१.१५२.१वैशंपायन उवाच
१.१५२.२तेन शब्देन वित्रस्तो जनस्तस्याथ रक्षसः
निष्पपात गृहाद्राजन्सहैव परिचारिभिः
१.१५२.३तान्भीतान्विगतज्ञानान्भीमः प्रहरतां वरः
सान्त्वयामास बलवान्समये च न्यवेशयत्
१.१५२.४न हिंस्या मानुषा भूयो युष्माभिरिह कर्हिचित्
हिंसतां हि वधः शीघ्रमेवमेव भवेदिति
१.१५२.५तस्य तद्वचनं श्रुत्वा तानि रक्षांसि भारत
एवमस्त्विति तं प्राहुर्जगृहुः समयं च तम्
१.१५२.६ततः प्रभृति रक्षांसि तत्र सौम्यानि भारत
नगरे प्रत्यदृश्यन्त नरैर्नगरवासिभिः
१.१५२.७ततो भीमस्तमादाय गतासुं पुरुषादकम्
द्वारदेशे विनिक्षिप्य जगामानुपलक्षितः
१.१५२.८ततः स भीमस्तं हत्वा गत्वा ब्राह्मणवेश्म तत्
आचचक्षे यथावृत्तं राज्ञः सर्वमशेषतः
१.१५२.९ततो नरा विनिष्क्रान्ता नगरात्काल्यमेव तु
ददृशुर्निहतं भूमौ राक्षसं रुधिरोक्षितम्
१.१५२.१०तमद्रिकूटसदृशं विनिकीर्णं भयावहम्
एकचक्रां ततो गत्वा प्रवृत्तिं प्रददुः परे
१.१५२.११ततः सहस्रशो राजन्नरा नगरवासिनः
तत्राजग्मुर्बकं द्रष्टुं सस्त्रीवृद्धकुमारकाः
१.१५२.१२ततस्ते विस्मिताः सर्वे कर्म दृष्ट्वातिमानुषम्
दैवतान्यर्चयां चक्रुः सर्व एव विशां पते
१.१५२.१३ततः प्रगणयामासुः कस्य वारोऽद्य भोजने
ज्ञात्वा चागम्य तं विप्रं पप्रच्छुः सर्व एव तत्
१.१५२.१४एवं पृष्टस्तु बहुशो रक्षमाणश्च पाण्डवान्
उवाच नागरान्सर्वानिदं विप्रर्षभस्तदा
१.१५२.१५आज्ञापितं मामशने रुदन्तं सह बन्धुभिः
ददर्श ब्राह्मणः कश्चिन्मन्त्रसिद्धो महाबलः
१.१५२.१६परिपृच्छ्य स मां पूर्वं परिक्लेशं पुरस्य च
अब्रवीद्ब्राह्मणश्रेष्ठ आश्वास्य प्रहसन्निव
१.१५२.१७प्रापयिष्याम्यहं तस्मै इदमन्नं दुरात्मने
मन्निमित्तं भयं चापि न कार्यमिति वीर्यवान्
१.१५२.१८स तदन्नमुपादाय गतो बकवनं प्रति
तेन नूनं भवेदेतत्कर्म लोकहितं कृतम्
१.१५२.१९ततस्ते ब्राह्मणाः सर्वे क्षत्रियाश्च सुविस्मिताः
वैश्याः शूद्राश्च मुदिताश्चक्रुर्ब्रह्ममहं तदा
१.१५२.२०ततो जानपदाः सर्वे आजग्मुर्नगरं प्रति
तदद्भुततमं द्रष्टुं पार्थास्तत्रैव चावसन्