१.१३९.१वैशंपायन उवाच
१.१३९.२तत्र तेषु शयानेषु हिडिम्बो नाम राक्षसः
अविदूरे वनात्तस्माच्छालवृक्षमुपाश्रितः
१.१३९.३क्रूरो मानुषमांसादो महावीर्यो महाबलः
विरूपरूपः पिङ्गाक्षः करालो घोरदर्शनः
पिशितेप्सुः क्षुधार्तस्तानपश्यत यदृच्छया
१.१३९.४ऊर्ध्वाङ्गुलिः स कण्डूयन्धुन्वन्रूक्षाञ्शिरोरुहान्
जृम्भमाणो महावक्त्रः पुनः पुनरवेक्ष्य च
१.१३९.५दुष्टो मानुषमांसादो महाकायो महाबलः
आघ्राय मानुषं गन्धं भगिनीमिदमब्रवीत्
१.१३९.६उपपन्नश्चिरस्याद्य भक्षो मम मनःप्रियः
स्नेहस्रवान्प्रस्रवति जिह्वा पर्येति मे मुखम्
१.१३९.७अष्टौ दंष्ट्राः सुतीक्ष्णाग्राश्चिरस्यापातदुःसहाः
देहेषु मज्जयिष्यामि स्निग्धेषु पिशितेषु च
१.१३९.८आक्रम्य मानुषं कण्ठमाच्छिद्य धमनीमपि
उष्णं नवं प्रपास्यामि फेनिलं रुधिरं बहु
१.१३९.९गच्छ जानीहि के त्वेते शेरते वनमाश्रिताः
मानुषो बलवान्गन्धो घ्राणं तर्पयतीव मे
१.१३९.१०हत्वैतान्मानुषान्सर्वानानयस्व ममान्तिकम्
अस्मद्विषयसुप्तेभ्यो नैतेभ्यो भयमस्ति ते
१.१३९.११एषां मांसानि संस्कृत्य मानुषाणां यथेष्टतः
भक्षयिष्याव सहितौ कुरु तूर्णं वचो मम
१.१३९.१२भ्रातुर्वचनमाज्ञाय त्वरमाणेव राक्षसी
जगाम तत्र यत्र स्म पाण्डवा भरतर्षभ
१.१३९.१३ददर्श तत्र गत्वा सा पाण्डवान्पृथया सह
शयानान्भीमसेनं च जाग्रतं त्वपराजितम्
१.१३९.१४दृष्ट्वैव भीमसेनं सा शालस्कन्धमिवोद्गतम्
राक्षसी कामयामास रूपेणाप्रतिमं भुवि
१.१३९.१५अयं श्यामो महाबाहुः सिंहस्कन्धो महाद्युतिः
कम्बुग्रीवः पुष्कराक्षो भर्ता युक्तो भवेन्मम
१.१३९.१६नाहं भ्रातृवचो जातु कुर्यां क्रूरोपसंहितम्
पतिस्नेहोऽतिबलवान्न तथा भ्रातृसौहृदम्
१.१३९.१७मुहूर्तमिव तृप्तिश्च भवेद्भ्रातुर्ममैव च
हतैरेतैरहत्वा तु मोदिष्ये शाश्वतीः समाः
१.१३९.१८सा कामरूपिणी रूपं कृत्वा मानुषमुत्तमम्
उपतस्थे महाबाहुं भीमसेनं शनैः शनैः
१.१३९.१९विलज्जमानेव लता दिव्याभरणभूषिता
स्मितपूर्वमिदं वाक्यं भीमसेनमथाब्रवीत्
१.१३९.२०कुतस्त्वमसि संप्राप्तः कश्चासि पुरुषर्षभ
क इमे शेरते चेह पुरुषा देवरूपिणः
१.१३९.२१केयं च बृहती श्यामा सुकुमारी तवानघ
शेते वनमिदं प्राप्य विश्वस्ता स्वगृहे यथा
१.१३९.२२नेदं जानाति गहनं वनं राक्षससेवितम्
वसति ह्यत्र पापात्मा हिडिम्बो नाम राक्षसः
१.१३९.२३तेनाहं प्रेषिता भ्रात्रा दुष्टभावेन रक्षसा
बिभक्षयिषता मांसं युष्माकममरोपम
१.१३९.२४साहं त्वामभिसंप्रेक्ष्य देवगर्भसमप्रभम्
नान्यं भर्तारमिच्छामि सत्यमेतद्ब्रवीमि ते
१.१३९.२५एतद्विज्ञाय धर्मज्ञ युक्तं मयि समाचर
कामोपहतचित्ताङ्गीं भजमानां भजस्व माम्
१.१३९.२६त्रास्येऽहं त्वां महाबाहो राक्षसात्पुरुषादकात्
वत्स्यावो गिरिदुर्गेषु भर्ता भव ममानघ
१.१३९.२७अन्तरिक्षचरा ह्यस्मि कामतो विचरामि च
अतुलामाप्नुहि प्रीतिं तत्र तत्र मया सह
१.१३९.२८भीम उवाच
१.१३९.२९मातरं भ्रातरं ज्येष्ठं कनिष्ठानपरानिमान्
परित्यजेत को न्वद्य प्रभवन्निव राक्षसि
१.१३९.३०को हि सुप्तानिमान्भ्रातॄन्दत्त्वा राक्षसभोजनम्
मातरं च नरो गच्छेत्कामार्त इव मद्विधः
१.१३९.३१राक्षस्युवाच
१.१३९.३२यत्ते प्रियं तत्करिष्ये सर्वानेतान्प्रबोधय
मोक्षयिष्यामि वः कामं राक्षसात्पुरुषादकात्
१.१३९.३३भीम उवाच
१.१३९.३४सुखसुप्तान्वने भ्रातॄन्मातरं चैव राक्षसि
न भयाद्बोधयिष्यामि भ्रातुस्तव दुरात्मनः
१.१३९.३५न हि मे राक्षसा भीरु सोढुं शक्ताः पराक्रमम्
न मनुष्या न गन्धर्वा न यक्षाश्चारुलोचने
१.१३९.३६गच्छ वा तिष्ठ वा भद्रे यद्वापीच्छसि तत्कुरु
तं वा प्रेषय तन्वङ्गि भ्रातरं पुरुषादकम्