१. आदिपर्व
१.११६.१वैशंपायन उवाच

१.११६.२दर्शनीयांस्ततः पुत्रान्पाण्डुः पञ्च महावने
तान्पश्यन्पर्वते रेमे स्वबाहुबलपालितान्

१.११६.३सुपुष्पितवने काले कदाचिन्मधुमाधवे
भूतसंमोहने राजा सभार्यो व्यचरद्वनम्

१.११६.४पलाशैस्तिलकैश्चूतैश्चम्पकैः पारिभद्रकैः
अन्यैश्च बहुभिर्वृक्षैः फलपुष्पसमृद्धिभिः

१.११६.५जलस्थानैश्च विविधैः पद्मिनीभिश्च शोभितम्
पाण्डोर्वनं तु संप्रेक्ष्य प्रजज्ञे हृदि मन्मथः

१.११६.६प्रहृष्टमनसं तत्र विहरन्तं यथामरम्
तं माद्र्यनुजगामैका वसनं बिभ्रती शुभम्

१.११६.७समीक्षमाणः स तु तां वयःस्थां तनुवाससम्
तस्य कामः प्रववृधे गहनेऽग्निरिवोत्थितः

१.११६.८रहस्यात्मसमां दृष्ट्वा राजा राजीवलोचनाम्
न शशाक नियन्तुं तं कामं कामबलात्कृतः

१.११६.९तत एनां बलाद्राजा निजग्राह रहोगताम्
वार्यमाणस्तया देव्या विस्फुरन्त्या यथाबलम्

१.११६.१०स तु कामपरीतात्मा तं शापं नान्वबुध्यत
माद्रीं मैथुनधर्मेण गच्छमानो बलादिव

१.११६.११जीवितान्ताय कौरव्यो मन्मथस्य वशं गतः
शापजं भयमुत्सृज्य जगामैव बलात्प्रियाम्

१.११६.१२तस्य कामात्मनो बुद्धिः साक्षात्कालेन मोहिता
संप्रमथ्येन्द्रियग्रामं प्रनष्टा सह चेतसा

१.११६.१३स तया सह संगम्य भार्यया कुरुनन्दन
पाण्डुः परमधर्मात्मा युयुजे कालधर्मणा

१.११६.१४ततो माद्री समालिङ्ग्य राजानं गतचेतसम्
मुमोच दुःखजं शब्दं पुनः पुनरतीव ह

१.११६.१५सह पुत्रैस्ततः कुन्ती माद्रीपुत्रौ च पाण्डवौ
आजग्मुः सहितास्तत्र यत्र राजा तथागतः

१.११६.१६ततो माद्र्यब्रवीद्राजन्नार्ता कुन्तीमिदं वचः
एकैव त्वमिहागच्छ तिष्ठन्त्वत्रैव दारकाः

१.११६.१७तच्छ्रुत्वा वचनं तस्यास्तत्रैवावार्य दारकान्
हताहमिति विक्रुश्य सहसोपजगाम ह

१.११६.१८दृष्ट्वा पाण्डुं च माद्रीं च शयानौ धरणीतले
कुन्ती शोकपरीताङ्गी विललाप सुदुःखिता

१.११६.१९रक्ष्यमाणो मया नित्यं वीरः सततमात्मवान्
कथं त्वमभ्यतिक्रान्तः शापं जानन्वनौकसः

१.११६.२०ननु नाम त्वया माद्रि रक्षितव्यो जनाधिपः
सा कथं लोभितवती विजने त्वं नराधिपम्

१.११६.२१कथं दीनस्य सततं त्वामासाद्य रहोगताम्
तं विचिन्तयतः शापं प्रहर्षः समजायत

१.११६.२२धन्या त्वमसि बाह्लीकि मत्तो भाग्यतरा तथा
दृष्टवत्यसि यद्वक्त्रं प्रहृष्टस्य महीपतेः

१.११६.२३माद्र्युवाच

१.११६.२४विलोभ्यमानेन मया वार्यमाणेन चासकृत्
आत्मा न वारितोऽनेन सत्यं दिष्टं चिकीर्षुणा

१.११६.२५कुन्त्युवाच

१.११६.२६अहं ज्येष्ठा धर्मपत्नी ज्येष्ठं धर्मफलं मम
अवश्यं भाविनो भावान्मा मां माद्रि निवर्तय

१.११६.२७अन्वेष्यामीह भर्तारमहं प्रेतवशं गतम्
उत्तिष्ठ त्वं विसृज्यैनमिमान्रक्षस्व दारकान्

१.११६.२८माद्र्युवाच

१.११६.२९अहमेवानुयास्यामि भर्तारमपलायिनम्
न हि तृप्तास्मि कामानां तज्ज्येष्ठा अनुमन्यताम्

१.११६.३०मां चाभिगम्य क्षीणोऽयं कामाद्भरतसत्तमः
तमुच्छिन्द्यामस्य कामं कथं नु यमसादने

१.११६.३१न चाप्यहं वर्तयन्ती निर्विशेषं सुतेषु ते
वृत्तिमार्ये चरिष्यामि स्पृशेदेनस्तथा हि माम्

१.११६.३२तस्मान्मे सुतयोः कुन्ति वर्तितव्यं स्वपुत्रवत्
मां हि कामयमानोऽयं राजा प्रेतवशं गतः

१.११६.३३राज्ञः शरीरेण सह ममापीदं कलेवरम्
दग्धव्यं सुप्रतिच्छन्नमेतदार्ये प्रियं कुरु

१.११६.३४दारकेष्वप्रमत्ता च भवेथाश्च हिता मम
अतोऽन्यन्न प्रपश्यामि संदेष्टव्यं हि किंचन

१.११६.३५वैशंपायन उवाच

१.११६.३६इत्युक्त्वा तं चिताग्निस्थं धर्मपत्नी नरर्षभम्
मद्रराजात्मजा तूर्णमन्वारोहद्यशस्विनी