१.१२२.१वैशंपायन उवाच
१.१२२.२ततो द्रुपदमासाद्य भारद्वाजः प्रतापवान्
अब्रवीत्पार्षतं राजन्सखायं विद्धि मामिति
१.१२२.३द्रुपद उवाच
१.१२२.४अकृतेयं तव प्रज्ञा ब्रह्मन्नातिसमञ्जसी
यन्मां ब्रवीषि प्रसभं सखा तेऽहमिति द्विज
१.१२२.५न हि राज्ञामुदीर्णानामेवंभूतैर्नरैः क्वचित्
सख्यं भवति मन्दात्मञ्श्रिया हीनैर्धनच्युतैः
१.१२२.६सौहृदान्यपि जीर्यन्ते कालेन परिजीर्यताम्
सौहृदं मे त्वया ह्यासीत्पूर्वं सामर्थ्यबन्धनम्
१.१२२.७न सख्यमजरं लोके जातु दृश्येत कर्हिचित्
कामो वैनं विहरति क्रोधश्चैनं प्रवृश्चति
१.१२२.८मैवं जीर्णमुपासिष्ठाः सख्यं नवमुपाकुरु
आसीत्सख्यं द्विजश्रेष्ठ त्वया मेऽर्थनिबन्धनम्
१.१२२.९न दरिद्रो वसुमतो नाविद्वान्विदुषः सखा
शूरस्य न सखा क्लीबः सखिपूर्वं किमिष्यते
१.१२२.१०ययोरेव समं वित्तं ययोरेव समं कुलम्
तयोः सख्यं विवाहश्च न तु पुष्टविपुष्टयोः
१.१२२.११नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा
नाराज्ञा संगतं राज्ञः सखिपूर्वं किमिष्यते
१.१२२.१२वैशंपायन उवाच
१.१२२.१३द्रुपदेनैवमुक्तस्तु भारद्वाजः प्रतापवान्
मुहूर्तं चिन्तयामास मन्युनाभिपरिप्लुतः
१.१२२.१४स विनिश्चित्य मनसा पाञ्चालं प्रति बुद्धिमान्
जगाम कुरुमुख्यानां नगरं नागसाह्वयम्
१.१२२.१५कुमारास्त्वथ निष्क्रम्य समेता गजसाह्वयात्
क्रीडन्तो वीटया तत्र वीराः पर्यचरन्मुदा
१.१२२.१६पपात कूपे सा वीटा तेषां वै क्रीडतां तदा
न च ते प्रत्यपद्यन्त कर्म वीटोपलब्धये
१.१२२.१७अथ द्रोणः कुमारांस्तान्दृष्ट्वा कृत्यवतस्तदा
प्रहस्य मन्दं पैशल्यादभ्यभाषत वीर्यवान्
१.१२२.१८अहो नु धिग्बलं क्षात्रं धिगेतां वः कृतास्त्रताम्
भरतस्यान्वये जाता ये वीटां नाधिगच्छत
१.१२२.१९एष मुष्टिरिषीकाणां मयास्त्रेणाभिमन्त्रितः
अस्य वीर्यं निरीक्षध्वं यदन्यस्य न विद्यते
१.१२२.२०वेत्स्यामीषीकया वीटां तामिषीकामथान्यया
तामन्यया समायोगो वीटाया ग्रहणे मम
१.१२२.२१तदपश्यन्कुमारास्ते विस्मयोत्फुल्ललोचनाः
अवेष्क्य चोद्धृतां वीटां वीटावेद्धारमब्रुवन्
१.१२२.२२अभिवादयामहे ब्रह्मन्नैतदन्येषु विद्यते
कोऽसि कं त्वाभिजानीमो वयं किं करवामहे
१.१२२.२३द्रोण उवाच
१.१२२.२४आचक्षध्वं च भीष्माय रूपेण च गुणैश्च माम्
स एव सुमहाबुद्धिः सांप्रतं प्रतिपत्स्यते
१.१२२.२५वैशंपायन उवाच
१.१२२.२६तथेत्युक्त्वा तु ते सर्वे भीष्ममूचुः पितामहम्
ब्राह्मणस्य वचस्तथ्यं तच्च कर्मविशेषवत्
१.१२२.२७भीष्मः श्रुत्वा कुमाराणां द्रोणं तं प्रत्यजानत
युक्तरूपः स हि गुरुरित्येवमनुचिन्त्य च
१.१२२.२८अथैनमानीय तदा स्वयमेव सुसत्कृतम्
परिपप्रच्छ निपुणं भीष्मः शस्त्रभृतां वरः
हेतुमागमने तस्य द्रोणः सर्वं न्यवेदयत्
१.१२२.२९महर्षेरग्निवेश्यस्य सकाशमहमच्युत
