१.११३.१वैशंपायन उवाच
१.११३.२एवमुक्तस्तया राजा तां देवीं पुनरब्रवीत्
धर्मविद्धर्मसंयुक्तमिदं वचनमुत्तमम्
१.११३.३एवमेतत्पुरा कुन्ति व्युषिताश्वश्चकार ह
यथा त्वयोक्तं कल्याणि स ह्यासीदमरोपमः
१.११३.४अथ त्विमं प्रवक्ष्यामि धर्मं त्वेतं निबोध मे
पुराणमृषिभिर्दृष्टं धर्मविद्भिर्महात्मभिः
१.११३.५अनावृताः किल पुरा स्त्रिय आसन्वरानने
कामचारविहारिण्यः स्वतन्त्राश्चारुलोचने
१.११३.६तासां व्युच्चरमाणानां कौमारात्सुभगे पतीन्
नाधर्मोऽभूद्वरारोहे स हि धर्मः पुराभवत्
१.११३.७तं चैव धर्मं पौराणं तिर्यग्योनिगताः प्रजाः
अद्याप्यनुविधीयन्ते कामद्वेषविवर्जिताः
पुराणदृष्टो धर्मोऽयं पूज्यते च महर्षिभिः
१.११३.८उत्तरेषु च रम्भोरु कुरुष्वद्यापि वर्तते
स्त्रीणामनुग्रहकरः स हि धर्मः सनातनः
१.११३.९अस्मिंस्तु लोके नचिरान्मर्यादेयं शुचिस्मिते
स्थापिता येन यस्माच्च तन्मे विस्तरतः शृणु
१.११३.१०बभूवोद्दालको नाम महर्षिरिति नः श्रुतम्
श्वेतकेतुरिति ख्यातः पुत्रस्तस्याभवन्मुनिः
१.११३.११मर्यादेयं कृता तेन मानुषेष्विति नः श्रुतम्
कोपात्कमलपत्राक्षि यदर्थं तन्निबोध मे
१.११३.१२श्वेतकेतोः किल पुरा समक्षं मातरं पितुः
जग्राह ब्राह्मणः पाणौ गच्छाव इति चाब्रवीत्
१.११३.१३ऋषिपुत्रस्ततः कोपं चकारामर्षितस्तदा
मातरं तां तथा दृष्ट्वा नीयमानां बलादिव
१.११३.१४क्रुद्धं तं तु पिता दृष्ट्वा श्वेतकेतुमुवाच ह
मा तात कोपं कार्षीस्त्वमेष धर्मः सनातनः
१.११३.१५अनावृता हि सर्वेषां वर्णानामङ्गना भुवि
यथा गावः स्थितास्तात स्वे स्वे वर्णे तथा प्रजाः
१.११३.१६ऋषिपुत्रोऽथ तं धर्मं श्वेतकेतुर्न चक्षमे
चकार चैव मर्यादामिमां स्त्रीपुंसयोर्भुवि
१.११३.१७मानुषेषु महाभागे न त्वेवान्येषु जन्तुषु
तदा प्रभृति मर्यादा स्थितेयमिति नः श्रुतम्
१.११३.१८व्युच्चरन्त्याः पतिं नार्या अद्य प्रभृति पातकम्
भ्रूणहत्याकृतं पापं भविष्यत्यसुखावहम्
१.११३.१९भार्यां तथा व्युच्चरतः कौमारीं ब्रह्मचारिणीम्
पतिव्रतामेतदेव भविता पातकं भुवि
१.११३.२०पत्या नियुक्ता या चैव पत्न्यपत्यार्थमेव च
न करिष्यति तस्याश्च भविष्यत्येतदेव हि
१.११३.२१इति तेन पुरा भीरु मर्यादा स्थापिता बलात्
उद्दालकस्य पुत्रेण धर्म्या वै श्वेतकेतुना
१.११३.२२सौदासेन च रम्भोरु नियुक्तापत्यजन्मनि
मदयन्ती जगामर्षिं वसिष्ठमिति नः श्रुतम्
१.११३.२३तस्माल्लेभे च सा पुत्रमश्मकं नाम भामिनी
