१.१२३.१वैशंपायन उवाच
१.१२३.२अर्जुनस्तु परं यत्नमातस्थे गुरुपूजने
अस्त्रे च परमं योगं प्रियो द्रोणस्य चाभवत्
१.१२३.३द्रोणेन तु तदाहूय रहस्युक्तोऽन्नसाधकः
अन्धकारेऽर्जुनायान्नं न देयं ते कथंचन
१.१२३.४ततः कदाचिद्भुञ्जाने प्रववौ वायुरर्जुने
तेन तत्र प्रदीपः स दीप्यमानो निवापितः
१.१२३.५भुङ्क्त एवार्जुनो भक्तं न चास्यास्याद्व्यमुह्यत
हस्तस्तेजस्विनो नित्यमन्नग्रहणकारणात्
तदभ्यासकृतं मत्वा रात्रावभ्यस्त पाण्डवः
१.१२३.६तस्य ज्यातलनिर्घोषं द्रोणः शुश्राव भारत
उपेत्य चैनमुत्थाय परिष्वज्येदमब्रवीत्
१.१२३.७प्रयतिष्ये तथा कर्तुं यथा नान्यो धनुर्धरः
त्वत्समो भविता लोके सत्यमेतद्ब्रवीमि ते
१.१२३.८ततो द्रोणोऽर्जुनं भूयो रथेषु च गजेषु च
अश्वेषु भूमावपि च रणशिक्षामशिक्षयत्
१.१२३.९गदायुद्धेऽसिचर्यायां तोमरप्रासशक्तिषु
द्रोणः संकीर्णयुद्धेषु शिक्षयामास पाण्डवम्
१.१२३.१०तस्य तत्कौशलं दृष्ट्वा धनुर्वेदजिघृक्षवः
राजानो राजपुत्राश्च समाजग्मुः सहस्रशः
१.१२३.११ततो निषादराजस्य हिरण्यधनुषः सुतः
एकलव्यो महाराज द्रोणमभ्याजगाम ह
१.१२३.१२न स तं प्रतिजग्राह नैषादिरिति चिन्तयन्
शिष्यं धनुषि धर्मज्ञस्तेषामेवान्ववेक्षया
१.१२३.१३स तु द्रोणस्य शिरसा पादौ गृह्य परंतपः
अरण्यमनुसंप्राप्तः कृत्वा द्रोणं महीमयम्
१.१२३.१४तस्मिन्नाचार्यवृत्तिं च परमामास्थितस्तदा
इष्वस्त्रे योगमातस्थे परं नियममास्थितः
१.१२३.१५परया श्रद्धया युक्तो योगेन परमेण च
विमोक्षादानसंधाने लघुत्वं परमाप सः
१.१२३.१६अथ द्रोणाभ्यनुज्ञाताः कदाचित्कुरुपाण्डवाः
रथैर्विनिर्ययुः सर्वे मृगयामरिमर्दनाः
१.१२३.१७तत्रोपकरणं गृह्य नरः कश्चिद्यदृच्छया
राजन्ननुजगामैकः श्वानमादाय पाण्डवान्
१.१२३.१८तेषां विचरतां तत्र तत्तत्कर्म चिकीर्षताम्
श्वा चरन्स वने मूढो नैषादिं प्रति जग्मिवान्
१.१२३.१९स कृष्णं मलदिग्धाङ्गं कृष्णाजिनधरं वने
नैषादिं श्वा समालक्ष्य भषंस्तस्थौ तदन्तिके
१.१२३.२०तदा तस्याथ भषतः शुनः सप्त शरान्मुखे
लाघवं दर्शयन्नस्त्रे मुमोच युगपद्यथा
१.१२३.२१स तु श्वा शरपूर्णास्यः पाण्डवानाजगाम ह
तं दृष्ट्वा पाण्डवा वीरा विस्मयं परमं ययुः
