१.११२.१वैशंपायन उवाच
१.११२.२एवमुक्ता महाराज कुन्ती पाण्डुमभाषत
कुरूणामृषभं वीरं तदा भूमिपतिं पतिम्
१.११२.३न मामर्हसि धर्मज्ञ वक्तुमेवं कथंचन
धर्मपत्नीमभिरतां त्वयि राजीवलोचन
१.११२.४त्वमेव तु महाबाहो मय्यपत्यानि भारत
वीर वीर्योपपन्नानि धर्मतो जनयिष्यसि
१.११२.५स्वर्गं मनुजशार्दूल गच्छेयं सहिता त्वया
अपत्याय च मां गच्छ त्वमेव कुरुनन्दन
१.११२.६न ह्यहं मनसाप्यन्यं गच्छेयं त्वदृते नरम्
त्वत्तः प्रतिविशिष्टश्च कोऽन्योऽस्ति भुवि मानवः
१.११२.७इमां च तावद्धर्म्यां त्वं पौराणीं शृणु मे कथाम्
परिश्रुतां विशालाक्ष कीर्तयिष्यामि यामहम्
१.११२.८व्युषिताश्व इति ख्यातो बभूव किल पार्थिवः
पुरा परमधर्मिष्ठः पूरोर्वंशविवर्धनः
१.११२.९तस्मिंश्च यजमाने वै धर्मात्मनि महात्मनि
उपागमंस्ततो देवाः सेन्द्राः सह महर्षिभिः
१.११२.१०अमाद्यदिन्द्रः सोमेन दक्षिणाभिर्द्विजातयः
व्युषिताश्वस्य राजर्षेस्ततो यज्ञे महात्मनः
१.११२.११व्युषिताश्वस्ततो राजन्नति मर्त्यान्व्यरोचत
सर्वभूतान्यति यथा तपनः शिशिरात्यये
१.११२.१२स विजित्य गृहीत्वा च नृपतीन्राजसत्तमः
प्राच्यानुदीच्यान्मध्यांश्च दक्षिणात्यानकालयत्
१.११२.१३अश्वमेधे महायज्ञे व्युषिताश्वः प्रतापवान्
बभूव स हि राजेन्द्रो दशनागबलान्वितः
१.११२.१४अप्यत्र गाथां गायन्ति ये पुराणविदो जनाः
व्युषिताश्वः समुद्रान्तां विजित्येमां वसुंधराम्
अपालयत्सर्ववर्णान्पिता पुत्रानिवौरसान्
१.११२.१५यजमानो महायज्ञैर्ब्राह्मणेभ्यो ददौ धनम्
अनन्तरत्नान्यादाय आजहार महाक्रतून्
सुषाव च बहून्सोमान्सोमसंस्थास्ततान च
१.११२.१६आसीत्काक्षीवती चास्य भार्या परमसंमता
भद्रा नाम मनुष्येन्द्र रूपेणासदृशी भुवि
१.११२.१७कामयामासतुस्तौ तु परस्परमिति श्रुतिः
स तस्यां कामसंमत्तो यक्ष्माणं समपद्यत
१.११२.१८तेनाचिरेण कालेन जगामास्तमिवांशुमान्
तस्मिन्प्रेते मनुष्येन्द्रे भार्यास्य भृशदुःखिता
१.११२.१९अपुत्रा पुरुषव्याघ्र विललापेति नः श्रुतम्
भद्रा परमदुःखार्ता तन्निबोध नराधिप
१.११२.२०नारी परमधर्मज्ञ सर्वा पुत्रविनाकृता
पतिं विना जीवति या न सा जीवति दुःखिता
१.११२.२१पतिं विना मृतं श्रेयो नार्याः क्षत्रियपुंगव
त्वद्गतिं गन्तुमिच्छामि प्रसीदस्व नयस्व माम्
१.११२.२२त्वया हीना क्षणमपि नाहं जीवितुमुत्सहे
प्रसादं कुरु मे राजन्नितस्तूर्णं नयस्व माम्
१.११२.२३पृष्ठतोऽनुगमिष्यामि समेषु विषमेषु च
त्वामहं नरशार्दूल गच्छन्तमनिवर्तिनम्
१.११२.२४छायेवानपगा राजन्सततं वशवर्तिनी
भविष्यामि नरव्याघ्र नित्यं प्रियहिते रता
१.११२.२५अद्य प्रभृति मां राजन्कष्टा हृदयशोषणाः
आधयोऽभिभविष्यन्ति त्वदृते पुष्करेक्षण
१.११२.२६अभाग्यया मया नूनं वियुक्ताः सहचारिणः
संयोगा विप्रयुक्ता वा पूर्वदेहेषु पार्थिव
१.११२.२७तदिदं कर्मभिः पापैः पूर्वदेहेषु संचितम्
दुःखं मामनुसंप्राप्तं राजंस्त्वद्विप्रयोगजम्
१.११२.२८अद्य प्रभृत्यहं राजन्कुशप्रस्तरशायिनी
भविष्याम्यसुखाविष्टा त्वद्दर्शनपरायणा
१.११२.२९दर्शयस्व नरव्याघ्र साधु मामसुखान्विताम्
दीनामनाथां कृपणां विलपन्तीं नरेश्वर
१.११२.३०एवं बहुविधं तस्यां विलपन्त्यां पुनः पुनः
तं शवं संपरिष्वज्य वाक्किलान्तर्हिताब्रवीत्
१.११२.३१उत्तिष्ठ भद्रे गच्छ त्वं ददानीह वरं तव
जनयिष्याम्यपत्यानि त्वय्यहं चारुहासिनि
१.११२.३२आत्मीये च वरारोहे शयनीये चतुर्दशीम्
अष्टमीं वा ऋतुस्नाता संविशेथा मया सह
१.११२.३३एवमुक्ता तु सा देवी तथा चक्रे पतिव्रता
यथोक्तमेव तद्वाक्यं भद्रा पुत्रार्थिनी तदा
१.११२.३४सा तेन सुषुवे देवी शवेन मनुजाधिप
त्रीञ्शाल्वांश्चतुरो मद्रान्सुतान्भरतसत्तम
१.११२.३५तथा त्वमपि मय्येव मनसा भरतर्षभ
शक्तो जनयितुं पुत्रांस्तपोयोगबलान्वयात्