१.१५७.१वैशंपायन उवाच
१.१५७.२वसत्सु तेषु प्रच्छन्नं पाण्डवेषु महात्मसु
आजगामाथ तान्द्रष्टुं व्यासः सत्यवतीसुतः
१.१५७.३तमागतमभिप्रेक्ष्य प्रत्युद्गम्य परंतपाः
प्रणिपत्याभिवाद्यैनं तस्थुः प्राञ्जलयस्तदा
१.१५७.४समनुज्ञाप्य तान्सर्वानासीनान्मुनिरब्रवीत्
प्रसन्नः पूजितः पार्थैः प्रीतिपूर्वमिदं वचः
१.१५७.५अपि धर्मेण वर्तध्वं शास्त्रेण च परंतपाः
अपि विप्रेषु वः पूजा पूजार्हेषु न हीयते
१.१५७.६अथ धर्मार्थवद्वाक्यमुक्त्वा स भगवानृषिः
विचित्राश्च कथास्तास्ताः पुनरेवेदमब्रवीत्
१.१५७.७आसीत्तपोवने काचिदृषेः कन्या महात्मनः
विलग्नमध्या सुश्रोणी सुभ्रूः सर्वगुणान्विता
१.१५७.८कर्मभिः स्वकृतैः सा तु दुर्भगा समपद्यत
नाध्यगच्छत्पतिं सा तु कन्या रूपवती सती
१.१५७.९तपस्तप्तुमथारेभे पत्यर्थमसुखा ततः
तोषयामास तपसा सा किलोग्रेण शंकरम्
१.१५७.१०तस्याः स भगवांस्तुष्टस्तामुवाच तपस्विनीम्
वरं वरय भद्रं ते वरदोऽस्मीति भामिनि
१.१५७.११अथेश्वरमुवाचेदमात्मनः सा वचो हितम्
पतिं सर्वगुणोपेतमिच्छामीति पुनः पुनः
१.१५७.१२तामथ प्रत्युवाचेदमीशानो वदतां वरः
पञ्च ते पतयो भद्रे भविष्यन्तीति शंकरः
१.१५७.१३प्रतिब्रुवन्तीमेकं मे पतिं देहीति शंकरम्
पुनरेवाब्रवीद्देव इदं वचनमुत्तमम्
१.१५७.१४पञ्चकृत्वस्त्वया उक्तः पतिं देहीत्यहं पुनः
देहमन्यं गतायास्ते यथोक्तं तद्भविष्यति
१.१५७.१५द्रुपदस्य कुले जाता कन्या सा देवरूपिणी
निर्दिष्टा भवतां पत्नी कृष्णा पार्षत्यनिन्दिता
१.१५७.१६पाञ्चालनगरं तस्मात्प्रविशध्वं महाबलाः
सुखिनस्तामनुप्राप्य भविष्यथ न संशयः
१.१५७.१७एवमुक्त्वा महाभागः पाण्डवानां पितामहः
पार्थानामन्त्र्य कुन्तीं च प्रातिष्ठत महातपाः