१.१२३.२२लाघवं शब्दवेधित्वं दृष्ट्वा तत्परमं तदा
प्रेक्ष्य तं व्रीडिताश्चासन्प्रशशंसुश्च सर्वशः
१.१२३.२३तं ततोऽन्वेषमाणास्ते वने वननिवासिनम्
ददृशुः पाण्डवा राजन्नस्यन्तमनिशं शरान्
१.१२३.२४न चैनमभ्यजानंस्ते तदा विकृतदर्शनम्
अथैनं परिपप्रच्छुः को भवान्कस्य वेत्युत
१.१२३.२५एकलव्य उवाच
१.१२३.२६निषादाधिपतेर्वीरा हिरण्यधनुषः सुतम्
द्रोणशिष्यं च मां वित्त धनुर्वेदकृतश्रमम्
१.१२३.२७वैशंपायन उवाच
१.१२३.२८ते तमाज्ञाय तत्त्वेन पुनरागम्य पाण्डवाः
यथावृत्तं च ते सर्वं द्रोणायाचख्युरद्भुतम्
१.१२३.२९कौन्तेयस्त्वर्जुनो राजन्नेकलव्यमनुस्मरन्
रहो द्रोणं समागम्य प्रणयादिदमब्रवीत्
१.१२३.३०नन्वहं परिरभ्यैकः प्रीतिपूर्वमिदं वचः
भवतोक्तो न मे शिष्यस्त्वद्विशिष्टो भविष्यति
१.१२३.३१अथ कस्मान्मद्विशिष्टो लोकादपि च वीर्यवान्
अस्त्यन्यो भवतः शिष्यो निषादाधिपतेः सुतः
१.१२३.३२मुहूर्तमिव तं द्रोणश्चिन्तयित्वा विनिश्चयम्
सव्यसाचिनमादाय नैषादिं प्रति जग्मिवान्
१.१२३.३३ददर्श मलदिग्धाङ्गं जटिलं चीरवाससम्
एकलव्यं धनुष्पाणिमस्यन्तमनिशं शरान्
१.१२३.३४एकलव्यस्तु तं दृष्ट्वा द्रोणमायान्तमन्तिकात्
अभिगम्योपसंगृह्य जगाम शिरसा महीम्
१.१२३.३५पूजयित्वा ततो द्रोणं विधिवत्स निषादजः
निवेद्य शिष्यमात्मानं तस्थौ प्राञ्जलिरग्रतः
१.१२३.३६ततो द्रोणोऽब्रवीद्राजन्नेकलव्यमिदं वचः
यदि शिष्योऽसि मे तूर्णं वेतनं संप्रदीयताम्
१.१२३.३७एकलव्यस्तु तच्छ्रुत्वा प्रीयमाणोऽब्रवीदिदम्
किं प्रयच्छामि भगवन्नाज्ञापयतु मां गुरुः
१.१२३.३८न हि किंचिददेयं मे गुरवे ब्रह्मवित्तम
तमब्रवीत्त्वयाङ्गुष्ठो दक्षिणो दीयतां मम
१.१२३.३९एकलव्यस्तु तच्छ्रुत्वा वचो द्रोणस्य दारुणम्
प्रतिज्ञामात्मनो रक्षन्सत्ये च निरतः सदा
१.१२३.४०तथैव हृष्टवदनस्तथैवादीनमानसः
छित्त्वाविचार्य तं प्रादाद्द्रोणायाङ्गुष्ठमात्मनः
१.१२३.४१ततः परं तु नैषादिरङ्गुलीभिर्व्यकर्षत
न तथा स तु शीघ्रोऽभूद्यथा पूर्वं नराधिप
१.१२३.४२ततोऽर्जुनः प्रीतमना बभूव विगतज्वरः
द्रोणश्च सत्यवागासीन्नान्योऽभ्यभवदर्जुनम्
१.१२३.४३द्रोणस्य तु तदा शिष्यौ गदायोग्यां विशेषतः
दुर्योधनश्च भीमश्च कुरूणामभ्यगच्छताम्
