१.१३.१शौनक उवाच
१.१३.२किमर्थं राजशार्दूलः स राजा जनमेजयः
सर्पसत्रेण सर्पाणां गतोऽन्तं तद्वदस्व मे
१.१३.३आस्तीकश्च द्विजश्रेष्ठः किमर्थं जपतां वरः
मोक्षयामास भुजगान्दीप्तात्तस्माद्धुताशनात्
१.१३.४कस्य पुत्रः स राजासीत्सर्पसत्रं य आहरत्
स च द्विजातिप्रवरः कस्य पुत्रो वदस्व मे
१.१३.५सूत उवाच
१.१३.६महदाख्यानमास्तीकं यत्रैतत्प्रोच्यते द्विज
सर्वमेतदशेषेण शृणु मे वदतां वर
१.१३.७शौनक उवाच
१.१३.८श्रोतुमिच्छाम्यशेषेण कथामेतां मनोरमाम्
आस्तीकस्य पुराणस्य ब्राह्मणस्य यशस्विनः
१.१३.९सूत उवाच
१.१३.१०इतिहासमिमं वृद्धाः पुराणं परिचक्षते
कृष्णद्वैपायनप्रोक्तं नैमिषारण्यवासिनः
१.१३.११पूर्वं प्रचोदितः सूतः पिता मे लोमहर्षणः
शिष्यो व्यासस्य मेधावी ब्राह्मणैरिदमुक्तवान्
१.१३.१२तस्मादहमुपश्रुत्य प्रवक्ष्यामि यथातथम्
इदमास्तीकमाख्यानं तुभ्यं शौनक पृच्छते
१.१३.१३आस्तीकस्य पिता ह्यासीत्प्रजापतिसमः प्रभुः
ब्रह्मचारी यताहारस्तपस्युग्रे रतः सदा
१.१३.१४जरत्कारुरिति ख्यात ऊर्ध्वरेता महानृषिः
यायावराणां धर्मज्ञः प्रवरः संशितव्रतः
१.१३.१५अटमानः कदाचित्स स्वान्ददर्श पितामहान्
लम्बमानान्महागर्ते पादैरूर्ध्वैरधोमुखान्
१.१३.१६तानब्रवीत्स दृष्ट्वैव जरत्कारुः पितामहान्
के भवन्तोऽवलम्बन्ते गर्तेऽस्मिन्वा अधोमुखाः
१.१३.१७वीरणस्तम्बके लग्नाः सर्वतः परिभक्षिते
मूषकेन निगूढेन गर्तेऽस्मिन्नित्यवासिना
१.१३.१८पितर ऊचुः
१.१३.१९यायावरा नाम वयमृषयः संशितव्रताः
संतानप्रक्षयाद्ब्रह्मन्नधो गच्छाम मेदिनीम्
१.१३.२०अस्माकं संततिस्त्वेको जरत्कारुरिति श्रुतः
मन्दभाग्योऽल्पभाग्यानां तप एव समास्थितः
१.१३.२१न स पुत्राञ्जनयितुं दारान्मूढश्चिकीर्षति
तेन लम्बामहे गर्ते संतानप्रक्षयादिह
१.१३.२२अनाथास्तेन नाथेन यथा दुष्कृतिनस्तथा
कस्त्वं बन्धुरिवास्माकमनुशोचसि सत्तम
१.१३.२३ज्ञातुमिच्छामहे ब्रह्मन्को भवानिह धिष्ठितः
किमर्थं चैव नः शोच्याननुकम्पितुमर्हसि
१.१३.२४जरत्कारुरुवाच
१.१३.२५मम पूर्वे भवन्तो वै पितरः सपितामहाः
ब्रूत किं करवाण्यद्य जरत्कारुरहं स्वयम्
१.१३.२६पितर ऊचुः
१.१३.२७यतस्व यत्नवांस्तात संतानाय कुलस्य नः
आत्मनोऽर्थेऽस्मदर्थे च धर्म इत्येव चाभिभो
१.१३.२८न हि धर्मफलैस्तात न तपोभिः सुसंचितैः
तां गतिं प्राप्नुवन्तीह पुत्रिणो यां व्रजन्ति ह
१.१३.२९तद्दारग्रहणे यत्नं संतत्यां च मनः कुरु
पुत्रकास्मन्नियोगात्त्वमेतन्नः परमं हितम्
१.१३.३०जरत्कारुरुवाच
१.१३.३१न दारान्वै करिष्यामि सदा मे भावितं मनः
