१.१४९.१कुन्त्युवाच
१.१४९.२न विषादस्त्वया कार्यो भयादस्मात्कथंचन
उपायः परिदृष्टोऽत्र तस्मान्मोक्षाय रक्षसः
१.१४९.३एकस्तव सुतो बालः कन्या चैका तपस्विनी
न ते तयोस्तथा पत्न्या गमनं तत्र रोचये
१.१४९.४मम पञ्च सुता ब्रह्मंस्तेषामेको गमिष्यति
त्वदर्थं बलिमादाय तस्य पापस्य रक्षसः
१.१४९.५ब्राह्मण उवाच
१.१४९.६नाहमेतत्करिष्यामि जीवितार्थी कथंचन
ब्राह्मणस्यातिथेश्चैव स्वार्थे प्राणैर्वियोजनम्
१.१४९.७न त्वेतदकुलीनासु नाधर्मिष्ठासु विद्यते
यद्ब्राह्मणार्थे विसृजेदात्मानमपि चात्मजम्
१.१४९.८आत्मनस्तु मया श्रेयो बोद्धव्यमिति रोचये
ब्रह्मवध्यात्मवध्या वा श्रेय आत्मवधो मम
१.१४९.९ब्रह्मवध्या परं पापं निष्कृतिर्नात्र विद्यते
अबुद्धिपूर्वं कृत्वापि श्रेय आत्मवधो मम
१.१४९.१०न त्वहं वधमाकाङ्क्षे स्वयमेवात्मनः शुभे
परैः कृते वधे पापं न किंचिन्मयि विद्यते
१.१४९.११अभिसंधिकृते तस्मिन्ब्राह्मणस्य वधे मया
निष्कृतिं न प्रपश्यामि नृशंसं क्षुद्रमेव च
१.१४९.१२आगतस्य गृहे त्यागस्तथैव शरणार्थिनः
याचमानस्य च वधो नृशंसं परमं मतम्
१.१४९.१३कुर्यान्न निन्दितं कर्म न नृशंसं कदाचन
इति पूर्वे महात्मान आपद्धर्मविदो विदुः
१.१४९.१४श्रेयांस्तु सहदारस्य विनाशोऽद्य मम स्वयम्
ब्राह्मणस्य वधं नाहमनुमंस्ये कथंचन
१.१४९.१५कुन्त्युवाच
१.१४९.१६ममाप्येषा मतिर्ब्रह्मन्विप्रा रक्ष्या इति स्थिरा
न चाप्यनिष्टः पुत्रो मे यदि पुत्रशतं भवेत्
१.१४९.१७न चासौ राक्षसः शक्तो मम पुत्रविनाशने
वीर्यवान्मन्त्रसिद्धश्च तेजस्वी च सुतो मम
१.१४९.१८राक्षसाय च तत्सर्वं प्रापयिष्यति भोजनम्
मोक्षयिष्यति चात्मानमिति मे निश्चिता मतिः
१.१४९.१९समागताश्च वीरेण दृष्टपूर्वाश्च राक्षसाः
बलवन्तो महाकाया निहताश्चाप्यनेकशः
१.१४९.२०न त्विदं केषुचिद्ब्रह्मन्व्याहर्तव्यं कथंचन
विद्यार्थिनो हि मे पुत्रान्विप्रकुर्युः कुतूहलात्
१.१४९.२१गुरुणा चाननुज्ञातो ग्राहयेद्यं सुतो मम
न स कुर्यात्तया कार्यं विद्ययेति सतां मतम्
१.१४९.२२वैशंपायन उवाच
१.१४९.२३एवमुक्तस्तु पृथया स विप्रो भार्यया सह
हृष्टः संपूजयामास तद्वाक्यममृतोपमम्
१.१४९.२४ततः कुन्ती च विप्रश्च सहितावनिलात्मजम्
तमब्रूतां कुरुष्वेति स तथेत्यब्रवीच्च तौ