१.१२३.४४अश्वत्थामा रहस्येषु सर्वेष्वभ्यधिकोऽभवत्
तथाति पुरुषानन्यान्त्सारुकौ यमजावुभौ
युधिष्ठिरो रथश्रेष्ठः सर्वत्र तु धनंजयः
१.१२३.४५प्रथितः सागरान्तायां रथयूथपयूथपः
बुद्धियोगबलोत्साहैः सर्वास्त्रेषु च पाण्डवः
१.१२३.४६अस्त्रे गुर्वनुरागे च विशिष्टोऽभवदर्जुनः
तुल्येष्वस्त्रोपदेशेषु सौष्ठवेन च वीर्यवान्
एकः सर्वकुमाराणां बभूवातिरथोऽर्जुनः
१.१२३.४७प्राणाधिकं भीमसेनं कृतविद्यं धनंजयम्
धार्तराष्ट्रा दुरात्मानो नामृष्यन्त नराधिप
१.१२३.४८तांस्तु सर्वान्समानीय सर्वविद्यासु निष्ठितान्
द्रोणः प्रहरणज्ञाने जिज्ञासुः पुरुषर्षभ
१.१२३.४९कृत्रिमं भासमारोप्य वृक्षाग्रे शिल्पिभिः कृतम्
अविज्ञातं कुमाराणां लक्ष्यभूतमुपादिशत्
१.१२३.५०द्रोण उवाच
१.१२३.५१शीघ्रं भवन्तः सर्वे वै धनूंष्यादाय सत्वराः
भासमेतं समुद्दिश्य तिष्ठन्तां संहितेषवः
१.१२३.५२मद्वाक्यसमकालं च शिरोऽस्य विनिपात्यताम्
एकैकशो नियोक्ष्यामि तथा कुरुत पुत्रकाः
१.१२३.५३वैशंपायन उवाच
१.१२३.५४ततो युधिष्ठिरं पूर्वमुवाचाङ्गिरसां वरः
संधत्स्व बाणं दुर्धर्ष मद्वाक्यान्ते विमुञ्च च
१.१२३.५५ततो युधिष्ठिरः पूर्वं धनुर्गृह्य महारवम्
तस्थौ भासं समुद्दिश्य गुरुवाक्यप्रचोदितः
१.१२३.५६ततो विततधन्वानं द्रोणस्तं कुरुनन्दनम्
स मुहूर्तादुवाचेदं वचनं भरतर्षभ
१.१२३.५७पश्यस्येनं द्रुमाग्रस्थं भासं नरवरात्मज
पश्यामीत्येवमाचार्यं प्रत्युवाच युधिष्ठिरः
१.१२३.५८स मुहूर्तादिव पुनर्द्रोणस्तं प्रत्यभाषत
अथ वृक्षमिमं मां वा भ्रातॄन्वापि प्रपश्यसि
१.१२३.५९तमुवाच स कौन्तेयः पश्याम्येनं वनस्पतिम्
भवन्तं च तथा भ्रातॄन्भासं चेति पुनः पुनः
१.१२३.६०तमुवाचापसर्पेति द्रोणोऽप्रीतमना इव
नैतच्छक्यं त्वया वेद्धुं लक्ष्यमित्येव कुत्सयन्
१.१२३.६१ततो दुर्योधनादींस्तान्धार्तराष्ट्रान्महायशाः
तेनैव क्रमयोगेन जिज्ञासुः पर्यपृच्छत
१.१२३.६२अन्यांश्च शिष्यान्भीमादीन्राज्ञश्चैवान्यदेशजान्
तथा च सर्वे सर्वं तत्पश्याम इति कुत्सिताः
१.१२३.६३ततो धनंजयं द्रोणः स्मयमानोऽभ्यभाषत
त्वयेदानीं प्रहर्तव्यमेतल्लक्ष्यं निशम्यताम्
१.१२३.६४मद्वाक्यसमकालं ते मोक्तव्योऽत्र भवेच्छरः
वितत्य कार्मुकं पुत्र तिष्ठ तावन्मुहूर्तकम्
