सहोढो जातरेताश्च हीनयोनिधृतश्च यः

१.१११.३४पूर्वपूर्वतमाभावे मत्वा लिप्सेत वै सुतम्
उत्तमादवराः पुंसः काङ्क्षन्ते पुत्रमापदि

१.१११.३५अपत्यं धर्मफलदं श्रेष्ठं विन्दन्ति साधवः
आत्मशुक्रादपि पृथे मनुः स्वायम्भुवोऽब्रवीत्

१.१११.३६तस्मात्प्रहेष्याम्यद्य त्वां हीनः प्रजननात्स्वयम्
सदृशाच्छ्रेयसो वा त्वं विद्ध्यपत्यं यशस्विनि

१.१११.३७शृणु कुन्ति कथां चेमां शारदण्डायनीं प्रति
या वीरपत्नी गुरुभिर्नियुक्तापत्यजन्मनि

१.१११.३८पुष्पेण प्रयता स्नाता निशि कुन्ति चतुष्पथे
वरयित्वा द्विजं सिद्धं हुत्वा पुंसवनेऽनलम्

१.१११.३९कर्मण्यवसिते तस्मिन्सा तेनैव सहावसत्
तत्र त्रीञ्जनयामास दुर्जयादीन्महारथान्

१.१११.४०तथा त्वमपि कल्याणि ब्राह्मणात्तपसाधिकात्
मन्नियोगाद्यत क्षिप्रमपत्योत्पादनं प्रति