१.१५६.१वैशंपायन उवाच
१.१५६.२एतच्छ्रुत्वा तु कौन्तेयाः शल्यविद्धा इवाभवन्
सर्वे चास्वस्थमनसो बभूवुस्ते महारथाः
१.१५६.३ततः कुन्ती सुतान्दृष्ट्वा विभ्रान्तान्गतचेतसः
युधिष्ठिरमुवाचेदं वचनं सत्यवादिनी
१.१५६.४चिररात्रोषिताः स्मेह ब्राह्मणस्य निवेशने
रममाणाः पुरे रम्ये लब्धभैक्षा युधिष्ठिर
१.१५६.५यानीह रमणीयानि वनान्युपवनानि च
सर्वाणि तानि दृष्टानि पुनः पुनररिंदम
१.१५६.६पुनर्दृष्टानि तान्येव प्रीणयन्ति न नस्तथा
भैक्षं च न तथा वीर लभ्यते कुरुनन्दन
१.१५६.७ते वयं साधु पाञ्चालान्गच्छाम यदि मन्यसे
अपूर्वदर्शनं तात रमणीयं भविष्यति
१.१५६.८सुभिक्षाश्चैव पाञ्चालाः श्रूयन्ते शत्रुकर्शन
यज्ञसेनश्च राजासौ ब्रह्मण्य इति शुश्रुमः
१.१५६.९एकत्र चिरवासो हि क्षमो न च मतो मम
ते तत्र साधु गच्छामो यदि त्वं पुत्र मन्यसे
१.१५६.१०युधिष्ठिर उवाच
१.१५६.११भवत्या यन्मतं कार्यं तदस्माकं परं हितम्
अनुजांस्तु न जानामि गच्छेयुर्नेति वा पुनः
१.१५६.१२वैशंपायन उवाच
१.१५६.१३ततः कुन्ती भीमसेनमर्जुनं यमजौ तथा
उवाच गमनं ते च तथेत्येवाब्रुवंस्तदा
१.१५६.१४तत आमन्त्र्य तं विप्रं कुन्ती राजन्सुतैः सह
प्रतस्थे नगरीं रम्यां द्रुपदस्य महात्मनः