१. आदिपर्व
१.१५०.१वैशंपायन उवाच

१.१५०.२करिष्य इति भीमेन प्रतिज्ञाते तु भारत
आजग्मुस्ते ततः सर्वे भैक्षमादाय पाण्डवाः

१.१५०.३आकारेणैव तं ज्ञात्वा पाण्डुपुत्रो युधिष्ठिरः
रहः समुपविश्यैकस्ततः पप्रच्छ मातरम्

१.१५०.४किं चिकीर्षत्ययं कर्म भीमो भीमपराक्रमः
भवत्यनुमते कच्चिदयं कर्तुमिहेच्छति

१.१५०.५कुन्त्युवाच

१.१५०.६ममैव वचनादेष करिष्यति परंतपः
ब्राह्मणार्थे महत्कृत्यं मोष्काय नगरस्य च

१.१५०.७युधिष्ठिर उवाच

१.१५०.८किमिदं साहसं तीक्ष्णं भवत्या दुष्कृतं कृतम्
परित्यागं हि पुत्रस्य न प्रशंसन्ति साधवः

१.१५०.९कथं परसुतस्यार्थे स्वसुतं त्यक्तुमिच्छसि
लोकवृत्तिविरुद्धं वै पुत्रत्यागात्कृतं त्वया

१.१५०.१०यस्य बाहू समाश्रित्य सुखं सर्वे स्वपामहे
राज्यं चापहृतं क्षुद्रैराजिहीर्षामहे पुनः

१.१५०.११यस्य दुर्योधनो वीर्यं चिन्तयन्नमितौजसः
न शेते वसतीः सर्वा दुःखाच्छकुनिना सह

१.१५०.१२यस्य वीरस्य वीर्येण मुक्ता जतुगृहाद्वयम्
अन्येभ्यश्चैव पापेभ्यो निहतश्च पुरोचनः

१.१५०.१३यस्य वीर्यं समाश्रित्य वसुपूर्णां वसुंधराम्
इमां मन्यामहे प्राप्तां निहत्य धृतराष्ट्रजान्

१.१५०.१४तस्य व्यवसितस्त्यागो बुद्धिमास्थाय कां त्वया
कच्चिन्न दुःखैर्बुद्धिस्ते विप्लुता गतचेतसः

१.१५०.१५कुन्त्युवाच

१.१५०.१६युधिष्ठिर न संतापः कार्यः प्रति वृकोदरम्
न चायं बुद्धिदौर्बल्याद्व्यवसायः कृतो मया

१.१५०.१७इह विप्रस्य भवने वयं पुत्र सुखोषिताः
तस्य प्रतिक्रिया तात मयेयं प्रसमीक्षिता
एतावानेव पुरुषः कृतं यस्मिन्न नश्यति

१.१५०.१८दृष्ट्वा भीमस्य विक्रान्तं तदा जतुगृहे महत्
हिडिम्बस्य वधाच्चैव विश्वासो मे वृकोदरे

१.१५०.१९बाह्वोर्बलं हि भीमस्य नागायुतसमं महत्
येन यूयं गजप्रख्या निर्व्यूढा वारणावतात्

१.१५०.२०वृकोदरबलो नान्यो न भूतो न भविष्यति
योऽभ्युदीयाद्युधि श्रेष्ठमपि वज्रधरं स्वयम्

१.१५०.२१जातमात्रः पुरा चैष ममाङ्कात्पतितो गिरौ
शरीरगौरवात्तस्य शिला गात्रैर्विचूर्णिता

१.१५०.२२तदहं प्रज्ञया स्मृत्वा बलं भीमस्य पाण्डव
प्रतीकारं च विप्रस्य ततः कृतवती मतिम्

१.१५०.२३नेदं लोभान्न चाज्ञानान्न च मोहाद्विनिश्चितम्
बुद्धिपूर्वं तु धर्मस्य व्यवसायः कृतो मया

१.१५०.२४अर्थौ द्वावपि निष्पन्नौ युधिष्ठिर भविष्यतः
प्रतीकारश्च वासस्य धर्मश्च चरितो महान्

१.१५०.२५यो ब्राह्मणस्य साहाय्यं कुर्यादर्थेषु कर्हिचित्
क्षत्रियः स शुभाँल्लोकान्प्राप्नुयादिति मे श्रुतम्

१.१५०.२६क्षत्रियः क्षत्रियस्यैव कुर्वाणो वधमोक्षणम्
विपुलां कीर्तिमाप्नोति लोकेऽस्मिंश्च परत्र च

१.१५०.२७वैश्यस्यैव तु साहाय्यं कुर्वाणः क्षत्रियो युधि
स सर्वेष्वपि लोकेषु प्रजा रञ्जयते ध्रुवम्

१.१५०.२८शूद्रं तु मोक्षयन्राजा शरणार्थिनमागतम्
प्राप्नोतीह कुले जन्म सद्रव्ये राजसत्कृते

१.१५०.२९एवं स भगवान्व्यासः पुरा कौरवनन्दन
प्रोवाच सुतरां प्राज्ञस्तस्मादेतच्चिकीर्षितम्

१.१५०.३०युधिष्ठिर उवाच

१.१५०.३१उपपन्नमिदं मातस्त्वया यद्बुद्धिपूर्वकम्
आर्तस्य ब्राह्मणस्यैवमनुक्रोशादिदं कृतम्
ध्रुवमेष्यति भीमोऽयं निहत्य पुरुषादकम्

१.१५०.३२यथा त्विदं न विन्देयुर्नरा नगरवासिनः
तथायं ब्राह्मणो वाच्यः परिग्राह्यश्च यत्नतः