भार्या कल्माषपादस्य भर्तुः प्रियचिकीर्षया
१.११३.२४अस्माकमपि ते जन्म विदितं कमलेक्षणे
कृष्णद्वैपायनाद्भीरु कुरूणां वंशवृद्धये
१.११३.२५अत एतानि सर्वाणि कारणानि समीक्ष्य वै
ममैतद्वचनं धर्म्यं कर्तुमर्हस्यनिन्दिते
१.११३.२६ऋतावृतौ राजपुत्रि स्त्रिया भर्ता यतव्रते
नातिवर्तव्य इत्येवं धर्मं धर्मविदो विदुः
१.११३.२७शेषेष्वन्येषु कालेषु स्वातन्त्र्यं स्त्री किलार्हति
धर्ममेतं जनाः सन्तः पुराणं परिचक्षते
१.११३.२८भर्ता भार्यां राजपुत्रि धर्म्यं वाधर्म्यमेव वा
यद्ब्रूयात्तत्तथा कार्यमिति धर्मविदो विदुः
१.११३.२९विशेषतः पुत्रगृद्धी हीनः प्रजननात्स्वयम्
यथाहमनवद्याङ्गि पुत्रदर्शनलालसः
१.११३.३०तथा रक्ताङ्गुलितलः पद्मपत्रनिभः शुभे
प्रसादार्थं मया तेऽयं शिरस्यभ्युद्यतोऽञ्जलिः
१.११३.३१मन्नियोगात्सुकेशान्ते द्विजातेस्तपसाधिकात्
पुत्रान्गुणसमायुक्तानुत्पादयितुमर्हसि
त्वत्कृतेऽहं पृथुश्रोणि गच्छेयं पुत्रिणां गतिम्
१.११३.३२एवमुक्ता ततः कुन्ती पाण्डुं परपुरंजयम्
प्रत्युवाच वरारोहा भर्तुः प्रियहिते रता
१.११३.३३पितृवेश्मन्यहं बाला नियुक्तातिथिपूजने
उग्रं पर्यचरं तत्र ब्राह्मणं संशितव्रतम्
१.११३.३४निगूढनिश्चयं धर्मे यं तं दुर्वाससं विदुः
तमहं संशितात्मानं सर्वयत्नैरतोषयम्
१.११३.३५स मेऽभिचारसंयुक्तमाचष्ट भगवान्वरम्
मन्त्रग्रामं च मे प्रादादब्रवीच्चैव मामिदम्
१.११३.३६यं यं देवं त्वमेतेन मन्त्रेणावाहयिष्यसि
अकामो वा सकामो वा स ते वशमुपैष्यति
१.११३.३७इत्युक्ताहं तदा तेन पितृवेश्मनि भारत
ब्राह्मणेन वचस्तथ्यं तस्य कालोऽयमागतः
१.११३.३८अनुज्ञाता त्वया देवमाह्वयेयमहं नृप
तेन मन्त्रेण राजर्षे यथा स्यान्नौ प्रजा विभो
१.११३.३९आवाहयामि कं देवं ब्रूहि तत्त्वविदां वर
त्वत्तोऽनुज्ञाप्रतीक्षां मां विद्ध्यस्मिन्कर्मणि स्थिताम्
१.११३.४०पाण्डुरुवाच
१.११३.४१अद्यैव त्वं वरारोहे प्रयतस्व यथाविधि
धर्ममावाहय शुभे स हि देवेषु पुण्यभाक्
१.११३.४२अधर्मेण न नो धर्मः संयुज्येत कथंचन
लोकश्चायं वरारोहे धर्मोऽयमिति मंस्यते
१.११३.४३धार्मिकश्च कुरूणां स भविष्यति न संशयः
दत्तस्यापि च धर्मेण नाधर्मे रंस्यते मनः
१.११३.४४तस्माद्धर्मं पुरस्कृत्य नियता त्वं शुचिस्मिते
उपचाराभिचाराभ्यां धर्ममाराधयस्व वै
१.११३.४५वैशंपायन उवाच
१.११३.४६सा तथोक्ता तथेत्युक्त्वा तेन भर्त्रा वराङ्गना
अभिवाद्याभ्यनुज्ञाता प्रदक्षिणमवर्तत