१. आदिपर्व
१.१५६.१वैशंपायन उवाच

१.१५६.२एतच्छ्रुत्वा तु कौन्तेयाः शल्यविद्धा इवाभवन्
सर्वे चास्वस्थमनसो बभूवुस्ते महारथाः

१.१५६.३ततः कुन्ती सुतान्दृष्ट्वा विभ्रान्तान्गतचेतसः
युधिष्ठिरमुवाचेदं वचनं सत्यवादिनी

१.१५६.४चिररात्रोषिताः स्मेह ब्राह्मणस्य निवेशने
रममाणाः पुरे रम्ये लब्धभैक्षा युधिष्ठिर

१.१५६.५यानीह रमणीयानि वनान्युपवनानि च
सर्वाणि तानि दृष्टानि पुनः पुनररिंदम

१.१५६.६पुनर्दृष्टानि तान्येव प्रीणयन्ति न नस्तथा
भैक्षं च न तथा वीर लभ्यते कुरुनन्दन

१.१५६.७ते वयं साधु पाञ्चालान्गच्छाम यदि मन्यसे
अपूर्वदर्शनं तात रमणीयं भविष्यति

१.१५६.८सुभिक्षाश्चैव पाञ्चालाः श्रूयन्ते शत्रुकर्शन
यज्ञसेनश्च राजासौ ब्रह्मण्य इति शुश्रुमः

१.१५६.९एकत्र चिरवासो हि क्षमो न च मतो मम
ते तत्र साधु गच्छामो यदि त्वं पुत्र मन्यसे

१.१५६.१०युधिष्ठिर उवाच

१.१५६.११भवत्या यन्मतं कार्यं तदस्माकं परं हितम्
अनुजांस्तु न जानामि गच्छेयुर्नेति वा पुनः

१.१५६.१२वैशंपायन उवाच

१.१५६.१३ततः कुन्ती भीमसेनमर्जुनं यमजौ तथा
उवाच गमनं ते च तथेत्येवाब्रुवंस्तदा

१.१५६.१४तत आमन्त्र्य तं विप्रं कुन्ती राजन्सुतैः सह
प्रतस्थे नगरीं रम्यां द्रुपदस्य महात्मनः