१. आदिपर्व
१.१५४.१ब्राह्मण उवाच

१.१५४.२गङ्गाद्वारं प्रति महान्बभूवर्षिर्महातपाः
भरद्वाजो महाप्राज्ञः सततं संशितव्रतः

१.१५४.३सोऽभिषेक्तुं गतो गङ्गां पूर्वमेवागतां सतीम्
ददर्शाप्सरसं तत्र घृताचीमाप्लुतामृषिः

१.१५४.४तस्या वायुर्नदीतीरे वसनं व्यहरत्तदा
अपकृष्टाम्बरां दृष्ट्वा तामृषिश्चकमे ततः

१.१५४.५तस्यां संसक्तमनसः कौमारब्रह्मचारिणः
हृष्टस्य रेतश्चस्कन्द तदृषिर्द्रोण आदधे

१.१५४.६ततः समभवद्द्रोणः कुमारस्तस्य धीमतः
अध्यगीष्ट स वेदांश्च वेदाङ्गानि च सर्वशः

१.१५४.७भरद्वाजस्य तु सखा पृषतो नाम पार्थिवः
तस्यापि द्रुपदो नाम तदा समभवत्सुतः

१.१५४.८स नित्यमाश्रमं गत्वा द्रोणेन सह पार्षतः
चिक्रीडाध्ययनं चैव चकार क्षत्रियर्षभः

१.१५४.९ततस्तु पृषतेऽतीते स राजा द्रुपदोऽभवत्
द्रोणोऽपि रामं शुश्राव दित्सन्तं वसु सर्वशः

१.१५४.१०वनं तु प्रस्थितं रामं भरद्वाजसुतोऽब्रवीत्
आगतं वित्तकामं मां विद्धि द्रोणं द्विजर्षभ

१.१५४.११राम उवाच

१.१५४.१२शरीरमात्रमेवाद्य मयेदमवशेषितम्
अस्त्राणि वा शरीरं वा ब्रह्मन्नन्यतरं वृणु

१.१५४.१३द्रोण उवाच

१.१५४.१४अस्त्राणि चैव सर्वाणि तेषां संहारमेव च
प्रयोगं चैव सर्वेषां दातुमर्हति मे भवान्

१.१५४.१५ब्राह्मण उवाच

१.१५४.१६तथेत्युक्त्वा ततस्तस्मै प्रददौ भृगुनन्दनः
प्रतिगृह्य ततो द्रोणः कृतकृत्योऽभवत्तदा

१.१५४.१७संप्रहृष्टमनाश्चापि रामात्परमसंमतम्
ब्रह्मास्त्रं समनुप्राप्य नरेष्वभ्यधिकोऽभवत्

१.१५४.१८ततो द्रुपदमासाद्य भारद्वाजः प्रतापवान्
अब्रवीत्पुरुषव्याघ्रः सखायं विद्धि मामिति

१.१५४.१९द्रुपद उवाच

१.१५४.२०नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा
नाराजा पार्थिवस्यापि सखिपूर्वं किमिष्यते

१.१५४.२१ब्राह्मण उवाच

१.१५४.२२स विनिश्चित्य मनसा पाञ्चाल्यं प्रति बुद्धिमान्
जगाम कुरुमुख्यानां नगरं नागसाह्वयम्

१.१५४.२३तस्मै पौत्रान्समादाय वसूनि विविधानि च
प्राप्ताय प्रददौ भीष्मः शिष्यान्द्रोणाय धीमते

१.१५४.२४द्रोणः शिष्यांस्ततः सर्वानिदं वचनमब्रवीत्
समानीय तदा विद्वान्द्रुपदस्यासुखाय वै

१.१५४.२५आचार्यवेतनं किंचिद्धृदि संपरिवर्तते
कृतास्त्रैस्तत्प्रदेयं स्यात्तदृतं वदतानघाः

१.१५४.२६यदा च पाण्डवाः सर्वे कृतास्त्राः कृतनिश्रमाः
ततो द्रोणोऽब्रवीद्भूयो वेतनार्थमिदं वचः

१.१५४.२७पार्षतो द्रुपदो नाम छत्रवत्यां नरेश्वरः
तस्यापकृष्य तद्राज्यं मम शीघ्रं प्रदीयताम्

१.१५४.२८ततः पाण्डुसुताः पञ्च निर्जित्य द्रुपदं युधि
द्रोणाय दर्शयामासुर्बद्ध्वा ससचिवं तदा

१.१५४.२९द्रोण उवाच

१.१५४.३०प्रार्थयामि त्वया सख्यं पुनरेव नराधिप
अराजा किल नो राज्ञः सखा भवितुमर्हति

१.१५४.३१अतः प्रयतितं राज्ये यज्ञसेन मया तव
राजासि दक्षिणे कूले भागीरथ्याहमुत्तरे

१.१५४.३२ब्राह्मण उवाच

१.१५४.३३असत्कारः स सुमहान्मुहूर्तमपि तस्य तु
न व्येति हृदयाद्राज्ञो दुर्मनाः स कृशोऽभवत्