१.१५१.१वैशंपायन उवाच
१.१५१.२ततो रात्र्यां व्यतीतायामन्नमादाय पाण्डवः
भीमसेनो ययौ तत्र यत्रासौ पुरुषादकः
१.१५१.३आसाद्य तु वनं तस्य रक्षसः पाण्डवो बली
आजुहाव ततो नाम्ना तदन्नमुपयोजयन्
१.१५१.४ततः स राक्षसः श्रुत्वा भीमसेनस्य तद्वचः
आजगाम सुसंक्रुद्धो यत्र भीमो व्यवस्थितः
१.१५१.५महाकायो महावेगो दारयन्निव मेदिनीम्
त्रिशिखां भृकुटिं कृत्वा संदश्य दशनच्छदम्
१.१५१.६भुञ्जानमन्नं तं दृष्ट्वा भीमसेनं स राक्षसः
विवृत्य नयने क्रुद्ध इदं वचनमब्रवीत्
१.१५१.७कोऽयमन्नमिदं भुङ्क्ते मदर्थमुपकल्पितम्
पश्यतो मम दुर्बुद्धिर्यियासुर्यमसादनम्
१.१५१.८भीमसेनस्तु तच्छ्रुत्वा प्रहसन्निव भारत
राक्षसं तमनादृत्य भुङ्क्त एव पराङ्मुखः
१.१५१.९ततः स भैरवं कृत्वा समुद्यम्य करावुभौ
अभ्यद्रवद्भीमसेनं जिघांसुः पुरुषादकः
१.१५१.१०तथापि परिभूयैनं नेक्षमाणो वृकोदरः
राक्षसं भुङ्क्त एवान्नं पाण्डवः परवीरहा
१.१५१.११अमर्षेण तु संपूर्णः कुन्तीपुत्रस्य राक्षसः
जघान पृष्ठं पाणिभ्यामुभाभ्यां पृष्ठतः स्थितः
१.१५१.१२तथा बलवता भीमः पाणिभ्यां भृशमाहतः
नैवावलोकयामास राक्षसं भुङ्क्त एव सः
१.१५१.१३ततः स भूयः संक्रुद्धो वृक्षमादाय राक्षसः
ताडयिष्यंस्तदा भीमं पुनरभ्यद्रवद्बली
१.१५१.१४ततो भीमः शनैर्भुक्त्वा तदन्नं पुरुषर्षभः
वार्युपस्पृश्य संहृष्टस्तस्थौ युधि महाबलः
१.१५१.१५क्षिप्तं क्रुद्धेन तं वृक्षं प्रतिजग्राह वीर्यवान्
सव्येन पाणिना भीमः प्रहसन्निव भारत
१.१५१.१६ततः स पुनरुद्यम्य वृक्षान्बहुविधान्बली
प्राहिणोद्भीमसेनाय तस्मै भीमश्च पाण्डवः
१.१५१.१७तद्वृक्षयुद्धमभवन्महीरुहविनाशनम्
घोररूपं महाराज बकपाण्डवयोर्महत्
१.१५१.१८नाम विश्राव्य तु बकः समभिद्रुत्य पाण्डवम्
भुजाभ्यां परिजग्राह भीमसेनं महाबलम्
१.१५१.१९भीमसेनोऽपि तद्रक्षः परिरभ्य महाभुजः
विस्फुरन्तं महावेगं विचकर्ष बलाद्बली
१.१५१.२०स कृष्यमाणो भीमेन कर्षमाणश्च पाण्डवम्
समयुज्यत तीव्रेण श्रमेण पुरुषादकः
१.१५१.२१तयोर्वेगेन महता पृथिवी समकम्पत
पादपांश्च महाकायांश्चूर्णयामासतुस्तदा
१.१५१.२२हीयमानं तु तद्रक्षः समीक्ष्य भरतर्षभ
निष्पिष्य भूमौ पाणिभ्यां समाजघ्ने वृकोदरः
१.१५१.२३ततोऽस्य जानुना पृष्ठमवपीड्य बलादिव
बाहुना परिजग्राह दक्षिणेन शिरोधराम्
१.१५१.२४सव्येन च कटीदेशे गृह्य वाससि पाण्डवः
तद्रक्षो द्विगुणं चक्रे नदन्तं भैरवान्रवान्
१.१५१.२५ततोऽस्य रुधिरं वक्त्रात्प्रादुरासीद्विशां पते
भज्यमानस्य भीमेन तस्य घोरस्य रक्षसः