१.१५.१सूत उवाच
१.१५.२एतस्मिन्नेव काले तु भगिन्यौ ते तपोधन
अपश्यतां समायान्तमुच्चैःश्रवसमन्तिकात्
१.१५.३यं तं देवगणाः सर्वे हृष्टरूपा अपूजयन्
मथ्यमानेऽमृते जातमश्वरत्नमनुत्तमम्
१.१५.४महौघबलमश्वानामुत्तमं जवतां वरम्
श्रीमन्तमजरं दिव्यं सर्वलक्षणलक्षितम्
१.१५.५शौनक उवाच
१.१५.६कथं तदमृतं देवैर्मथितं क्व च शंस मे
यत्र जज्ञे महावीर्यः सोऽश्वराजो महाद्युतिः
१.१५.७सूत उवाच
१.१५.८ज्वलन्तमचलं मेरुं तेजोराशिमनुत्तमम्
आक्षिपन्तं प्रभां भानोः स्वशृङ्गैः काञ्चनोज्ज्वलैः
१.१५.९काञ्चनाभरणं चित्रं देवगन्धर्वसेवितम्
अप्रमेयमनाधृष्यमधर्मबहुलैर्जनैः
१.१५.१०व्यालैराचरितं घोरैर्दिव्यौषधिविदीपितम्
नाकमावृत्य तिष्ठन्तमुच्छ्रयेण महागिरिम्
१.१५.११अगम्यं मनसाप्यन्यैर्नदीवृक्षसमन्वितम्
नानापतगसंघैश्च नादितं सुमनोहरैः
१.१५.१२तस्य पृष्ठमुपारुह्य बहुरत्नाचितं शुभम्
अनन्तकल्पमुद्विद्धं सुराः सर्वे महौजसः
१.१५.१३ते मन्त्रयितुमारब्धास्तत्रासीना दिवौकसः
अमृतार्थे समागम्य तपोनियमसंस्थिताः
१.१५.१४तत्र नारायणो देवो ब्रह्माणमिदमब्रवीत्
चिन्तयत्सु सुरेष्वेवं मन्त्रयत्सु च सर्वशः
१.१५.१५देवैरसुरसंघैश्च मथ्यतां कलशोदधिः
भविष्यत्यमृतं तत्र मथ्यमाने महोदधौ
१.१५.१६सर्वौषधीः समावाप्य सर्वरत्नानि चैव हि
मन्थध्वमुदधिं देवा वेत्स्यध्वममृतं ततः