भवतां तु हितार्थाय करिष्ये दारसंग्रहम्
१.१३.३२समयेन च कर्ताहमनेन विधिपूर्वकम्
तथा यद्युपलप्स्यामि करिष्ये नान्यथा त्वहम्
१.१३.३३सनाम्नी या भवित्री मे दित्सिता चैव बन्धुभिः
भैक्षवत्तामहं कन्यामुपयंस्ये विधानतः
१.१३.३४दरिद्राय हि मे भार्यां को दास्यति विशेषतः
प्रतिग्रहीष्ये भिक्षां तु यदि कश्चित्प्रदास्यति
१.१३.३५एवं दारक्रियाहेतोः प्रयतिष्ये पितामहाः
अनेन विधिना शश्वन्न करिष्येऽहमन्यथा
१.१३.३६तत्र चोत्पत्स्यते जन्तुर्भवतां तारणाय वै
शाश्वतं स्थानमासाद्य मोदन्तां पितरो मम
१.१३.३७सूत उवाच
१.१३.३८ततो निवेशाय तदा स विप्रः संशितव्रतः
महीं चचार दारार्थी न च दारानविन्दत
१.१३.३९स कदाचिद्वनं गत्वा विप्रः पितृवचः स्मरन्
चुक्रोश कन्याभिक्षार्थी तिस्रो वाचः शनैरिव
१.१३.४०तं वासुकिः प्रत्यगृह्णादुद्यम्य भगिनीं तदा
न स तां प्रतिजग्राह न सनाम्नीति चिन्तयन्
१.१३.४१सनाम्नीमुद्यतां भार्यां गृह्णीयामिति तस्य हि
मनो निविष्टमभवज्जरत्कारोर्महात्मनः
१.१३.४२तमुवाच महाप्राज्ञो जरत्कारुर्महातपाः
किंनाम्नी भगिनीयं ते ब्रूहि सत्यं भुजंगम
१.१३.४३वासुकिरुवाच
१.१३.४४जरत्कारो जरत्कारुः स्वसेयमनुजा मम
त्वदर्थं रक्षिता पूर्वं प्रतीच्छेमां द्विजोत्तम
१.१३.४५सूत उवाच
१.१३.४६मात्रा हि भुजगाः शप्ताः पूर्वं ब्रह्मविदां वर
जनमेजयस्य वो यज्ञे धक्ष्यत्यनिलसारथिः
१.१३.४७तस्य शापस्य शान्त्यर्थं प्रददौ पन्नगोत्तमः
स्वसारमृषये तस्मै सुव्रताय तपस्विने
१.१३.४८स च तां प्रतिजग्राह विधिदृष्टेन कर्मणा
आस्तीको नाम पुत्रश्च तस्यां जज्ञे महात्मनः
१.१३.४९तपस्वी च महात्मा च वेदवेदाङ्गपारगः
समः सर्वस्य लोकस्य पितृमातृभयापहः
१.१३.५०अथ कालस्य महतः पाण्डवेयो नराधिपः
आजहार महायज्ञं सर्पसत्रमिति श्रुतिः
१.१३.५१तस्मिन्प्रवृत्ते सत्रे तु सर्पाणामन्तकाय वै
मोचयामास तं शापमास्तीकः सुमहायशाः
१.१३.५२नागांश्च मातुलांश्चैव तथा चान्यान्स बान्धवान्
पितॄंश्च तारयामास संतत्या तपसा तथा
व्रतैश्च विविधैर्ब्रह्मन्स्वाध्यायैश्चानृणोऽभवत्
१.१३.५३देवांश्च तर्पयामास यज्ञैर्विविधदक्षिणैः
ऋषींश्च ब्रह्मचर्येण संतत्या च पितामहान्
१.१३.५४अपहृत्य गुरुं भारं पितॄणां संशितव्रतः
जरत्कारुर्गतः स्वर्गं सहितः स्वैः पितामहैः
१.१३.५५आस्तीकं च सुतं प्राप्य धर्मं चानुत्तमं मुनिः
जरत्कारुः सुमहता कालेन स्वर्गमीयिवान्
१.१३.५६एतदाख्यानमास्तीकं यथावत्कीर्तितं मया
प्रब्रूहि भृगुशार्दूल किं भूयः कथ्यतामिति