१. आदिपर्व
१.११४.१वैशंपायन उवाच

१.११४.२संवत्सराहिते गर्भे गान्धार्या जनमेजय
आह्वयामास वै कुन्ती गर्भार्थं धर्ममच्युतम्

१.११४.३सा बलिं त्वरिता देवी धर्मायोपजहार ह
जजाप जप्यं विधिवद्दत्तं दुर्वाससा पुरा

१.११४.४संगम्य सा तु धर्मेण योगमूर्तिधरेण वै
लेभे पुत्रं वरारोहा सर्वप्राणभृतां वरम्

१.११४.५ऐन्द्रे चन्द्रसमायुक्ते मुहूर्तेऽभिजितेऽष्टमे
दिवा मध्यगते सूर्ये तिथौ पुण्येऽभिपूजिते

१.११४.६समृद्धयशसं कुन्ती सुषाव समये सुतम्
जातमात्रे सुते तस्मिन्वागुवाचाशरीरिणी

१.११४.७एष धर्मभृतां श्रेष्ठो भविष्यति न संशयः
युधिष्ठिर इति ख्यातः पाण्डोः प्रथमजः सुतः

१.११४.८भविता प्रथितो राजा त्रिषु लोकेषु विश्रुतः
यशसा तेजसा चैव वृत्तेन च समन्वितः

१.११४.९धार्मिकं तं सुतं लब्ध्वा पाण्डुस्तां पुनरब्रवीत्
प्राहुः क्षत्रं बलज्येष्ठं बलज्येष्ठं सुतं वृणु

१.११४.१०ततस्तथोक्ता पत्या तु वायुमेवाजुहाव सा
तस्माज्जज्ञे महाबाहुर्भीमो भीमपराक्रमः

१.११४.११तमप्यतिबलं जातं वागभ्यवददच्युतम्
सर्वेषां बलिनां श्रेष्ठो जातोऽयमिति भारत

१.११४.१२इदमत्यद्भुतं चासीज्जातमात्रे वृकोदरे
यदङ्कात्पतितो मातुः शिलां गात्रैरचूर्णयत्

१.११४.१३कुन्ती व्याघ्रभयोद्विग्ना सहसोत्पतिता किल
नान्वबुध्यत संसुप्तमुत्सङ्गे स्वे वृकोदरम्

१.११४.१४ततः स वज्रसंघातः कुमारोऽभ्यपतद्गिरौ
पतता तेन शतधा शिला गात्रैर्विचूर्णिता
तां शिलां चूर्णितां दृष्ट्वा पाण्डुर्विस्मयमागमत्

१.११४.१५यस्मिन्नहनि भीमस्तु जज्ञे भरतसत्तम
दुर्योधनोऽपि तत्रैव प्रजज्ञे वसुधाधिप

१.११४.१६जाते वृकोदरे पाण्डुरिदं भूयोऽन्वचिन्तयत्
कथं नु मे वरः पुत्रो लोकश्रेष्ठो भवेदिति

१.११४.१७दैवे पुरुषकारे च लोकोऽयं हि प्रतिष्ठितः
तत्र दैवं तु विधिना कालयुक्तेन लभ्यते

१.११४.१८इन्द्रो हि राजा देवानां प्रधान इति नः श्रुतम्
अप्रमेयबलोत्साहो वीर्यवानमितद्युतिः

१.११४.१९तं तोषयित्वा तपसा पुत्रं लप्स्ये महाबलम्
यं दास्यति स मे पुत्रं स वरीयान्भविष्यति
कर्मणा मनसा वाचा तस्मात्तप्स्ये महत्तपः

१.११४.२०ततः पाण्डुर्महातेजा मन्त्रयित्वा महर्षिभिः
दिदेश कुन्त्याः कौरव्यो व्रतं सांवत्सरं शुभम्

१.११४.२१आत्मना च महाबाहुरेकपादस्थितोऽभवत्
उग्रं स तप आतस्थे परमेण समाधिना

१.११४.२२आरिराधयिषुर्देवं त्रिदशानां तमीश्वरम्
सूर्येण सह धर्मात्मा पर्यवर्तत भारत

१.११४.२३तं तु कालेन महता वासवः प्रत्यभाषत
पुत्रं तव प्रदास्यामि त्रिषु लोकेषु विश्रुतम्

