१.१४.१शौनक उवाच
१.१४.२सौते कथय तामेतां विस्तरेण कथां पुनः
आस्तीकस्य कवेः साधोः शुश्रूषा परमा हि नः
१.१४.३मधुरं कथ्यते सौम्य श्लक्ष्णाक्षरपदं त्वया
प्रीयामहे भृशं तात पितेवेदं प्रभाषसे
१.१४.४अस्मच्छुश्रूषणे नित्यं पिता हि निरतस्तव
आचष्टैतद्यथाख्यानं पिता ते त्वं तथा वद
१.१४.५सूत उवाच
१.१४.६आयुष्यमिदमाख्यानमास्तीकं कथयामि ते
यथा श्रुतं कथयतः सकाशाद्वै पितुर्मया
१.१४.७पुरा देवयुगे ब्रह्मन्प्रजापतिसुते शुभे
आस्तां भगिन्यौ रूपेण समुपेतेऽद्भुतेऽनघे
१.१४.८ते भार्ये कश्यपस्यास्तां कद्रूश्च विनता च ह
प्रादात्ताभ्यां वरं प्रीतः प्रजापतिसमः पतिः
कश्यपो धर्मपत्नीभ्यां मुदा परमया युतः
१.१४.९वरातिसर्गं श्रुत्वैव कश्यपादुत्तमं च ते
हर्षादप्रतिमां प्रीतिं प्रापतुः स्म वरस्त्रियौ
१.१४.१०वव्रे कद्रूः सुतान्नागान्सहस्रं तुल्यतेजसः
द्वौ पुत्रौ विनता वव्रे कद्रूपुत्राधिकौ बले
ओजसा तेजसा चैव विक्रमेणाधिकौ सुतौ
१.१४.११तस्यै भर्ता वरं प्रादादध्यर्धं पुत्रमीप्सितम्
एवमस्त्विति तं चाह कश्यपं विनता तदा
१.१४.१२कृतकृत्या तु विनता लब्ध्वा वीर्याधिकौ सुतौ
कद्रूश्च लब्ध्वा पुत्राणां सहस्रं तुल्यतेजसाम्
१.१४.१३धार्यौ प्रयत्नतो गर्भावित्युक्त्वा स महातपाः
ते भार्ये वरसंहृष्टे कश्यपो वनमाविशत्
१.१४.१४कालेन महता कद्रूरण्डानां दशतीर्दश
जनयामास विप्रेन्द्र द्वे अण्डे विनता तदा
१.१४.१५तयोरण्डानि निदधुः प्रहृष्टाः परिचारिकाः
सोपस्वेदेषु भाण्डेषु पञ्च वर्षशतानि च
१.१४.१६ततः पञ्चशते काले कद्रूपुत्रा विनिःसृताः
अण्डाभ्यां विनतायास्तु मिथुनं न व्यदृश्यत
१.१४.१७ततः पुत्रार्थिणी देवी व्रीडिता सा तपस्विनी
अण्डं बिभेद विनता तत्र पुत्रमदृक्षत
१.१४.१८पूर्वार्धकायसंपन्नमितरेणाप्रकाशता
स पुत्रो रोषसंपन्नः शशापैनामिति श्रुतिः
१.१४.१९योऽहमेवं कृतो मातस्त्वया लोभपरीतया
शरीरेणासमग्रोऽद्य तस्माद्दासी भविष्यसि
१.१४.२०पञ्च वर्षशतान्यस्या यया विस्पर्धसे सह
एष च त्वां सुतो मातर्दास्यत्वान्मोक्षयिष्यति
१.१४.२१यद्येनमपि मातस्त्वं मामिवाण्डविभेदनात्
न करिष्यस्यदेहं वा व्यङ्गं वापि तपस्विनम्
१.१४.२२प्रतिपालयितव्यस्ते जन्मकालोऽस्य धीरया
विशिष्टबलमीप्सन्त्या पञ्चवर्षशतात्परः
१.१४.२३एवं शप्त्वा ततः पुत्रो विनतामन्तरिक्षगः
अरुणो दृश्यते ब्रह्मन्प्रभातसमये सदा
१.१४.२४गरुडोऽपि यथाकालं जज्ञे पन्नगसूदनः
स जातमात्रो विनतां परित्यज्य खमाविशत्
१.१४.२५आदास्यन्नात्मनो भोज्यमन्नं विहितमस्य यत्
विधात्रा भृगुशार्दूल क्षुधितस्य बुभुक्षतः