१.१४४.१वैशंपायन उवाच
१.१४४.२ते वनेन वनं वीरा घ्नन्तो मृगगणान्बहून्
अपक्रम्य ययू राजंस्त्वरमाणा महारथाः
१.१४४.३मत्स्यांस्त्रिगर्तान्पाञ्चालान्कीचकानन्तरेण च
रमणीयान्वनोद्देशान्प्रेक्षमाणाः सरांसि च
१.१४४.४जटाः कृत्वात्मनः सर्वे वल्कलाजिनवाससः
सह कुन्त्या महात्मानो बिभ्रतस्तापसं वपुः
१.१४४.५क्वचिद्वहन्तो जननीं त्वरमाणा महारथाः
क्वचिच्छन्देन गच्छन्तस्ते जग्मुः प्रसभं पुनः
१.१४४.६ब्राह्मं वेदमधीयाना वेदाङ्गानि च सर्वशः
नीतिशास्त्रं च धर्मज्ञा ददृशुस्ते पितामहम्
१.१४४.७तेऽभिवाद्य महात्मानं कृष्णद्वैपायनं तदा
तस्थुः प्राञ्जलयः सर्वे सह मात्रा परंतपाः
१.१४४.८व्यास उवाच
१.१४४.९मयेदं मनसा पूर्वं विदितं भरतर्षभाः
यथा स्थितैरधर्मेण धार्तराष्ट्रैर्विवासिताः
१.१४४.१०तद्विदित्वास्मि संप्राप्तश्चिकीर्षुः परमं हितम्
न विषादोऽत्र कर्तव्यः सर्वमेतत्सुखाय वः
१.१४४.११समास्ते चैव मे सर्वे यूयं चैव न संशयः
दीनतो बालतश्चैव स्नेहं कुर्वन्ति बान्धवाः
१.१४४.१२तस्मादभ्यधिकः स्नेहो युष्मासु मम सांप्रतम्
स्नेहपूर्वं चिकीर्षामि हितं वस्तन्निबोधत
१.१४४.१३इदं नगरमभ्याशे रमणीयं निरामयम्
वसतेह प्रतिच्छन्ना ममागमनकाङ्क्षिणः
१.१४४.१४वैशंपायन उवाच
१.१४४.१५एवं स तान्समाश्वास्य व्यासः पार्थानरिंदमान्
एकचक्रामभिगतः कुन्तीमाश्वासयत्प्रभुः
१.१४४.१६जीवपुत्रि सुतस्तेऽयं धर्मपुत्रो युधिष्ठिरः
पृथिव्यां पार्थिवान्सर्वान्प्रशासिष्यति धर्मराट्
१.१४४.१७धर्मेण जित्वा पृथिवीमखिलां धर्मविद्वशी
भीमसेनार्जुनबलाद्भोक्ष्यत्ययमसंशयः
१.१४४.१८पुत्रास्तव च माद्र्याश्च सर्व एव महारथाः
स्वराष्ट्रे विहरिष्यन्ति सुखं सुमनसस्तदा
१.१४४.१९यक्ष्यन्ति च नरव्याघ्रा विजित्य पृथिवीमिमाम्
राजसूयाश्वमेधाद्यैः क्रतुभिर्भूरिदक्षिणैः
१.१४४.२०अनुगृह्य सुहृद्वर्गं धनेन च सुखेन च
पितृपैतामहं राज्यमिह भोक्ष्यन्ति ते सुताः
१.१४४.२१एवमुक्त्वा निवेश्यैनान्ब्राह्मणस्य निवेशने
अब्रवीत्पार्थिवश्रेष्ठमृषिर्द्वैपायनस्तदा
१.१४४.२२इह मां संप्रतीक्षध्वमागमिष्याम्यहं पुनः
देशकालौ विदित्वैव वेत्स्यध्वं परमां मुदम्
१.१४४.२३स तैः प्राञ्जलिभिः सर्वैस्तथेत्युक्तो नराधिप
जगाम भगवान्व्यासो यथाकाममृषिः प्रभुः