१.११४.२४देवानां ब्राह्मणानां च सुहृदां चार्थसाधकम्
सुतं तेऽग्र्यं प्रदास्यामि सर्वामित्रविनाशनम्

१.११४.२५इत्युक्तः कौरवो राजा वासवेन महात्मना
उवाच कुन्तीं धर्मात्मा देवराजवचः स्मरन्

१.११४.२६नीतिमन्तं महात्मानमादित्यसमतेजसम्
दुराधर्षं क्रियावन्तमतीवाद्भुतदर्शनम्

१.११४.२७पुत्रं जनय सुश्रोणि धाम क्षत्रियतेजसाम्
लब्धः प्रसादो देवेन्द्रात्तमाह्वय शुचिस्मिते

१.११४.२८एवमुक्ता ततः शक्रमाजुहाव यशस्विनी
अथाजगाम देवेन्द्रो जनयामास चार्जुनम्

१.११४.२९जातमात्रे कुमारे तु वागुवाचाशरीरिणी
महागम्भीरनिर्घोषा नभो नादयती तदा

१.११४.३०कार्तवीर्यसमः कुन्ति शिबितुल्यपराक्रमः
एष शक्र इवाजेयो यशस्ते प्रथयिष्यति

१.११४.३१अदित्या विष्णुना प्रीतिर्यथाभूदभिवर्धिता
तथा विष्णुसमः प्रीतिं वर्धयिष्यति तेऽर्जुनः

१.११४.३२एष मद्रान्वशे कृत्वा कुरूंश्च सह केकयैः
चेदिकाशिकरूषांश्च कुरुलक्ष्म सुधास्यति

१.११४.३३एतस्य भुजवीर्येण खाण्डवे हव्यवाहनः
मेदसा सर्वभूतानां तृप्तिं यास्यति वै पराम्

१.११४.३४ग्रामणीश्च महीपालानेष जित्वा महाबलः
भ्रातृभिः सहितो वीरस्त्रीन्मेधानाहरिष्यति

१.११४.३५जामदग्न्यसमः कुन्ति विष्णुतुल्यपराक्रमः
एष वीर्यवतां श्रेष्ठो भविष्यत्यपराजितः

१.११४.३६तथा दिव्यानि चास्त्राणि निखिलान्याहरिष्यति
विप्रनष्टां श्रियं चायमाहर्ता पुरुषर्षभः

१.११४.३७एतामत्यद्भुतां वाचं कुन्तीपुत्रस्य सूतके
उक्तवान्वायुराकाशे कुन्ती शुश्राव चास्य ताम्

१.११४.३८वाचमुच्चारितामुच्चैस्तां निशम्य तपस्विनाम्
बभूव परमो हर्षः शतशृङ्गनिवासिनाम्

१.११४.३९तथा देवऋषीणां च सेन्द्राणां च दिवौकसाम्
आकाशे दुन्दुभीनां च बभूव तुमुलः स्वनः

१.११४.४०उदतिष्ठन्महाघोषः पुष्पवृष्टिभिरावृतः
समवेत्य च देवानां गणाः पार्थमपूजयन्

१.११४.४१काद्रवेया वैनतेया गन्धर्वाप्सरसस्तथा
प्रजानां पतयः सर्वे सप्त चैव महर्षयः

१.११४.४२भरद्वाजः कश्यपो गौतमश्च; विश्वामित्रो जमदग्निर्वसिष्ठः
यश्चोदितो भास्करेऽभूत्प्रनष्टे; सोऽप्यत्रात्रिर्भगवानाजगाम

१.११४.४३मरीचिरङ्गिराश्चैव पुलस्त्यः पुलहः क्रतुः
दक्षः प्रजापतिश्चैव गन्धर्वाप्सरसस्तथा

१.११४.४४दिव्यमाल्याम्बरधराः सर्वालंकारभूषिताः
उपगायन्ति बीभत्सुमुपनृत्यन्ति चाप्सराः
गन्धर्वैः सहितः श्रीमान्प्रागायत च तुम्बुरुः

१.११४.४५भीमसेनोग्रसेनौ च ऊर्णायुरनघस्तथा
गोपतिर्धृतराष्ट्रश्च सूर्यवर्चाश्च सप्तमः