१.१२३.६५एवमुक्तः सव्यसाची मण्डलीकृतकार्मुकः
तस्थौ लक्ष्यं समुद्दिश्य गुरुवाक्यप्रचोदितः
१.१२३.६६मुहूर्तादिव तं द्रोणस्तथैव समभाषत
पश्यस्येनं स्थितं भासं द्रुमं मामपि वेत्युत
१.१२३.६७पश्याम्येनं भासमिति द्रोणं पार्थोऽभ्यभाषत
न तु वृक्षं भवन्तं वा पश्यामीति च भारत
१.१२३.६८ततः प्रीतमना द्रोणो मुहूर्तादिव तं पुनः
प्रत्यभाषत दुर्धर्षः पाण्डवानां रथर्षभम्
१.१२३.६९भासं पश्यसि यद्येनं तथा ब्रूहि पुनर्वचः
शिरः पश्यामि भासस्य न गात्रमिति सोऽब्रवीत्
१.१२३.७०अर्जुनेनैवमुक्तस्तु द्रोणो हृष्टतनूरुहः
मुञ्चस्वेत्यब्रवीत्पार्थं स मुमोचाविचारयन्
१.१२३.७१ततस्तस्य नगस्थस्य क्षुरेण निशितेन ह
शिर उत्कृत्य तरसा पातयामास पाण्डवः
१.१२३.७२तस्मिन्कर्मणि संसिद्धे पर्यश्वजत फल्गुनम्
मेने च द्रुपदं संख्ये सानुबन्धं पराजितम्
१.१२३.७३कस्यचित्त्वथ कालस्य सशिष्योऽङ्गिरसां वरः
जगाम गङ्गामभितो मज्जितुं भरतर्षभ
१.१२३.७४अवगाढमथो द्रोणं सलिले सलिलेचरः
ग्राहो जग्राह बलवाञ्जङ्घान्ते कालचोदितः
१.१२३.७५स समर्थोऽपि मोक्षाय शिष्यान्सर्वानचोदयत्
ग्राहं हत्वा मोक्षयध्वं मामिति त्वरयन्निव
१.१२३.७६तद्वाक्यसमकालं तु बीभत्सुर्निशितैः शरैः
आवापैः पञ्चभिर्ग्राहं मग्नमम्भस्यताडयत्
इतरे तु विसंमूढास्तत्र तत्र प्रपेदिरे
१.१२३.७७तं च दृष्ट्वा क्रियोपेतं द्रोणोऽमन्यत पाण्डवम्
विशिष्टं सर्वशिष्येभ्यः प्रीतिमांश्चाभवत्तदा
१.१२३.७८स पार्थबाणैर्बहुधा खण्डशः परिकल्पितः
ग्राहः पञ्चत्वमापेदे जङ्घां त्यक्त्वा महात्मनः
१.१२३.७९अथाब्रवीन्महात्मानं भारद्वाजो महारथम्
गृहाणेदं महाबाहो विशिष्टमतिदुर्धरम्
अस्त्रं ब्रह्मशिरो नाम सप्रयोगनिवर्तनम्
१.१२३.८०न च ते मानुषेष्वेतत्प्रयोक्तव्यं कथंचन
जगद्विनिर्दहेदेतदल्पतेजसि पातितम्
१.१२३.८१असामान्यमिदं तात लोकेष्वस्त्रं निगद्यते
तद्धारयेथाः प्रयतः शृणु चेदं वचो मम
१.१२३.८२बाधेतामानुषः शत्रुर्यदा त्वां वीर कश्चन
तद्वधाय प्रयुञ्जीथास्तदास्त्रमिदमाहवे
१.१२३.८३तथेति तत्प्रतिश्रुत्य बीभत्सुः स कृताञ्जलिः
जग्राह परमास्त्रं तदाह चैनं पुनर्गुरुः
भविता त्वत्समो नान्यः पुमाँल्लोके धनुर्धरः