१.११५.१वैशंपायन उवाच
१.११५.२कुन्तीपुत्रेषु जातेषु धृतराष्ट्रात्मजेषु च
मद्रराजसुता पाण्डुं रहो वचनमब्रवीत्
१.११५.३न मेऽस्ति त्वयि संतापो विगुणेऽपि परंतप
नावरत्वे वरार्हायाः स्थित्वा चानघ नित्यदा
१.११५.४गान्धार्याश्चैव नृपते जातं पुत्रशतं तथा
श्रुत्वा न मे तथा दुःखमभवत्कुरुनन्दन
१.११५.५इदं तु मे महद्दुःखं तुल्यतायामपुत्रता
दिष्ट्या त्विदानीं भर्तुर्मे कुन्त्यामप्यस्ति संततिः
१.११५.६यदि त्वपत्यसंतानं कुन्तिराजसुता मयि
कुर्यादनुग्रहो मे स्यात्तव चापि हितं भवेत्
१.११५.७स्तम्भो हि मे सपत्नीत्वाद्वक्तुं कुन्तिसुतां प्रति
यदि तु त्वं प्रसन्नो मे स्वयमेनां प्रचोदय
१.११५.८पाण्डुरुवाच
१.११५.९ममाप्येष सदा माद्रि हृद्यर्थः परिवर्तते
न तु त्वां प्रसहे वक्तुमिष्टानिष्टविवक्षया
१.११५.१०तव त्विदं मतं ज्ञात्वा प्रयतिष्याम्यतः परम्
मन्ये ध्रुवं मयोक्ता सा वचो मे प्रतिपत्स्यते
१.११५.११वैशंपायन उवाच
१.११५.१२ततः कुन्तीं पुनः पाण्डुर्विविक्त इदमब्रवीत्
कुलस्य मम संतानं लोकस्य च कुरु प्रियम्
१.११५.१३मम चापिण्डनाशाय पूर्वेषामपि चात्मनः
मत्प्रियार्थं च कल्याणि कुरु कल्याणमुत्तमम्
१.११५.१४यशसोऽर्थाय चैव त्वं कुरु कर्म सुदुष्करम्
प्राप्याधिपत्यमिन्द्रेण यज्ञैरिष्टं यशोर्थिना
१.११५.१५तथा मन्त्रविदो विप्रास्तपस्तप्त्वा सुदुष्करम्
गुरूनभ्युपगच्छन्ति यशसोऽर्थाय भामिनि
१.११५.१६तथा राजर्षयः सर्वे ब्राह्मणाश्च तपोधनाः
चक्रुरुच्चावचं कर्म यशसोऽर्थाय दुष्करम्
१.११५.१७सा त्वं माद्रीं प्लवेनेव तारयेमामनिन्दिते
अपत्यसंविभागेन परां कीर्तिमवाप्नुहि
१.११५.१८एवमुक्ताब्रवीन्माद्रीं सकृच्चिन्तय दैवतम्
तस्मात्ते भवितापत्यमनुरूपमसंशयम्
१.११५.१९ततो माद्री विचार्यैव जगाम मनसाश्विनौ
तावागम्य सुतौ तस्यां जनयामासतुर्यमौ
१.११५.२०नकुलं सहदेवं च रूपेणाप्रतिमौ भुवि
तथैव तावपि यमौ वागुवाचाशरीरिणी
१.११५.२१रूपसत्त्वगुणोपेतावेतावन्याञ्जनानति
भासतस्तेजसात्यर्थं रूपद्रविणसंपदा
१.११५.२२नामानि चक्रिरे तेषां शतशृङ्गनिवासिनः
भक्त्या च कर्मणा चैव तथाशीर्भिर्विशां पते
१.११५.२३ज्येष्ठं युधिष्ठिरेत्याहुर्भीमसेनेति मध्यमम्
अर्जुनेति तृतीयं च कुन्तीपुत्रानकल्पयन्
१.११५.२४पूर्वजं नकुलेत्येवं सहदेवेति चापरम्
माद्रीपुत्रावकथयंस्ते विप्राः प्रीतमानसाः
अनुसंवत्सरं जाता अपि ते कुरुसत्तमाः
१.११५.२५कुन्तीमथ पुनः पाण्डुर्माद्र्यर्थे समचोदयत्
तमुवाच पृथा राजन्रहस्युक्ता सती सदा
१.११५.२६उक्ता सकृद्द्वन्द्वमेषा लेभे तेनास्मि वञ्चिता
बिभेम्यस्याः परिभवान्नारीणां गतिरीदृशी
१.११५.२७नाज्ञासिषमहं मूढा द्वन्द्वाह्वाने फलद्वयम्
तस्मान्नाहं नियोक्तव्या त्वयैषोऽस्तु वरो मम
१.११५.२८एवं पाण्डोः सुताः पञ्च देवदत्ता महाबलाः
संभूताः कीर्तिमन्तस्ते कुरुवंशविवर्धनाः
१.११५.२९शुभलक्षणसंपन्नाः सोमवत्प्रियदर्शनाः
सिंहदर्पा महेष्वासाः सिंहविक्रान्तगामिनः
सिंहग्रीवा मनुष्येन्द्रा ववृधुर्देवविक्रमाः
१.११५.३०विवर्धमानास्ते तत्र पुण्ये हैमवते गिरौ
विस्मयं जनयामासुर्महर्षीणां समेयुषाम्
१.११५.३१ते च पञ्च शतं चैव कुरुवंशविवर्धनाः
सर्वे ववृधुरल्पेन कालेनाप्स्विव नीरजाः