१.१६.१सूत उवाच
१.१६.२ततोऽभ्रशिखराकारैर्गिरिशृङ्गैरलंकृतम्
मन्दरं पर्वतवरं लताजालसमावृतम्
१.१६.३नानाविहगसंघुष्टं नानादंष्ट्रिसमाकुलम्
किंनरैरप्सरोभिश्च देवैरपि च सेवितम्
१.१६.४एकादश सहस्राणि योजनानां समुच्छ्रितम्
अधो भूमेः सहस्रेषु तावत्स्वेव प्रतिष्ठितम्
१.१६.५तमुद्धर्तुं न शक्ता वै सर्वे देवगणास्तदा
विष्णुमासीनमभ्येत्य ब्रह्माणं चेदमब्रुवन्
१.१६.६भवन्तावत्र कुरुतां बुद्धिं नैःश्रेयसीं पराम्
मन्दरोद्धरणे यत्नः क्रियतां च हिताय नः
१.१६.७तथेति चाब्रवीद्विष्णुर्ब्रह्मणा सह भार्गव
ततोऽनन्तः समुत्थाय ब्रह्मणा परिचोदितः
नारायणेन चाप्युक्तस्तस्मिन्कर्मणि वीर्यवान्
१.१६.८अथ पर्वतराजानं तमनन्तो महाबलः
उज्जहार बलाद्ब्रह्मन्सवनं सवनौकसम्
१.१६.९ततस्तेन सुराः सार्धं समुद्रमुपतस्थिरे
तमूचुरमृतार्थाय निर्मथिष्यामहे जलम्
१.१६.१०अपांपतिरथोवाच ममाप्यंशो भवेत्ततः
सोढास्मि विपुलं मर्दं मन्दरभ्रमणादिति
१.१६.११ऊचुश्च कूर्मराजानमकूपारं सुरासुराः
गिरेरधिष्ठानमस्य भवान्भवितुमर्हति
१.१६.१२कूर्मेण तु तथेत्युक्त्वा पृष्ठमस्य समर्पितम्
तस्य शैलस्य चाग्रं वै यन्त्रेणेन्द्रोऽभ्यपीडयत्
१.१६.१३मन्थानं मन्दरं कृत्वा तथा नेत्रं च वासुकिम्
देवा मथितुमारब्धाः समुद्रं निधिमम्भसाम्
अमृतार्थिनस्ततो ब्रह्मन्सहिता दैत्यदानवाः
१.१६.१४एकमन्तमुपाश्लिष्टा नागराज्ञो महासुराः
विबुधाः सहिताः सर्वे यतः पुच्छं ततः स्थिताः
१.१६.१५अनन्तो भगवान्देवो यतो नारायणस्ततः
शिर उद्यम्य नागस्य पुनः पुनरवाक्षिपत्
१.१६.१६वासुकेरथ नागस्य सहसाक्षिप्यतः सुरैः
सधूमाः सार्चिषो वाता निष्पेतुरसकृन्मुखात्
१.१६.१७ते धूमसंघाः संभूता मेघसंघाः सविद्युतः
अभ्यवर्षन्सुरगणाञ्श्रमसंतापकर्शितान्
१.१६.१८तस्माच्च गिरिकूटाग्रात्प्रच्युताः पुष्पवृष्टयः
सुरासुरगणान्माल्यैः सर्वतः समवाकिरन्
१.१६.१९बभूवात्र महाघोषो महामेघरवोपमः
उदधेर्मथ्यमानस्य मन्दरेण सुरासुरैः
१.१६.२०तत्र नानाजलचरा विनिष्पिष्टा महाद्रिणा
विलयं समुपाजग्मुः शतशो लवणाम्भसि
१.१६.२१वारुणानि च भूतानि विविधानि महीधरः
पातालतलवासीनि विलयं समुपानयत्
१.१६.२२तस्मिंश्च भ्राम्यमाणेऽद्रौ संघृष्यन्तः परस्परम्
न्यपतन्पतगोपेताः पर्वताग्रान्महाद्रुमाः
१.१६.२३तेषां संघर्षजश्चाग्निरर्चिर्भिः प्रज्वलन्मुहुः
विद्युद्भिरिव नीलाभ्रमावृणोन्मन्दरं गिरिम्
१.१६.२४ददाह कुञ्जरांश्चैव सिंहांश्चैव विनिःसृतान्
विगतासूनि सर्वाणि सत्त्वानि विविधानि च
१.१६.२५तमग्निममरश्रेष्ठः प्रदहन्तं ततस्ततः
वारिणा मेघजेनेन्द्रः शमयामास सर्वतः
१.१६.२६ततो नानाविधास्तत्र सुस्रुवुः सागराम्भसि
महाद्रुमाणां निर्यासा बहवश्चौषधीरसाः
१.१६.२७तेषाममृतवीर्याणां रसानां पयसैव च
अमरत्वं सुरा जग्मुः काञ्चनस्य च निःस्रवात्
१.१६.२८अथ तस्य समुद्रस्य तज्जातमुदकं पयः
रसोत्तमैर्विमिश्रं च ततः क्षीरादभूद्घृतम्
१.१६.२९ततो ब्रह्माणमासीनं देवा वरदमब्रुवन्
श्रान्ताः स्म सुभृशं ब्रह्मन्नोद्भवत्यमृतं च तत्
१.१६.३०ऋते नारायणं देवं दैत्या नागोत्तमास्तथा
चिरारब्धमिदं चापि सागरस्यापि मन्थनम्
१.१६.३१ततो नारायणं देवं ब्रह्मा वचनमब्रवीत्
विधत्स्वैषां बलं विष्णो भवानत्र परायणम्
१.१६.३२विष्णुरुवाच
१.१६.३३बलं ददामि सर्वेषां कर्मैतद्ये समास्थिताः
क्षोभ्यतां कलशः सर्वैर्मन्दरः परिवर्त्यताम्
१.१६.३४सूत उवाच
१.१६.३५नारायणवचः श्रुत्वा बलिनस्ते महोदधेः
तत्पयः सहिता भूयश्चक्रिरे भृशमाकुलम्
१.१६.३६ततः शतसहस्रांशुः समान इव सागरात्
प्रसन्नभाः समुत्पन्नः सोमः शीतांशुरुज्ज्वलः
१.१६.३७श्रीरनन्तरमुत्पन्ना घृतात्पाण्डुरवासिनी
सुरा देवी समुत्पन्ना तुरगः पाण्डुरस्तथा
१.१६.३८कौस्तुभश्च मणिर्दिव्य उत्पन्नोऽमृतसंभवः
मरीचिविकचः श्रीमान्नारायणउरोगतः
१.१६.३९श्रीः सुरा चैव सोमश्च तुरगश्च मनोजवः
यतो देवास्ततो जग्मुरादित्यपथमाश्रिताः
१.१६.४०धन्वन्तरिस्ततो देवो वपुष्मानुदतिष्ठत
श्वेतं कमण्डलुं बिभ्रदमृतं यत्र तिष्ठति
१.१६.४१एतदत्यद्भुतं दृष्ट्वा दानवानां समुत्थितः
अमृतार्थे महान्नादो ममेदमिति जल्पताम्
१.१६.४२ततो नारायणो मायामास्थितो मोहिनीं प्रभुः
स्त्रीरूपमद्भुतं कृत्वा दानवानभिसंश्रितः
१.१६.४३ततस्तदमृतं तस्यै ददुस्ते मूढचेतसः
स्त्रियै दानवदैतेयाः सर्वे तद्गतमानसाः