१. आदिपर्व
१.१५५.१ब्राह्मण उवाच

१.१५५.२अमर्षी द्रुपदो राजा कर्मसिद्धान्द्विजर्षभान्
अन्विच्छन्परिचक्राम ब्राह्मणावसथान्बहून्

१.१५५.३पुत्रजन्म परीप्सन्वै शोकोपहतचेतनः
नास्ति श्रेष्ठं ममापत्यमिति नित्यमचिन्तयत्

१.१५५.४जातान्पुत्रान्स निर्वेदाद्धिग्बन्धूनिति चाब्रवीत्
निःश्वासपरमश्चासीद्द्रोणं प्रतिचिकीर्षया

१.१५५.५प्रभावं विनयं शिक्षां द्रोणस्य चरितानि च
क्षात्रेण च बलेनास्य चिन्तयन्नान्वपद्यत
प्रतिकर्तुं नृपश्रेष्ठो यतमानोऽपि भारत

१.१५५.६अभितः सोऽथ कल्माषीं गङ्गाकूले परिभ्रमन्
ब्राह्मणावसथं पुण्यमाससाद महीपतिः

१.१५५.७तत्र नास्नातकः कश्चिन्न चासीदव्रती द्विजः
तथैव नामहाभागः सोऽपश्यत्संशितव्रतौ

१.१५५.८याजोपयाजौ ब्रह्मर्षी शाम्यन्तौ पृषतात्मजः
संहिताध्ययने युक्तौ गोत्रतश्चापि काश्यपौ

१.१५५.९तारणे युक्तरूपौ तौ ब्राह्मणावृषिसत्तमौ
स तावामन्त्रयामास सर्वकामैरतन्द्रितः

१.१५५.१०बुद्ध्वा तयोर्बलं बुद्धिं कनीयांसमुपह्वरे
प्रपेदे छन्दयन्कामैरुपयाजं धृतव्रतम्

१.१५५.११पादशुश्रूषणे युक्तः प्रियवाक्सर्वकामदः
अर्हयित्वा यथान्यायमुपयाजमुवाच सः

१.१५५.१२येन मे कर्मणा ब्रह्मन्पुत्रः स्याद्द्रोणमृत्यवे
उपयाज कृते तस्मिन्गवां दातास्मि तेऽर्बुदम्

१.१५५.१३यद्वा तेऽन्यद्द्विजश्रेष्ठ मनसः सुप्रियं भवेत्
सर्वं तत्ते प्रदाताहं न हि मेऽस्त्यत्र संशयः

१.१५५.१४इत्युक्तो नाहमित्येवं तमृषिः प्रत्युवाच ह
आराधयिष्यन्द्रुपदः स तं पर्यचरत्पुनः

१.१५५.१५ततः संवत्सरस्यान्ते द्रुपदं स द्विजोत्तमः
उपयाजोऽब्रवीद्राजन्काले मधुरया गिरा

१.१५५.१६ज्येष्ठो भ्राता ममागृह्णाद्विचरन्वननिर्झरे
अपरिज्ञातशौचायां भूमौ निपतितं फलम्

१.१५५.१७तदपश्यमहं भ्रातुरसांप्रतमनुव्रजन्
विमर्शं संकरादाने नायं कुर्यात्कथंचन

१.१५५.१८दृष्ट्वा फलस्य नापश्यद्दोषा येऽस्यानुबन्धिकाः
विविनक्ति न शौचं यः सोऽन्यत्रापि कथं भवेत्

१.१५५.१९संहिताध्ययनं कुर्वन्वसन्गुरुकुले च यः
भैक्षमुच्छिष्टमन्येषां भुङ्क्ते चापि सदा सदा
कीर्तयन्गुणमन्नानामघृणी च पुनः पुनः

१.१५५.२०तमहं फलार्थिनं मन्ये भ्रातरं तर्कचक्षुषा
तं वै गच्छस्व नृपते स त्वां संयाजयिष्यति

१.१५५.२१जुगुप्समानो नृपतिर्मनसेदं विचिन्तयन्
उपयाजवचः श्रुत्वा नृपतिः सर्वधर्मवित्
अभिसंपूज्य पूजार्हमृषिं याजमुवाच ह

१.१५५.२२अयुतानि ददान्यष्टौ गवां याजय मां विभो
द्रोणवैराभिसंतप्तं त्वं ह्लादयितुमर्हसि

१.१५५.२३स हि ब्रह्मविदां श्रेष्ठो ब्रह्मास्त्रे चाप्यनुत्तमः
तस्माद्द्रोणः पराजैषीन्मां वै स सखिविग्रहे

१.१५५.२४क्षत्रियो नास्ति तुल्योऽस्य पृथिव्यां कश्चिदग्रणीः
कौरवाचार्यमुख्यस्य भारद्वाजस्य धीमतः

१.१५५.२५द्रोणस्य शरजालानि प्राणिदेहहराणि च
षडरत्नि धनुश्चास्य दृश्यतेऽप्रतिमं महत्

१.१५५.२६स हि ब्राह्मणवेगेन क्षात्रं वेगमसंशयम्
प्रतिहन्ति महेष्वासो भारद्वाजो महामनाः

१.१५५.२७क्षत्रोच्छेदाय विहितो जामदग्न्य इवास्थितः
तस्य ह्यस्त्रबलं घोरमप्रसह्यं नरैर्भुवि

