१.१५३.१जनमेजय उवाच
१.१५३.२ते तथा पुरुषव्याघ्रा निहत्य बकराक्षसम्
अत ऊर्ध्वं ततो ब्रह्मन्किमकुर्वत पाण्डवाः
१.१५३.३वैशंपायन उवाच
१.१५३.४तत्रैव न्यवसन्राजन्निहत्य बकराक्षसम्
अधीयानाः परं ब्रह्म ब्राह्मणस्य निवेशने
१.१५३.५ततः कतिपयाहस्य ब्राह्मणः संशितव्रतः
प्रतिश्रयार्थं तद्वेश्म ब्राह्मणस्याजगाम ह
१.१५३.६स सम्यक्पूजयित्वा तं विद्वान्विप्रर्षभस्तदा
ददौ प्रतिश्रयं तस्मै सदा सर्वातिथिव्रती
१.१५३.७ततस्ते पाण्डवाः सर्वे सह कुन्त्या नरर्षभाः
उपासां चक्रिरे विप्रं कथयानं कथास्तदा
१.१५३.८कथयामास देशान्स तीर्थानि विविधानि च
राज्ञां च विविधाश्चर्याः पुराणि विविधानि च
१.१५३.९स तत्राकथयद्विप्रः कथान्ते जनमेजय
पाञ्चालेष्वद्भुताकारं याज्ञसेन्याः स्वयंवरम्
१.१५३.१०धृष्टद्युम्नस्य चोत्पत्तिमुत्पत्तिं च शिखण्डिनः
अयोनिजत्वं कृष्णाया द्रुपदस्य महामखे
१.१५३.११तदद्भुततमं श्रुत्वा लोके तस्य महात्मनः
विस्तरेणैव पप्रच्छुः कथां तां पुरुषर्षभाः
१.१५३.१२कथं द्रुपदपुत्रस्य धृष्टद्युम्नस्य पावकात्
वेदिमध्याच्च कृष्णायाः संभवः कथमद्भुतः
१.१५३.१३कथं द्रोणान्महेष्वासात्सर्वाण्यस्त्राण्यशिक्षत
कथं प्रियसखायौ तौ भिन्नौ कस्य कृतेन च
१.१५३.१४एवं तैश्चोदितो राजन्स विप्रः पुरुषर्षभैः
कथयामास तत्सर्वं द्रौपदीसंभवं तदा