अस्त्रार्थमगमं पूर्वं धनुर्वेदजिघृक्षया
१.१२२.३०ब्रह्मचारी विनीतात्मा जटिलो बहुलाः समाः
अवसं तत्र सुचिरं धनुर्वेदचिकीर्षया
१.१२२.३१पाञ्चालराजपुत्रस्तु यज्ञसेनो महाबलः
मया सहाकरोद्विद्यां गुरोः श्राम्यन्समाहितः
१.१२२.३२स मे तत्र सखा चासीदुपकारी प्रियश्च मे
तेनाहं सह संगम्य रतवान्सुचिरं बत
बाल्यात्प्रभृति कौरव्य सहाध्ययनमेव च
१.१२२.३३स समासाद्य मां तत्र प्रियकारी प्रियंवदः
अब्रवीदिति मां भीष्म वचनं प्रीतिवर्धनम्
१.१२२.३४अहं प्रियतमः पुत्रः पितुर्द्रोण महात्मनः
अभिषेक्ष्यति मां राज्ये स पाञ्चाल्यो यदा तदा
१.१२२.३५त्वद्भोज्यं भविता राज्यं सखे सत्येन ते शपे
मम भोगाश्च वित्तं च त्वदधीनं सुखानि च
१.१२२.३६एवमुक्तः प्रवव्राज कृतास्त्रोऽहं धनेप्सया
अभिषिक्तं च श्रुत्वैनं कृतार्थोऽस्मीति चिन्तयन्
१.१२२.३७प्रियं सखायं सुप्रीतो राज्यस्थं पुनराव्रजम्
संस्मरन्संगमं चैव वचनं चैव तस्य तत्
१.१२२.३८ततो द्रुपदमागम्य सखिपूर्वमहं प्रभो
अब्रुवं पुरुषव्याघ्र सखायं विद्धि मामिति
१.१२२.३९उपस्थितं तु द्रुपदः सखिवच्चाभिसंगतम्
स मां निराकारमिव प्रहसन्निदमब्रवीत्
१.१२२.४०अकृतेयं तव प्रज्ञा ब्रह्मन्नातिसमञ्जसी
यदात्थ मां त्वं प्रसभं सखा तेऽहमिति द्विज
१.१२२.४१न हि राज्ञामुदीर्णानामेवंभूतैर्नरैः क्वचित्
सख्यं भवति मन्दात्मञ्श्रिया हीनैर्धनच्युतैः
१.१२२.४२नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा
नाराजा पार्थिवस्यापि सखिपूर्वं किमिष्यते
१.१२२.४३द्रुपदेनैवमुक्तोऽहं मन्युनाभिपरिप्लुतः
अभ्यागच्छं कुरून्भीष्म शिष्यैरर्थी गुणान्वितैः
१.१२२.४४प्रतिजग्राह तं भीष्मो गुरुं पाण्डुसुतैः सह
पौत्रानादाय तान्सर्वान्वसूनि विविधानि च
१.१२२.४५शिष्या इति ददौ राजन्द्रोणाय विधिपूर्वकम्
स च शिष्यान्महेष्वासः प्रतिजग्राह कौरवान्
१.१२२.४६प्रतिगृह्य च तान्सर्वान्द्रोणो वचनमब्रवीत्
रहस्येकः प्रतीतात्मा कृतोपसदनांस्तदा
१.१२२.४७कार्यं मे काङ्क्षितं किंचिद्धृदि संपरिवर्तते
कृतास्त्रैस्तत्प्रदेयं मे तदृतं वदतानघाः
१.१२२.४८तच्छ्रुत्वा कौरवेयास्ते तूष्णीमासन्विशां पते
अर्जुनस्तु ततः सर्वं प्रतिजज्ञे परंतपः
१.१२२.४९ततोऽर्जुनं मूर्ध्नि तदा समाघ्राय पुनः पुनः
प्रीतिपूर्वं परिष्वज्य प्ररुरोद मुदा तदा
१.१२२.५०ततो द्रोणः पाण्डुपुत्रानस्त्राणि विविधानि च
ग्राहयामास दिव्यानि मानुषाणि च वीर्यवान्
१.१२२.५१राजपुत्रास्तथैवान्ये समेत्य भरतर्षभ
अभिजग्मुस्ततो द्रोणमस्त्रार्थे द्विजसत्तमम्
वृष्णयश्चान्धकाश्चैव नानादेश्याश्च पार्थिवाः
१.१२२.५२सूतपुत्रश्च राधेयो गुरुं द्रोणमियात्तदा
स्पर्धमानस्तु पार्थेन सूतपुत्रोऽत्यमर्षणः
दुर्योधनमुपाश्रित्य पाण्डवानत्यमन्यत