१.१५५.२८ब्राह्ममुच्चारयंस्तेजो हुताहुतिरिवानलः
समेत्य स दहत्याजौ क्षत्रं ब्रह्मपुरःसरः
ब्रह्मक्षत्रे च विहिते ब्रह्मतेजो विशिष्यते

१.१५५.२९सोऽहं क्षत्रबलाद्धीनो ब्रह्मतेजः प्रपेदिवान्
द्रोणाद्विशिष्टमासाद्य भवन्तं ब्रह्मवित्तमम्

१.१५५.३०द्रोणान्तकमहं पुत्रं लभेयं युधि दुर्जयम्
तत्कर्म कुरु मे याज निर्वपाम्यर्बुदं गवाम्

१.१५५.३१तथेत्युक्त्वा तु तं याजो याज्यार्थमुपकल्पयत्
गुर्वर्थ इति चाकाममुपयाजमचोदयत्
याजो द्रोणविनाशाय प्रतिजज्ञे तथा च सः

१.१५५.३२ततस्तस्य नरेन्द्रस्य उपयाजो महातपाः
आचख्यौ कर्म वैतानं तदा पुत्रफलाय वै

१.१५५.३३स च पुत्रो महावीर्यो महातेजा महाबलः
इष्यते यद्विधो राजन्भविता ते तथाविधः

१.१५५.३४भारद्वाजस्य हन्तारं सोऽभिसंधाय भूमिपः
आजह्रे तत्तथा सर्वं द्रुपदः कर्मसिद्धये

१.१५५.३५याजस्तु हवनस्यान्ते देवीमाह्वापयत्तदा
प्रैहि मां राज्ञि पृषति मिथुनं त्वामुपस्थितम्

१.१५५.३६देव्युवाच

१.१५५.३७अवलिप्तं मे मुखं ब्रह्मन्पुण्यान्गन्धान्बिभर्मि च
सुतार्थेनोपरुद्धास्मि तिष्ठ याज मम प्रिये

१.१५५.३८याज उवाच

१.१५५.३९याजेन श्रपितं हव्यमुपयाजेन मन्त्रितम्
कथं कामं न संदध्यात्सा त्वं विप्रैहि तिष्ठ वा

१.१५५.४०ब्राह्मण उवाच

१.१५५.४१एवमुक्ते तु याजेन हुते हविषि संस्कृते
उत्तस्थौ पावकात्तस्मात्कुमारो देवसंनिभः

१.१५५.४२ज्वालावर्णो घोररूपः किरीटी वर्म चोत्तमम्
बिभ्रत्सखड्गः सशरो धनुष्मान्विनदन्मुहुः

१.१५५.४३सोऽध्यारोहद्रथवरं तेन च प्रययौ तदा
ततः प्रणेदुः पाञ्चालाः प्रहृष्टाः साधु साध्विति

१.१५५.४४भयापहो राजपुत्रः पाञ्चालानां यशस्करः
राज्ञः शोकापहो जात एष द्रोणवधाय वै
इत्युवाच महद्भूतमदृश्यं खेचरं तदा

१.१५५.४५कुमारी चापि पाञ्चाली वेदिमध्यात्समुत्थिता
सुभगा दर्शनीयाङ्गी वेदिमध्या मनोरमा

१.१५५.४६श्यामा पद्मपलाशाक्षी नीलकुञ्चितमूर्धजा
मानुषं विग्रहं कृत्वा साक्षादमरवर्णिनी

१.१५५.४७नीलोत्पलसमो गन्धो यस्याः क्रोशात्प्रवायति
या बिभर्ति परं रूपं यस्या नास्त्युपमा भुवि

१.१५५.४८तां चापि जातां सुश्रोणीं वागुवाचाशरीरिणी
सर्वयोषिद्वरा कृष्णा क्षयं क्षत्रं निनीषति

१.१५५.४९सुरकार्यमियं काले करिष्यति सुमध्यमा
अस्या हेतोः क्षत्रियाणां महदुत्पत्स्यते भयम्

१.१५५.५०तच्छ्रुत्वा सर्वपाञ्चालाः प्रणेदुः सिंहसंघवत्
न चैतान्हर्षसंपूर्णानियं सेहे वसुंधरा

१.१५५.५१तौ दृष्ट्वा पृषती याजं प्रपेदे वै सुतार्थिनी
न वै मदन्यां जननीं जानीयातामिमाविति

१.१५५.५२तथेत्युवाच तां याजो राज्ञः प्रियचिकीर्षया
तयोश्च नामनी चक्रुर्द्विजाः संपूर्णमानसाः

१.१५५.५३धृष्टत्वादतिधृष्णुत्वाद्धर्माद्द्युत्संभवादपि
धृष्टद्युम्नः कुमारोऽयं द्रुपदस्य भवत्विति

१.१५५.५४कृष्णेत्येवाब्रुवन्कृष्णां कृष्णाभूत्सा हि वर्णतः
तथा तन्मिथुनं जज्ञे द्रुपदस्य महामखे

१.१५५.५५धृष्टद्युम्नं तु पाञ्चाल्यमानीय स्वं विवेशनम्
उपाकरोदस्त्रहेतोर्भारद्वाजः प्रतापवान्

१.१५५.५६अमोक्षणीयं दैवं हि भावि मत्वा महामतिः
तथा तत्कृतवान्द्रोण आत्मकीर्त्यनुरक्षणात्