१.११४.४६युगपस्तृणपः कार्ष्णिर्नन्दिश्चित्ररथस्तथा
त्रयोदशः शालिशिराः पर्जन्यश्च चतुर्दशः

१.११४.४७कलिः पञ्चदशश्चात्र नारदश्चैव षोडशः
सद्वा बृहद्वा बृहकः करालश्च महायशाः

१.११४.४८ब्रह्मचारी बहुगुणः सुपर्णश्चेति विश्रुतः
विश्वावसुर्भुमन्युश्च सुचन्द्रो दशमस्तथा

१.११४.४९गीतमाधुर्यसंपन्नौ विख्यातौ च हहाहुहू
इत्येते देवगन्धर्वा जगुस्तत्र नरर्षभम्

१.११४.५०तथैवाप्सरसो हृष्टाः सर्वालंकारभूषिताः
ननृतुर्वै महाभागा जगुश्चायतलोचनाः

१.११४.५१अनूना चानवद्या च प्रियमुख्या गुणावरा
अद्रिका च तथा साची मिश्रकेशी अलम्बुसा

१.११४.५२मरीचिः शिचुका चैव विद्युत्पर्णा तिलोत्तमा
अग्निका लक्षणा क्षेमा देवी रम्भा मनोरमा

१.११४.५३असिता च सुबाहुश्च सुप्रिया सुवपुस्तथा
पुण्डरीका सुगन्धा च सुरथा च प्रमाथिनी

१.११४.५४काम्या शारद्वती चैव ननृतुस्तत्र संघशः
मेनका सहजन्या च पर्णिका पुञ्जिकस्थला

१.११४.५५क्रतुस्थला घृताची च विश्वाची पूर्वचित्त्यपि
उम्लोचेत्यभिविख्याता प्रम्लोचेति च ता दश
उर्वश्येकादशीत्येता जगुरायतलोचनाः

१.११४.५६धातार्यमा च मित्रश्च वरुणोंऽशो भगस्तथा
इन्द्रो विवस्वान्पूषा च त्वष्टा च सविता तथा

१.११४.५७पर्जन्यश्चैव विष्णुश्च आदित्याः पावकार्चिषः
महिमानं पाण्डवस्य वर्धयन्तोऽम्बरे स्थिताः

१.११४.५८मृगव्याधश्च शर्वश्च निरृतिश्च महायशाः
अजैकपादहिर्बुध्न्यः पिनाकी च परंतपः

१.११४.५९दहनोऽथेश्वरश्चैव कपाली च विशां पते
स्थाणुर्भवश्च भगवान्रुद्रास्तत्रावतस्थिरे

१.११४.६०अश्विनौ वसवश्चाष्टौ मरुतश्च महाबलाः
विश्वेदेवास्तथा साध्यास्तत्रासन्परिसंस्थिताः

१.११४.६१कर्कोटकोऽथ शेषश्च वासुकिश्च भुजंगमः
कच्छपश्चापकुण्डश्च तक्षकश्च महोरगः

१.११४.६२आययुस्तेजसा युक्ता महाक्रोधा महाबलाः
एते चान्ये च बहवस्तत्र नागा व्यवस्थिताः

१.११४.६३तार्क्ष्यश्चारिष्टनेमिश्च गरुडश्चासितध्वजः
अरुणश्चारुणिश्चैव वैनतेया व्यवस्थिताः

१.११४.६४तद्दृष्ट्वा महदाश्चर्यं विस्मिता मुनिसत्तमाः
अधिकां स्म ततो वृत्तिमवर्तन्पाण्डवान्प्रति

१.११४.६५पाण्डुस्तु पुनरेवैनां पुत्रलोभान्महायशाः
प्राहिणोद्दर्शनीयाङ्गीं कुन्ती त्वेनमथाब्रवीत्

१.११४.६६नातश्चतुर्थं प्रसवमापत्स्वपि वदन्त्युत
अतः परं चारिणी स्यात्पञ्चमे बन्धकी भवेत्

१.११४.६७स त्वं विद्वन्धर्ममिमं बुद्धिगम्यं कथं नु माम्
अपत्यार्थं समुत्क्रम्य प्रमादादिव भाषसे